________________ टपुरुषाणां पुण्यप्राग्भारवतां सूरिपादप्रसादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः / यद्यपि चेह सर्वस्यैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रकालस्वभावकर्मनियतिपुरुषकारादयः कारणविशेषा दृष्टादृष्टाः समुदायेनैव हेतुभावं भजन्ते, नैकः कचित्कस्यचित्कारणं, तथापि विवक्षयैकस्यापि कारणत्वं वक्तुं शक्यत इति तन्निजविलसितमुद्यानमस्माभिर्नानाविधभावनिबन्धनमभिधीयत इति / . नृपतिराह-सखे ! चारूक्तमिदमिदानीं, यद्भवता तदाऽभिहितमासीत् भगवतः पुरतो यथा-अहं देवायाऽस्य कर्मविलासस्य राज्ञःस्वरूपं निवेदयिष्यामि तनिवेदयतु भवान् , अहं श्रोतुमिच्छामि। सुबुद्धिराहदेव ! यद्येवं ततो विविक्तस्थीयतां देवेन, नृपतिनोक्तमेव भवतु, ततोऽनुज्ञातो मनीषिणा समुत्थायास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ / सुबुद्धिनाऽभिहितं-देव ! अयमत्र परमार्थों ये ते भगवता चत्वारः पुरुषा प्ररूपिताः, तेषामुत्कृष्टतमास्तावत्सकलकर्मप्रपञ्चरहिताः सिद्धा अभिधीयन्ते / जघन्यमध्यमोत्कृष्टाः पुनरेत एव बालमध्यमबुद्धिमनीषिणो विज्ञेयाः अतः कर्मविलासो राजा यो भगवता प्रतिपादितः स एतेषामेवंविधस्वरूपाणां जनको निजनिजकर्मोदयो विज्ञेयः। स एव हि यथावर्णितवीर्यो नापरः। तस्य च तिखः शुभाशुभमिश्ररूपाः परिणतयः, ता एव भगवताऽमीषां मनीषिबालमध्यमबुद्धीनां शुभसुन्दयकुशलमालासामान्यरूपेति नामभिर्जनन्य इति प्रतिपादिताः। ता एव यतोऽमूनीदृशरूपतया जनितवत्यः। नृपतिराह--स तद्यमीषां वयस्यः कोऽभिधीयतां? सुबुद्धिरुवाच-देव! तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयम् / नृपतिना चिन्तितं--अये! मयाऽपीदं भगवता कथ्यमानं सर्वमाकर्णितमासीत्, केवलं न सम्यग् विज्ञातं यथाऽनेन, तदस्य सुबुद्धेरेवंविधबोधेन सुसाधुमिः सह चिरपरिचयः कारणम् / अहो वचनकौशलं भगवतां, कथितमेवातस्तदाऽमीषां मनीषिप्रभृतीनां सम्वन्धि सर्वमन्यव्यपदेशेन चरितं, अथवा किमत्र चित्रं? अत एव प्रबोधनरयतयस्ते भगवन्तोऽमिधीयन्ते। तदेवं विचिन्त्याभिहितमनेन-सखे ! पर्याप्तमिदानी, विदितोऽस्माभिरेष वृत्तान्तः, केवलमिदमिदानीमभिधीयते यदुत यथेष मनीषी विषयानुषङ्गं कियन्तमपि कालं भजेत ततो वयमप्यनेनैव सह दीक्षाग्रहणं कुर्वीमहि, यतः प्रथमदर्शनादारभ्य प्रवर्धते ममास्योपरी स्नेहानुबन्धः न संचरति विरहकातरतयाऽन्यत्र हृदयं न निवर्तेयातामेतद्वदनकमलावलोकनाल्लोचने, ततो नास्य विरहे वयं क्षणमप्यासितुमुत्सहामहे / न च तथाविधोऽद्यापि अम्माकमाविर्भवति चरणकरणपरिणामः तदेनं तावदभ्यर्थय प्रणयस्नेहसारं,अनुभावय निरुपचरितशब्दादिभोगान् , प्रकटयास्य पुरतस्तत्स्वामिभावं, दर्शय वज्रेन्द्रनीलमहानीलककेतनपद्मरागमरकतवैडूर्यचन्द्रकान्तपुष्परागादिमहारत्नपूगान् , दर्शयापहसितत्रिदशसुन्दरीलावण्याः कन्यकाः सर्वथा कथञ्चिदुपप्रलोभय यथा कियन्तमपि कालमस्मत्समीहितमेष मनीषी निर्विचारं संपादयति / सुबुद्धिनाऽभिहितं--यदाज्ञापयति देवः, केवलमत्रार्थे किश्चिदहं विज्ञापयामि तद्युक्तमयुक्तं वा क्षन्तुमर्हति देवः / नृपतिराह-सखे! सदुपदेशदानादिकारिणां भवतां शिष्यकल्पे मय्यप्यलमियता संभ्रमेण वदतु विवक्षितं निर्विकल्पमार्यः। सुबुद्धिरुवाच-देव यद्येवं ततो यत्तावदुक्तं देवेन यथा' ममात्र मनिषिणि गुरु स्नेहातिरेकः' तद्युक्तमेव, यतः समुचितो महतां गुणिषु पक्षपातः, स हि क्रियमाणः पापाणुपूर्ग दलयति, सदाशयं स्फीतयति, सुजनतां जनयति, यशो वर्धयति, धर्ममुपचिनोति, मोक्षयोग्यतामालक्षयतीति / यत्पुनरुक्तं 'यथा कथञ्चिदुपप्रलोभ्य कियन्तमपि कालमेष धारणीय इति' तम्न न्याय्यं, प्रत्युतानुचितमाभासते, यतो नैवमस्योपरि स्नेहानुबन्धेो दर्शितो भवति किं तर्हि ? प्रत्युत प्रत्यनीकतां संपद्यते