________________ नैमित्तिकाहान तथाहि-घोरसंसारकान्तारचारनिःसारकाम्यया / प्रवर्त्तमानं जैनेन्द्र, धर्मे जीवं जगद्धिते // 1 // मनसा वचसा सम्यक्रियया च कृतोद्यमः / प्रोत्साहयति यस्तस्य, स बन्धुः स्नेहनिर्भरः // 2 // अलीकस्नेहमोहेन,यस्तु तं वारयेज्जनः / स तस्याहितकारित्वात्परमार्थेन वैरिकः // 3 // तस्मान्न वारणीयोऽयं, स्वहितोद्यतमानसः / एवमारभतां देव ! स्नेहोऽत्र विहितो भवेत् // 4 // न चैष शक्यते देव!, कृतैर्यत्रशतैरपि / मनीषी लोभमानेतुं, विषयैर्दैविकैरपि // 5 // , यतः प्रादुर्मूतोऽस्य महात्मनो विषयविषविपाकावेदनचतुरे भगवद्वचने सुनिश्चितः प्रबोधः, विस्फुरितं सकलमलकालुष्यक्षालनक्षम हृदयसरोवरे विवेकरत्नं समुल्लसितं यथावस्थितार्थस्वरूपनिरूपणनिपुणं सम्यग्दर्शन दर्शनं संजातोऽस्य निःशेषदोषमोषकरश्चरणपरिणामः, सति च भगवदवलोकनया जीवस्यैवंविधे कल्याणामिनिवेशकारिणि गुणकदम्बके न रमते विषयेषु चित्तं, प्रतिभासते हेयत्वबुद्धया भवप्रपञ्चः इन्द्रजालायते निःसारतया सकलं जगद्विलसितं, स्वामदर्शनायते क्षणदृष्टनष्टतया जनसमागमः न निवर्तते प्रलयकालेऽपि कस्यचिदनुरोधेन मोक्षमार्गस्य साधनप्रवणा बुद्धिः। तदेवंस्थिते देव अस्योपप्रलोभनमाचरतामस्माकं केवलं मोहविलसितभाविर्भविष्यति न पुनः काचिदभिप्रेतार्थसिद्धिः तदलमनेनास्थानारम्भेणेति / नृपतिराह-यद्येवं ततः किं पुनरधुना प्राप्तकालं ? सुबुद्धिराह-देव ! निरूप्य दीक्षाग्रहणार्थमस्य प्रशस्तदिनं क्रियतां तदारात् सर्वादरेण महत्तरः प्रमोदः। नृपतिराह-यत्त्वं जानीये। ततः समाहूतः सिद्धार्थों नाम सांवत्सरः। समागतस्त्वरया प्रविष्टोऽभ्यन्तरे राज्ञा दापितमासनं कृतमुचितकरणीयं कथितमाहानप्रयोजनं, ततो निरूप्य निवेदितमनेन यदुत अस्मादिनानवमे दिनेऽस्यामेव भाविन्यां शुक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभियों गमुपगते शशधरे वहति शिवयोगे दिनकरोदयातीते सपादे प्रहरद्वये वृषलग्नं सप्तग्रहकं एकान्तनिरवयं भविष्यति तदाश्रीयतामिति अभिहितं राजमन्त्रिणोः, परिपूज्य प्रहितः सांवत्सरः गतं तद्दिनम् / ____ ततो द्वितीयदिनादारभ्य प्रमोदशेखरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरालयसौन्दर्या विधापिता राज्ञा महोत्सवाः दापितानि वरवरिकाघोषणपूर्वकं सर्वत्र महादानानि विहारितो देवेन्द्रवदैरावतविभ्रमजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरादिषु सुराकारै गरिकजनैः स्तूयमानो निरुपमविलासविस्तारमनुभावयता नरपतिना प्रतिदिनं नगरे. मनीषी, प्राप्तोऽष्टमवासरः, तत्र च नीतं निखिलजनसन्मानदानार्धमानविनोदेन प्रहरद्वयम् / अत्रान्तरे दिनकराचरितेन मनीषिवचनं सूचयताऽभिहितं कालनिवेदकेन / नाशयित्वा तमो लोके, कृत्वाऽऽहादं मनस्विनाम् ।हे लोका! कथयत्येष, भास्करो वोऽधुना स्फुटम् // 1 // वर्धमानः प्रतापेन, यथाऽहमुपरि स्थितः। सर्वोऽपि स्वगुणैरेव, जनस्योपरि तिष्ठति // 2 // ततस्तदाकर्ण्य राजा सुबुद्धिप्रभृतीनुद्दिश्याह--अये ! प्रत्यासीदति लग्नवेला, ततः सजीकुरुत तूर्ण भगवत्पादमूले गमनसामग्रीम् / सुबुद्धिरुवाच--देव ! प्रवैव वर्तते मनीषिपुण्यपरिपाटीव सर्वा सामग्री। तथाहि-अमी घणघणारावं, कुर्वन्तः कनकोज्ज्वलाः। रथौघाः प्रस्थितास्तूर्णमायुक्तवरवाजिनः॥१॥ एते संख्यामतिक्रान्ता, राजवृन्दैरधिष्ठिताः / जीमूता इव नागेन्द्रा, द्वारे गर्जन्ति मन्थरम् // 2 // वर्याश्ववारैः संरुद्धाः, कथञ्चिच्चटुलाननैः। खमापिबन्तोऽमी देव !, हया हेपन्ति दर्पिताः।।३।। अयं पदातिसंघातः, क्षीरनीरेश्वरोपमः। मत्तः प्रयोजनं ज्ञात्वा, सुवेषश्चलितोऽखिलः // 4 // रत्नालङ्कारनेपथ्या:, सहाव्यपटलाकुलाः। प्रस्थिता वरनारीणामेते ५४वारा वरेक्षणाः॥५॥ 54 समुदाया: अष्टाह्निकोत्सवः निष्कमणायोस