________________ राज्ञोऽनुमो 130 निःशेषकृत्यविधानेषु, चन्दितेषु साधुलोकेषु, दत्तेषु महादानेषु, सन्मानितेषु विशेषतः साधर्मिके / मनीषिणः स्वगेहनयनाय प्रहीकारितो नरपतिना गजः आरोपितस्तत्र मनीषी स्थितोऽस्य स्वयमातप धारकः, घोषितं च नरपतिना हर्षातिरेकरोमाञ्चितवपुषा बृहता शब्देन यदुत भो भोः सामन्ता भो भो मन्त्रिमहत्तमाः ! समाकर्णयत यूयम्विभूतिरत्र संसारे, नरस्य ननु तत्त्वतः / सत्त्वमेवाविगानेन, प्रसिद्धं सर्ववेदिनाम् // 1 // ततो यस्याधिकं सत्त्वं, नरस्येह प्रकाशते / स शेषनरवर्गस्य, प्रभुत्वं कर्तुमर्हति // 2 // . एवं च स्थिते-सत्त्वोत्कर्षस्य माहात्म्यं, यदत्रास्य मनीषिणः। तदृष्टमेव युष्माभिः, सर्वैरेव परिस्फुटम् // 3 // यत्तद्भगवताऽऽदिष्टं, मादृशां त्रासकारणम् / अनेन रभसा यन्त्रं, याचितं तन्महात्मना // 4 // तदेष यावदस्माकं, सदनुग्रहकाम्यया / गृहे तिष्ठति तावन्नः, स्वामी देवो गुरुः पिता // 5 // वयमस्य भवन्तश्च, सर्वे किङ्करतां गताः / विधूतपापमात्मानं, विनयात्करवामहे // 6 // ततः समस्तैस्तैरुक्तं, प्रमोदोधुरमानसैः / यदादिशति राजेन्द्रः, कस्मैतन्नात्र रोचते ? // 7 // अत्रान्तरेऽतितोषेण, देहस्था सा मनीषिणः / विजृम्भिता विशेषेण, जननी शुभसुन्दरी // 8 // ततः सश्रीकतामाप्य, क्षणेन भुवनातिगाम् / रराज राजलोकेन, परिवारितविग्रहः // 9 // करेणुकाधिरूढेन, सह मध्यमबुद्धिना / अथाऽवाप पुरद्वारं, स्तूयमानः सुबुद्धिना // 10 // ततोच्छ्रितपताके च, देहशोभामनोरमे / विशेषोज्वलनेपथ्ये, हर्षात्सम्मुखमागते // 11 // अथासौ नगरे तत्र, मनीषी तोषनिर्भरैः। एवं नागरिकैर्लोकः, प्रविवेश कृतस्तुतिः ॥युग्मम् // 12 // तद्यथा-धन्योऽयं कृतकृत्योऽयं महात्मायं नरोत्तमः। अस्यैव सफलं जन्म, भूषिताऽनेन मेदिनी // 13 // अस्त्येव धन्यताऽस्माकं, येषामेष स्वपत्तने / संजातो न ह्यधन्यानां, रत्नपुञ्जेन मीलकः // 14 // ततश्च-कामिनीनयनानन्द, कुर्वाणोऽर्थाभिलाषिणाम् / ददानश्च महादानं, दधानो देवरूपताम् // 15 // सद्धर्मे पक्षपातं च, देहिनामात्मचेष्टितैः / जनयञ्जनितानन्दो, विचचार पुरेऽखिले // 16 // ततो महाविमर्दैन, सम्प्राप्तो राजमन्दिरम् / रत्नराशिप्रभाजालैः, सदा बहेन्द्रकार्मुकम् // 17 // तत्र चाशेषराजादिलोकसन्मानमानितः / सकामकामिनीवृन्दलोललोचनवीक्षितः // 18 // गीतनृत्यप्रबन्धेन, सोऽमरालयविभ्रमे / देवराजवदास्थानं, दत्त्वा निःशङ्कमानसः // 19 // ततो विलीनरागोऽपि, नृपतेस्तोषवृद्धये / उत्थाय मज्जनस्थानं, जगाम गतविस्मयः // 20 // तत्र च गतस्य तस्य-भ्रातुः सूनोरिवात्यन्तवल्लभस्य सगौरवम् / कृतं मदनकन्दल्या, शरीरपरिमार्जनम् // 21 // शेषान्तःपुरनारीभिर्व्यग्राभिः स्नानकर्मणा / रराज पेशलालापचारुभिः परिवारितः // 22 // वज्रेन्द्रनीलवैडूर्यपद्मरागादिरोचिषा / रञ्जिते यन्त्रवापीनां, ममज्ज विमले जले // 23 // ततो भुजगनिर्मोंकसूक्ष्मशुक्ले सुवाससी / परिधाय गतो देवमवनं सुमनोहरम् // 24 // तत्र च सुबुद्धिसम्बन्धिनि विरचनाचारूतया चित्तनिर्वाणकारिणि जिनमन्दिरे मार्गानुसारितया परमार्थतः सकलकालहृदयवर्तिनोऽपि विशेषतस्तदिन एव प्रबोधनरतिसूरिपादप्रसादोपलब्धस्वरूपस्य सकलनिष्कलावस्थस्य भगवतः परमात्मनो रागद्वेषविषापहरणकरणचतुरमनुस्मृतमर्हतः स्वरूपम् / ततो निर्गत्य विरलविरलाप्तपरिजनः पूर्वोपकल्पिताशेषभोजनोपकरणसामग्रीसनाथं प्राप्तो भोजनमण्डपं, तत्र च विरचितानेकाकारे चित्तरसनोत्सवकारिणि भक्ष्यपेयाधाहारविस्तारे नृपतिना स्वयमुपदिश्यमानमभिमतरसास्वादनं तदनुरोधेन विदघानो निरभिष्वङ्गतया वर्धमानस्वास्थ्यातिरेको निर्वर्तयामास भोजननिमः न्त्रणा