________________ 128 तवापि राज्यहरणे, तदाने वा यथेच्छया / शक्तोऽसौ न तथा तेऽत्र, राजन्नाज्ञा प्रकाशते // 2 // परमाणेन तेनासौ, भोक्ताऽस्येत्यभिधीयते / यतः प्रभुत्वमाज्ञायां, प्रभूणां किल गीयते // 3 // नरपतिरुवाच-यद्येव भगवनेष, कस्मान्नेहोपलभ्यते / सरिणाऽभिहितं राजन् !, समाकर्णय कारणम् // 4 // यतः कर्मविलासोऽयमन्तरङ्गो महानृपः / अतो न दर्शनं याति, सर्वदैव भवादृशाम् // 5 // अन्तरङ्गा हि ये लोकास्तेषां प्रकृतिरीदृशी / स्थिताः प्रच्छन्नरूपेण, सर्वकार्याणि कुर्वते // 6 // केवलं बुद्धिदृष्टथैव, धीराः पश्यन्ति तान् सदा / आविर्भूता इवाभान्ति, अन्येषामपि तत्पुरः // 7 // न चावभावना कार्या, भवताऽत्र प्रयोजने / न केवलं यतोऽनेन, भवानेव पराजितः // 8 // किं तु प्रायेण सर्वेऽपि, संप्तारोदरवर्तिनः / स्ववीर्येण विनिर्जित्य, प्रभवोऽपि वशीकृताः // 9 // ततो गृहीततत्त्वेन, राजा प्रोक्तः सुबुद्धिना। देव ! ज्ञातो मयाऽप्येष, राजा योऽवर्णि सूरिणा // 10 // देवाय कथयिष्यामि, रूपमस्य परिस्फुटम् / अहमेव भदन्तैस्तु, सर्वमेव निवेदितम् // 11 // इतश्च--विज्ञायावसरं तेन, पूर्व संजातबुद्धिना / अथाऽऽनत्तशिरस्केन, प्रोक्तं मध्यमबुद्धिना // 12 // योऽसौ भगवताऽऽदिष्टः, संसारतनुताकरः / गृहिधर्मः स मे नाथ !, दीयतामुचितो यदि // 13 // गुरुरुवाच-श्रुत्वा भागवतीं दीक्षां, न कत्तुं शक्नुवन्ति ये / तेषां गृहस्थधर्मोऽसौ, युक्त एव भवादृशाम् // 14 // नृपतिरुवाच--भदन्त ! किंस्वरूपोऽयं, गृहिधर्मोऽभिधीयते ? सूरिराह महाराज!, समाकर्णय कथ्यते // 15 // ततो भगवता वर्णितं परमपदकल्याणपादपनिरुपहतबीजं सम्यग्दर्शनं, प्रतिपादितानि संसारतरुकन्दच्छेद(क)तया चिरेण स्वर्गापवर्गमार्गसंसर्गकारीण्यणुव्रतगुणवतशिक्षापदानि / ततः सञ्जाततदावरणीयकर्मक्षयोपशमतया भावतः प्रादुर्भूतसम्यग्दर्शनदेशविरतिपरिणामेन शक्योऽयमस्मादृशामप्युनुष्ठातुं गृहस्थधर्म इति संचिन्त्य नरपतिनाऽभिहितं--भदन्त ! क्रियतामेतदानेनास्माकमप्यनुग्रहः / भगवानाह-सुष्टु क्रियते, ततो दत्तस्तयोर्द्वयोरपि विधिना गृहिधर्मो भगवता / मनीषिदीक्षादानार्थ पुनरभ्युद्यते भगवति भगवच्चरणयोर्निपत्य नरपतिरुवाच-भदन्त ! गृहीतैवानेन महात्मना भगवतो भागवती दीक्षेति कृतकृत्य एवायमधुना वर्तते तथापि वयमेनं मनीषिणमुद्दिश्य किञ्चित्सन्तोषानुरूपमाचरितुमिच्छामः तदनुजानातु भगवानिति / तदाकर्ण्य स्थिता भगवन्तस्तूष्णींभावेन / सुबुद्धिनाऽभिहितं--देव ! न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः, अनधिकारो ह्यत्र भगवतां, युक्त एव यथोचितः स्वयमेव द्रव्यस्तवः कर्तुं युष्मादृशां, केवलमेतेऽपि विहितं तमनुमोदन्ते एव द्रव्यस्तवं, ददति च तद्गोचरं शेषकालमुपदेशं, यथा कर्तव्योदारपूजा भगवतां न खलु वित्तस्यान्यच्छुभतरं स्थानमित्यादिवचनसन्दर्भेण, तस्मात्स्वत एव कुरुत यथोचितं यूयं, केवलमभ्यर्थयामः कालप्रतीक्षणं प्रति मनीषिणम् / नृपतिरवोचत्-एवं कुर्मः, ततोऽभ्यर्थितः सबहुमानं राजमन्त्रिभ्यां मनीषी, चिन्तितमनेन न युक्तः कालविलम्बो धर्मप्रयोजने, तथापि महापुरुषप्रणयभङ्गोऽपि सुदुष्कर इति मन्यमानेन प्रतिपन्नं तत्समीहितम् / ततस्त्वरयता तेन, नरनाथेन तोषतः / व्यापारिता महायोच्चैः, सर्वे मन्त्रिमहमत्तमाः // 1 // ततस्तैः क्षणमात्रेण, तत्सर्व जिनमन्दिरम् / विचित्रवस्तुविस्तारैर्विहितं विगतातपम् // 2 // कुरङ्गनाभिकाश्मीरमलयोद्भवरूपया / कर्पूरोन्मिश्रया गार्या, तदधस्ताद्विलेपितम् // 3 // तथाऽलिकुलसङ्गीतैः, पञ्चवर्णैर्मनोहरैः / आजानूत्सेधिभिः पुष्पैः, सर्वतः परिपूरितम् // 4 // सौवर्णस्तम्भविन्यस्तमणिदर्पणराजितम् / दिव्यवस्वकृतोल्लोचं, बद्धमुक्तावचूलकम् // 5 // मनीषिदीक्षामहो त्सवः