________________ मनीषिपुण्यसंभाराष्टास्तूर्ण समागताः / एते विबुधसंघाता, द्योतयन्ति नभस्तलम् // 6 / / एष नागरिको लोकः, कौतुकाक्षिप्तमानसः / कुरुते ५५हर्षकल्लोलैः, सागरक्षोभविभ्रमम् // 7 // अथवा--मत्तो विदितवृत्तान्तो, मनीषिगुणरञ्जितः / ज्ञातयुष्मदभिप्रायः, को वात्राप्रगुणो भवेत् // 8 // देव ! तत्साम्प्रतमुत्थातुमर्हथ यूयं, ततः समुत्थितौ मनीषिनरेन्द्रौ निर्गतौ द्वारदेशे, ततो रत्नकिङ्किणीजालभूषिते समारूढः प्रधानस्यन्दने मनीषी / ततः ५६सुखमुकुमारासनोपविष्टः स्वयं प्रतिपन्नसारथिभावेन सह नरपतिना विलसत्किरीटांशुरञ्जितोत्तमाङ्गभागो ध्रियमाणेन निजयशोधवलेनातपत्रेण कपोललोलायमानकुण्डलो, धूयमानेन शशधरदीधितिच्छटाच्छेन वरविलासिनीकरवर्तिना चामरप्रकरेण स्थूलमुक्ताफलकलापविराजितवक्षःस्थलः, पठताऽतितारमुद्दामबन्दिवृन्देन कटककेयूरखचितबाहुदण्डो, नृत्यता तोषनिर्भरवरविलासिनीसार्थेन अतिसुरभिताम्बूलाङ्गरागप्रीणिताशेषेन्द्रियग्रामो, बधिरयता दिक्चक्रवालं वरतूर्यनि?षेण विशददिव्यांशुकप्रतिपन्नदेहो, गायता मनोहारिकिन्नरसङ्घन घूर्णमानविचित्रवनमालानिचयचर्चितशरीरो मुश्चता हर्षातिरेकादुत्कृष्टसिंहनादसन्दर्भ देवसङ्खन प्रीणिताशेषप्रणयिजनमनोरथः श्लाघयता नागरलोकेन तथाऽमरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्मदभिमुखमवलोकयतीति सशृङ्गाराभिर्मदनरसवशीकृतहृदयतया नानाविधविलासाभिर्मामियं तिरोधाय दर्शनलोलतया स्वयमवलोकयतीति परस्परं सेाभिर्गुरुजनोऽस्मानेवमवलोकयन्तीः पश्यतीति सलज्जाभिः प्रत्रजितः किलायं भविष्यतीति सशोकाभिरलं संसारेण योऽयमेवंविधैरपि त्यज्यत इति ससंवेगाभिरेवमनेकरसभावनिर्भर हृदयमुद्वहन्तीभिर्निरीक्ष्यमाणमूर्तिर्वातायनविनिर्गतवदनसहस्त्राभिः पुरसुन्दरीभिरभिनन्द्यमानोऽम्बरविवरवर्तिनीभिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन स्वप्रतिबिम्बसन्निभेन मध्यमबुद्धिना अनुग़म्यमानो रथहरिकरिगतैर्महासामन्तसमूहैर्महता विमर्दैन प्राप्तो मनीषीनिजविलसितोद्याने / रथादवतीर्य स्थितः क्षणमात्रं प्रमोदशेखरद्वारे परिवेष्टितो राजवृन्देन / इतश्च स्यन्दनारोहणादारभ्य राजा विशेषतस्तदा सत्त्वपरीक्षार्थ मनीपिस्वरूपे दत्तावधानो निरूपयति स्म यावता तस्य विशुध्यमानाध्यवसायप्रक्षालितमनोमलकलङ्कस्य सत्यपि तादृशे हर्षहेतौ न लक्षितस्तेन तिलतुषत्रिभागमात्रोऽपि चेतोविकारः प्रत्युत गाढतरं क्षारमृत्पुटपाकादिभिरिव विचित्रसंसारविलसितदर्शनसमुद्भूतैर्भावनाविशेषैनिर्मलीभूतं चित्तरत्नम् / ततः परस्परानुविद्धतया मनः शरीरयोर्जातमस्य देदीप्यमानं शरीरं विलोकितं च राज्ञा यावत्तत्तेजसाभिभूतं दिनकरकरनिकरतिरस्कृतमिव तारकानिकुरुम्ब न राजते मनीषिणोऽभ्यर्णवति तद्राजकम् / ततस्तदीयगुणप्रकर्षेण राज्ञोऽपि विलीनं तद्विवन्धकं कर्मजालं संजातश्चरणपरिणामो निवेदितः सुबुद्धिमध्यमबुद्धिमदनकन्दलीसामन्तादिभ्यो निजोऽभिप्रायः / ततोऽचिन्त्यमाहात्म्यतया महापुरुषसन्निधानस्य, विचित्रतया कर्मक्षयोपशमस्य, रञ्जितचित्ततया निष्कृत्रिममनीषिगुणैः समुल्लसितं सर्वेषां तदा जीववीर्यम् / ततस्तैरभिहितम् साधु साधूदितं देव !, युक्तमेतद्भवादृशाम् / संसारे ह्यत्र निःसारे, नान्यच्चारु विवेकिनाम् // 1 // तथाहि-देव ! यद्यत्र संसारे, किश्चित् स्याद्रामणीयकम् ! इलाध्यं सारमुपादेयं, वस्तु सुन्दरमेव वा / 2 / ततः किमीदृशाः सन्तः, पूज्या युष्मादृशामपि / संसारमेनं मुश्चेयुतितत्त्वा महाधियः॥३॥ युग्मम् / ततोऽमूदृशसल्लोकत्यागादेवावगम्यते / नास्त्यत्र किश्चित्संसारे, सारं चारकसभिभे // 4 // 55 ०कल्लोले० प्र० 56 °सुकु० प्र० राजादीनां दीक्षापरिणतिः