________________ 131 भोजनमिति / ततो गृहीतपञ्चसुगन्धिकोन्मिश्रताम्बूले मलयजमृगनाभिकश्मीरजक्षोदाङ्गरागे, विन्यस्तप्रवरभूषणे, दिव्यांशुकाच्छादितशरीरे, माल्यविच्छित्तिसौरभाकृष्टहृष्टचश्चरीके, अध्यासितमहार्हसिंहासने, प्रणतासंख्यमहासामन्तकिरीटांशुजालरञ्जितचरणे, उद्दामबन्दिस्तूयमानयथावस्थितगुणसन्दोहे दत्तास्थाने मनीषिणि हर्षातिरेकनिर्भरो राजा सुबुद्धिं प्रत्याह.. सखे ! युष्मदनुभावजन्येयमस्मादृशां कल्याणपरम्परा, येनोत्साहितोऽहं भवता भगद्वन्दनाय / तथाहि-विलोकितो मया नाथो, जगदानन्ददायकः। भक्तिनिर्भरचित्तन वन्दितो भुवनेश्वरः // 1 // दृष्टः कल्पद्रुमाकारः, स सूरिर्वन्दितो मुदा / लब्धो भागवतो धर्मः, संसारोच्छेदकारकः // 2 // जातश्चेदृशरूपेण, नररत्नेन मीलकः / कृतश्चानेन सर्वेषामस्माकं हृदयोत्सवः // 3 // अथवा किमत्राश्चर्यम् ?-महाभागाः प्रजायन्ते, परेषां तोषवृद्धये। स्वकार्यमेतदेवेषां, यत्परप्रीतिकारणम् // 4 // तदस्य युक्तमेवेदं, विधातुं पुण्यकर्मणः / ममाद्भुतमिदं जातं, क डोम्बः क तिलाढकम् // 5 // तदेवंविधकल्याणमालिका मित्रवत्सल ! एवमाचरता नूनं, त्वया संपादिता मम // 6 // राज्ञो हितकरो मन्त्री, सुप्रसिद्ध जगत्त्रये / तस्मात्तवैव मन्त्रित्वं, यथार्था ते सुबुद्धिता // 7 // सुबुद्धिरुवाच-देव ! मा मैवमादिशत, न खलु देव ! पुण्यप्राग्भारायत्तजीवितव्येऽत्र किङ्करजनेऽप्येवमतिगौरवमारोपयितुमर्हति देवः, अस्याः संपादने केऽत्र वयं ? उचित एव देवः खल्वेवंविधकल्याणपरम्परायाः, नैव हि निर्मलाम्बरतले निशि प्रकाशमाना रुचिरा नक्षत्रपद्धतिः कस्यचिदसम्भावनीयेत्याश्चर्यबुद्धिं जनयति / मनीषिणाऽभिहितं-महाराज ! भगवति सप्रसादे कियतीयमद्यापि भवतः कल्याणपरम्परा ? भाविदिनश्रीसम्बन्धस्येव गगनतलस्यारुणोद्योतकल्पो हि भवतो भविष्यत्केवलालोकसचिवपरमपदानन्तानन्दसन्दोहसम्बन्धस्य प्राथमकल्पिकः खल्वेष सम्यग्दर्शनजनितः प्रमोदः / नृपतिरुवाच-नाथ ! महाप्रसादः, कोऽत्र सन्देहः ? किं न संपद्यते युष्मदनुचराणां ? ततो मन्त्रिणं प्रत्याह-सखे ! पश्यामीषामद्यदिनप्रबुद्धानामपि विवेकातिशयः। सुबुद्धिरुवाच-- देव ! किमत्र चित्रं ? मनीषिणः खल्वेते यथार्थमभिधीयन्ते, प्रबुद्धा एव ह्येवंविधपुरुषा जायन्ते, गुरवः केवलमीदृशां प्रतिबोधे निमित्तमात्रं भवन्ति / इतश्च मनीषिणो राजमन्दिरे प्रवेशावसरे राजानमनुज्ञाप्यादित एव सुबुद्धिना साधर्मिकवात्सल्येन मध्यमबुद्धिनीत आसीदात्मीयसदने, कारितस्तदागमननिमित्तः परमानन्दो, दत्तानि महादानानि / ततः सोऽपि निर्बर्तितस्नानभोजनताम्बूलविलेपनालङ्करणनेपथ्यमाल्योपभोगकर्तव्यः स्नेहनिर्भरसुबुद्धितत्परिकरनिरुपचरितस्तुतिगर्भपेशलालापसमानन्दितहृदयः समागतस्तत्रैवास्थाने कृताचितप्रतिपत्तिः ससम्भ्रमं मनीषिणा दापिते तदुपकण्ठमुपविष्टो महति विष्टरे / ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह-सखे ! महोपकर्ताऽयमस्माकं महापुरुषः / सुबुद्धिनाऽभिहितं-देव ! कथं ? नृपतिराह-समाकर्णय, यतो भगवतोपदिष्टे तस्मिन्नप्रमादयन्त्रे तस्य दुरनुष्ठेयतामालोचयतो मम महासमरे कातरनरस्येव प्रादुर्भूता चित्ते समाकुलता / ततोऽहमनेन महात्मना तत्रावसरे भगवन्तं गृहिधर्म याचयता तद्रहणबुद्धयुत्पादकत्वेन समाश्वासितो यतो जातो गृहिधर्माङ्गीकरणेनापि मे चेतसा महानवष्टम्भः, ततो ममायमेव महोपकारक इति / सुबुद्धिनाऽभिहितं-देव ! यथार्थाभिधानो मध्यमबुद्धिरेष, समानशीलव्यसनेषु सख्यमिति च लोकप्रवादः, ततः समानशीलतया युक्तमेवास्य मध्यमजनानां समाश्वानम् / नृपतिना चिन्तितंअये ! ममायं मिथ्याभिमानश्चेतसीयन्तं कालमासीत्, किलाहं नरेन्द्रतया पुरुषोत्तमो यावताऽधुनाऽनेन