________________ याख्यान .. . 132 मुबुद्धिनाऽथापत्या गणितोऽहं मध्यमजनलेख्ये, सतो घिङमा मिथ्याभिमानिनमिति / अथवा वस्तुस्थितिरेषा न मयाऽत्र विषादो विधेयः। तथाहि-गजेन्द्रस्तावदाभाति, शूरः सन्त्रासकारकः / यावद्भासुरदंष्ट्राग्रो, न सिंह उपलभ्यते // 1 // यदा सिंहस्य गन्धोऽपि, स्यादाघ्रातः करेणुना / जायते कम्पमानोऽसौ, तदाऽहो कातरः करी // 2 // मनीषिणमपेक्ष्यातो, युक्ता मे मध्यरूपता / अयं सिंहो महाभागो, मादृशाः करिकातराः // 3 // तदत्र न विषादो मे, कर्तुं युक्तः प्रयोजने / यतो ५२द्वितीयलेखा ऽपि, मादृशैरतिदुर्लभा // 4 // तथाहि-भवेत्सर्वोत्तमस्तावत्पुरुषो यदि पारयेत् / अशक्तो मध्यमोऽपि स्यान्न जघन्यः कदाचन // 5 // मिथ्याभिमानो नैवायमेक एवाभवत्पुरा / किं तर्हि ! बहवोऽन्येऽपि, किं वा मे चिन्तया तया ? // 6 // बालगतवि- एवं चिन्तयति राजनि सुबुद्धिराह-देव ! सम्यगवधारितं देवेन यथैष महोपकारक इति, कारजाश्चः यतो जिनधर्मानुष्ठाने प्रवर्तमानस्यास्य जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपयाण्यानं कारी जगति विद्यते / नृपतिराह-एवमेतनात्र सन्देहः, केवलमिदानीं एष मे मनसि वितकों भगवद्वचनानुस्मरणेनासकृन्निराकृतोऽपि निलंजब्राह्मण इव ५३प्रकरणे पुनः पुनः प्रविशतीति तदैनमपनेतुमर्हत्यायः / सुबुद्धिराह-कीदृशोऽसौ ? नृपतिरुवाच-समाकर्णय, स्वसंवेदनसंसिद्धमिदमासीत्तदा यदुत तत्र चैत्यभवने प्रविष्टमात्राणामस्माकं शान्तानीव सर्वद्वन्द्वानि, उच्चाटितेव केनचिद्राज्यकार्यचिन्तापिशाचिका, विलीनमिव सकलमोहजालं, विध्यात इव विपरीताभिनिवेशग्रहः निवृतममृतसेकसम्पर्केणेव शरीरं, सुखसागरावगाढमिव हृदयं क्षणमात्रेणासीत् / यत्पुनर्नमस्कृतभुवननाथस्य, प्रणतगुरुचरणस्य, वन्दितमुनिवृन्दस्य भगवद्वचनामृतमाकर्णयतस्तत्र में निरुपमं सुखसंवेदनमभूत् तत्सकलं वाग्गोचरातीतमितिकृत्वा न शक्यते कथयितुं, तदेवंविधेऽपि तत्र जैनेन्द्रमन्दिरे समिहितेऽपि तादृशे भगवति गुरौ कथयति रागविषशमनं विरागमार्ग नेदीयसि शान्तचित्ते तपस्विलोकेऽपि सति तावति जनसमुदये कथं बालस्य तथाविधोऽध्यवसायः सम्पन्न इति / सामञ्या ब सुबुद्धिनाऽभिहितं- देव ! यत्तावदुक्तं देवेन यथा 'तत्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमालाबलते त्रेणाचिन्तितगुणसन्दोहाविर्भावोऽभूदिति' तमाश्चर्य, प्रमोदशेखरं हि तद्भवनमभिधीयते, हेतुरेव तत्तादृशगुणकलापस्य / यत्पुनरभ्यधायि यथा 'कथं पुनस्तस्यैवंविधसामयामपि बालस्य तथाविधोऽध्यवसायः संपन्न' इति तत्र निवेदितमेव भगवद्भिः कारणम् / किं च अभिधानमेव तत्संबन्धि विचार्यमाणं संदेहं दलयति, ततो न किश्चिदाश्चर्य यद्बालाः पापनिवारणसामग्रीसद्भावेऽपि पापाचरणेषु प्रवर्तन्त इति / अन्यच्च भगवदुपदेशादेवाहमेवं तर्कयामि यदुत द्रव्यक्षेत्रकालभावभवाद्यपेक्षया प्राणिनां शुभाशुभपरिणामा भवन्ति, तदस्य बालस्य क्षेत्रजनितोऽयमशुभपरिणामः / नृपतिराह-ननु गुणाकरस्तजैनसदनं तदेव तत्र क्षेत्रं तत्कथं तदशुभपरिणामहेतुर्भवेदिति / सुबुद्धिराह-देव ! न मन्दिरदोषोऽसौ, किं तर्हि ? तदुद्यानदोषः, तदुद्यानं तत्र सामान्य क्षेत्रं, तच्च हेतुस्तस्य बालस्य तथाविधाध्यवसायस्येति / नृपतिराह-यदि दुष्टाध्यवसायहेतुस्तदुद्यानं ततोऽस्माकं किमिति क्लिष्टचित्तकारणं तन्न सम्पन्न ? सुबुद्धिनाऽभिहितं-देव ! विचित्रस्वभावं तत्काननं पुरुषादिकमपेक्ष्यानेकाकारकार्यकारकं संपद्यते, अत एव तन्निजविलसितमिति नाम्ना गीयते, प्रकटयत्येव तज्जन्तूनां सविशेषसहकारिकारणकलापैनिजं विलसितं, तथाहि-तस्य बालस्य तेन स्पर्शनेन तया चाकुशलमालया युक्तस्य मदनकन्दलीं प्राप्य तेन तथाविधाध्यवसायः, मनीषिमध्यमबुद्धियुष्मदादीनां पुनर्विशि५२ मध्यमजनताऽपि. 53 संखण्ड्यां (जेमने)