________________ - ततो मदनुरागेण, लोका धर्मपरायणाः / बहवस्तत्र संपन्ना, यथा राजा तथा प्रजा // 35 // दुर्मुखस्य अथ तं तादृशं वीक्ष्य, प्रमोदं जिनशासने। अमात्यो दुर्मुखो नाम, पापः प्रद्वेषमागतः // 36 // सापोनवः ततो रहसि ताताय, स दुरात्मा हितः किल / युष्मभ्यमहमित्येवं, प्रख्याप्य शठमानसः // 37 // इदं न्यवेदयद्देव !, नैवं राज्यस्य पालना / उच्छृङ्खलीकृताः सर्वे, कुमारेण यतो जनाः // 38 // नातिक्रामन्ति मर्यादां, लोका हि करभीरवः / ते मुक्ता मुत्कलाचाराः, कमनथै न कुर्वते // 39 // राजदण्डभयादेव, देव ! लोको निरङ्कुशः / उन्मार्गप्रस्थितस्तूर्ण, करीव विनिवर्तते // 40 // उद्दण्डोऽनार्यकार्येषु, वर्तमानः स केवलम् / प्रतापहाने राज्ञोऽपि, लाघवं जनयत्यलम् // 41 // अन्यच्चानाधुना भूरिलोको जैनमते स्थितः। कः कुमारप्रसादार्थी, नाश्रयेत्तत् सकर्णकः ? // 42 // परमहस्या एवं च-करहीने जने जाते, यथेष्टप्रविचारिणि / कस्यात्र यूयं राजानः, किंवा राज्यं विनाऽऽज्ञया // 43 // वश्यकता तदिदं यत् कुमारेण, देव ! प्रारम्भ्य लौकिकम् / राजनीतेः समुत्तीर्ण बुध्यते तन सुन्दरम् // 44 // तातः प्राहार्य ! यद्येवं, स्वयमेवोच्यतां त्वया / कुमारो न वयं तस्य, सम्मुखं भाषितुं क्षमाः // 45 // ततश्च तातानुज्ञामवाप्यैवं, दुर्मुखो मामभाषत / कुमार / नेदृशी नीतिड़पतेर्लोकपालने // 46 // यतः-करापीतजगत्सारो, महसा व्याप्तभूतलः / राजा दिनकराकारो, लोकस्योपरि तिष्ठति // 47 // यस्तु प्राकृतलोकस्य, वशगः स्यान्नहीपतिः। तस्य स्यात्कीदृशं राज्यं ?, को वा न्यायस्तदाज्ञया // 48 // राजदण्डभयाभावात्ततो लोका निरङ्कुशाः / दुष्टचेष्टितमार्गेषु, प्रवर्त्तन्ते यथेच्छया // 49 // तदेवं स्थिते-आदितः करदण्डाभ्यां. यस्तानो शास्ति भपतिः। तेनैव परमार्थेन. सत्कतो धर्मसम्प्ल कुमार ! तदिदं ज्ञात्वा, राजधर्मव्यतिक्रमात / नालीकं धर्मवात्सल्यं, युक्तं कर्त भवाशाम // 5 // ततः प्रादुर्भवत्कोपवितलीभूतचेतसा / आकारसंवरं कृत्वा, मया तं प्रति भाषितम् // 52 // आर्य ! युक्तमिदं वक्तुमेव मां प्रति यद्यहम् / दुष्टवष्टादिलोकस्य, कुर्या सन्मानपूजनम् // 53 // ये. तु स्वगुणमाहात्म्याद्देवानामपि पूजिताः / तेषां यथेच्छदानेऽपि, नैतत्संबध्यते वचः // 54 // तथाहि-ये चौर्यपारदार्यादेः, सर्वस्माद्दुष्टचेष्टितात् / स्वत एव महात्मानो, निवृत्ताः सर्वभावतः // 55 // तेषां जैनेन्द्रलोकानां, दण्डः स्यात् कुत्र कारणे ? / दण्डवुद्धिर्भवेत्तेषु, यस्यासौ दण्डमर्हति // 56 // करोऽपि रक्षणीयेषु, लोकेषु ननु बुध्यते / तस्यापि नोचिता जैना, ये गुणैरेव रक्षिताः // 57 / / अतः किङ्करतां मुक्त्वा, नान्यत्किञ्चन भूभुजाम् / विधातुं युक्तमेतेषां सैवास्माभिर्विधीयते // 58 // येषां नाथो जगन्नाथो, भगवांस्तेषु किङ्करः / यः स्याद्राजा स एवात्र, राजा शेषास्तु किङ्कराः // 59 // एवं चाचरता ब्रूहि, राजनीतेविलवनम् / किं मया विहितं येन, भवानेवं प्रजल्पति ? // 6 // किं च–अलीकधर्मवात्सल्यं, मदीयं वदता त्वया / परिस्फुटीकृतं नूनं, दुर्मुखत्वमिहात्मनः // 61 // ___ एवं च वदति मयि लक्षितो दुर्मुखेण मदीयोऽभिप्रायः / चिन्तितमनेन–अये ! अर्हद्दर्शने निर्भरोऽस्यानुरागः अनिवर्तकश्चित्तप्रसरः कुपितश्चायं मदीयवचसा तदलमनेनाधुना गाढतरमुढेजितेन प्रगुणीकृत एवात्रार्थे मया राजा। ततः स्वयमेव स्वाभिमतमनुष्ठास्यामि साम्प्रतं पुनरेनमनुलोमयामीति संचिन्त्याभिहितमनेन–साधु कुमार ! साधु, सुन्दरस्ते सद्धर्मस्थैर्यातिरेकः मया हि भवतश्चित्तपरीक्षणार्थ सर्वमिदमुपक्रान्तं, ततश्च सुनिश्चितमधुना यदुत तावकीनं मनः स्थिरतया मेरुशिखरमप्यधरयति, तन्नेदं मदीयवचनं कुमारेणान्यथा सम्भावनीयम् / मयाऽभिहितं-आर्य ! किमत्र वक्तव्यं ?, अविषयो भवादृशाम(शोऽन्य)न्यथासम्भावनायाः, ततो निर्गतो मत्समीपाडुर्मुखः / दाने करमुक्तौ च