________________ केवलं सततं यत्नः, प्रमादपरिवजितैः / यावज्जीवं विधातव्यो, भवद्भिरिदमुच्यते // 39 // यतः-नाधन्याः पारमेतस्या, गच्छन्ति पुरुषाधमाः। ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः // 40 // ततस्तैः प्रणतैः सर्वैर्जजल्पे सूरिसंमुखम् / इच्छामोऽनुग्रहं नाथ !, कुर्मों नाथानुशासनम् // 41 // स्थगिताननदेशेन, मुखवत्रिकया मुदा / अत्रान्तरे कृतः प्रश्नः, शत्रुमर्दनसाधुना // 42 // कथम् ? विशालं निर्मलं धीरं, गम्भीरं गुरुदक्षिणम् / दयापरीतं निश्चिन्तं, द्वेषाभिष्वङ्गवर्जितम् // 43 // स्तिमितं जगदानन्दं, यद्वा वाग्गोचरातिगम् / कथमीदृग्भवेचित्तं, नाथ ! यादृग् मनीषिणः!॥४४॥युग्मम् / यस्य चेष्टितमालोक्य, शिथिलीभूतबन्धनाः। एते सर्वे वयं मुक्ता, भीमात् संसारचारकात् // 45 // गुरुरुवाच-या विज्ञाता त्वयाऽप्यस्य, जननी शुभसुन्दरी। यावन्तस्तत्सुतास्तेषां सर्वेषामीदृशं मनः // 46 // ततो गृहीततत्त्वोऽपि, राजर्षिरिदमब्रवीत् / बोधार्थ मुग्धलोकानां, विनयानतमस्तकः // 47 // किं तस्याः शुभसुन्दर्या, विद्यन्ते बहवः सुताः ? अस्माभिश्च पुरा ज्ञातमयमेककपुत्रकः // 48 // गुरुरुवाच-बाढं विद्यन्ते / तथाहि-ये ये त्रिभुवनेऽप्यत्र, दृश्यन्तेऽनेन यादृशाः (सन्निभाः)। ते सर्वे शुभसुन्दर्याः, पुत्रा नास्त्यत्र संशयः // 49 // किं च-ये केचिदुत्तमा लोकाः, सत्त्वमार्गानुयायिनः / ते पुत्राः शुभसुन्दर्यास्तुल्या ज्ञेया मनीषिणा // 50 // राजर्षिरुवाच-याऽसौ बालस्य जननी, भवद्भिरुपवर्णिता / भदन्त ! बालादन्येऽपि, तस्याः किंसन्ति सूनवः। सूरिणाऽभिहितं-नितरां सन्ति / तथाहि-ये ये त्रिभुवनेऽप्यत्र, जघन्याः क्लिष्टजन्तवः। ते तेऽकुशलमालायाः, पुत्रा नास्त्यत्र संशयः॥५२॥ ते बालसदृशैरेव, विज्ञेया दुष्टचेष्टितैः / एतेऽकुशलमालायाः, सूनवः सुपरिस्फुटाः // 53 // राजर्षिरुवाच-यद्येवं तर्हितस्याः सामान्यरूपायाः, किमन्ये सन्ति सूनवः / भदन्त ! किं वा नो सन्ति, मध्यबुद्धेः सहोदराः // 54 // सूरिणाऽभिहितं-बहुतमास्ते विद्यन्ते, यतःये बालचरिताः केचिन्मनीषिचरिताश्च ये। एतेभ्यो ये परे सत्त्वाः, सर्वे तेऽमुष्य सोदराः // 55 // ये केचिच्छबलाचाराः, समा मध्यमबुद्धिना / सुताः सामान्यरूपायास्ते जीवा भुवनोदरे // 56 // सकाशादितराभ्यां ते, गण्यमाना जगत्त्रये / अनन्तगुणितास्तेन, प्रोक्ता भूरितमा मया // 57 // राजर्षिरुवाच-भदन्त ! यद्येवं ततो मम चेतसि परिस्फुरति-यथैवं व्यवस्थिते सत्येतदापनं यदुत भार्यात्रयेण जनितं, जघन्योत्तममध्यमम् / तस्य कर्मविलासस्य, जगदेतत्कुटुम्बकम् // 58 // सूरिरुवाच-आर्य ! नैवात्र सन्देहः, सम्यगार्येण लक्षितम् / मार्गानुसारिणी बुद्धिर्भवत्येव भवादृशाम् / / 59 // तथाहि-जघन्यमध्यमोत्कृष्टाः, सर्वयोनिषु जन्तवः। विद्यन्ते केवलं नृत्वे, व्यक्तभावा भवन्ति ते // 60 // ततश्च-नरत्वेऽपि विनिर्दिष्टं, व्याप्येवेदं कुटुम्बकम् / यदत्र विदुषा कार्य, तदिदानीं निबोधत // 61 // त्यक्तव्यं बालचरितं, न कार्यस्तत्समागमः / मनीषिचरिते यत्नः, कर्तव्यः सुखमिच्छता // 62 // यतोऽत्र बहवो जीवाः, प्रायो मध्यमबुद्धयः / ते च सम्यगनुष्ठानात् संपद्यन्ते मनीषिणः // 63 // एतद्विज्ञाय भो भव्याः ! सर्वेऽपि गदिता मया / कार्य मदनुरोधेन, वृत्तमस्य मनीषिणः // 6 // वर्जनीयश्च यत्नेन, पापमित्रः समागमः / यतः स्पर्शनसम्पर्कात् , स बालो निधनं गतः // 65 // वजनेन पुनस्तस्य, मनीषी सुपरिस्फुटाम् / लोके शेखरतां प्राप्य, जातोऽयं मोक्षसाधकः // 66 // कल्याणमित्रः कर्तव्या, मैत्री पुंसा हितैषिणा / इहामुत्र च विज्ञेया, सा हेतुः सर्वसम्पदाम् // 67 //