________________ मनीष्यादिकथोपसं. हारः वैश्वानरप्रभाव: दोषायेह कुसंसर्गः, सुसंसर्गों गुणावहः / एतच्च द्वयमप्यत्र, मध्यबुद्धौ प्रतिष्ठितम् // 6 // तथाहि-बालः स्पर्शनसंबन्धादेषोऽभूदुःखभाजनम् / युक्तोऽभूत्सतताहाद, एष एव मनीषिणा // 69 // तदिदं भो! विनिश्चित्य, बहिरङ्गान्तरैः सदा / न कार्यों दुर्जनैः सङ्गः कर्तव्यः सुजनैः सह // 7 // ततश्च-इदमाकर्ण्य मौनीन्द्र, वचनं सुमनोहरम् / प्रबुद्धा बहवः सत्त्वा, जाता धर्मपरायणाः // 71 // प्राप्ता देवा निजं स्थानं, स्थितो राज्ये सुलोचनः / गतोऽन्यत्र विहाराय, सूरिः शिष्यगणैः सह // 72 // ततश्च-विहृत्य कालं भूयांसमागमोक्तेन वर्त्मना / पर्यन्तकाले संप्राप्ते, विधाय सकलं विधिम् // 73 // ज्ञानध्यानतपोवीर्यवह्निनिर्दग्धकल्मषः / मनीषी निवृति प्राप्तो, हित्वा स्वं देहपञ्जरम् // 74 // ये तु मध्यमसद्वीर्यास्ते तनूभूतकर्मकाः / गता मध्यमबुद्धयाद्या, देवलोकेषु साधवः // 75 // बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम् / तत्तथैवाखिलं जातं नान्यथा मुनिभाषितम् // 76 // [ इति स्पर्शनकथानकं समाप्तम् ] विदुर उवाच-कुमार ! तदिदं मया ह्यः कथानकमाकर्णितं, आकर्णयतश्च मम लडितं दिनं, तेन युष्मत्समीपे नागतोऽस्मि / मयाऽभिहितं-भद्र ! सुन्दरमनुष्ठितं, यतोऽतिरमणीयकमिदं कथानकं बुध्यत एव श्रुत्वा अहो अत्यन्तदुरन्तः पापमित्रसम्बन्धो यतस्तस्य बालस्य स्पर्शनसम्पर्कादिहामुत्र च निबिड विडम्बनागर्भा दुःखपरम्परैव केवलं संपन्ना नान्यत्किञ्चनेति / विदुरेण चिन्तितं-बुद्ध स्तावदनेन कथानकतात्पर्यार्थ इति भविष्यति मे वचनावकाशः / इतश्च तत्रावसरे मत्तो नातिदुरे वर्तते वैश्वानरः श्रुतं तेन मामकीनं वचनं, चिन्तितमनेनअये ! विरूपको नन्दिवर्धनस्योल्लापो व्युत्पादितप्रायोऽयमनेन विदूरेण तन्न सुन्दरमिदं वर्तते, धृष्टः खल्वेष विद्रो, ज्ञापयिष्यत्यस्य मदीयस्वरूपमिति साशङ्कः संपन्नो वैश्वानरः / विदुरेणाभिहितंकुमार ! सत्यमिदं, सम्यगवधारितं कुमारेण / अन्यच्च प्रकृतिरेषा प्रायः प्राणिनां यथा यत्र कुत्रचित्किञ्चन दृष्टं श्रुतं वा सर्वमात्मविषये योजयन्ति, ततो मयाऽपीदं कथानकमनुश्रुत्य स्वहृदये चिन्तितं यदुत यदि कुमारस्य कदाचिदपि पापमित्रसम्बन्धो न भवति ततः सुन्दरं संपद्यते / मयाऽभिहितं-भद्र ! किमत्र चिन्तनीयं ?, नास्त्येव मे नापि भविष्यति पापमित्रसम्बन्धगन्धोऽपीति / विदुरः प्राहवयमप्येतावदेवार्थयामहे / ततः स्थितो मदीयकर्णाभ्यर्णे विदरः, शनैः शनैरभिहितं चानेन यदुत केवलमेषोऽपि वैश्वानरो लोकवार्त्तया दुष्टप्रकृतिः श्रूयते, तदयं सम्यक् परीक्षणीयः कुमारेण, मा भूदेष स्पर्शनवद्धालस्य पापमित्रतया भवतोऽनर्थपरम्पराकारणमिति / निरीक्षते च तस्मिन्नवसरे वैश्वानरः साकूतः सन्नभिमुखो मदीयवदनं, लक्षितोऽहमनेन मुखविकारतस्तैर्विदूरवचनैर्दयमानः। ततः कृता वैश्वानरेण मां प्रति सा पूर्वसाङ्केतिका संज्ञा, भक्षितं मया क्रूरचित्ताभिधानं तद्वटकं, ततस्तत्प्रभावान्मे क्षणेन वृद्धोऽन्तस्तापः, समुल्लसिताः स्वेदबिन्दवो, जातं गुञ्जासन्निभं शरीरं, संपन्न विषमदष्टोष्ठं भग्नोग्रभृकुटितरङ्गमतिकरालं वत्रकुहरम् / ततो भद्रे अगृहीतसङ्केते ! तथा वैश्वानरवटकप्रभावाभिभूतात्मना मया पापकर्मणाऽनाकलय्य तस्य वत्सलतामनालोच्य, हितभाषितामविगणय्य चिरपरिचय, परित्यज्य स्नेहभावमुररीकृत्य दुर्जनतां, सर्वथा निष्ठुरवचनैस्तिरस्कृतोऽसौ विदुरः यदुत अरे दुरात्मन् ! निर्लज्ज त्वं मां बालकल्पं कल्पयसि, तथाऽचिन्त्यप्रभावोपेतं परमोपकारकमन्तरङ्गभूतं मे वैश्वानरं तथाविधदुष्टस्पर्शनोपमं मन्यसे, अददानस्य च प्रत्युत्तरं विदुरस्य मया दत्ता कपोलदारणी चपेटा, गृहीत्वा महत्फलकं प्रहर्तुमारब्धोऽहं, ततो भयातिरेकप्रकम्पमानगात्रय