________________ निजामुचितस्थिति, नापेक्षन्ते लोकमार्ग, मानयन्ति गुरुसंहति, चेष्टन्ते तत्तन्त्रतया, आकर्णयन्ति भगवदागमं, भावयन्ति महायत्नेन, अवलम्बन्ते द्रव्यापदादिषु धैर्य, पर्यालोचयन्त्यागामिनमपाय, यतन्ते प्रतिक्षणमसपत्नयोगेषु, लक्षयन्ति चित्तविश्रोतसिकां, प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं, निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं, अभ्यस्यन्ति योगमार्ग, स्थापयन्ति चेतसि परमात्मानं, निवनन्ति तत्र धारणां, परित्यजन्ति बहिर्विक्षेपं, कुर्वन्ति तत्प्रत्ययैकतानमन्तःकरणं यतन्ते योगसिद्धौ, आपूरयन्ति शुक्लध्यानं, पश्यन्ति देहेन्द्रियादिविविक्तमात्मानं, लभन्ते परमसमाधि, भवन्ति शरीरिणोऽपि सन्तो मुक्तिसुखभाजनमिति / तदेवमेते महाराज ! मुनयोऽमूनि परपीडावर्जनादीनि मुक्तिसुखभाजनत्वपर्यवसानानि तस्याप्रमादनाम्नो यन्त्रस्योपकरणानि प्रतिक्षणमनुशीलयन्ति / ततोऽमू(मी)भिरनुशीलितैरत्यर्थ तदृढीभवति यन्त्रं, तथाभूतं च तदनयोः स्पर्शनाकुशलमालयोरपरेषामप्येवंजातीयानामन्तरङ्गभूतानां दुष्टलोकानां निष्पीडने क्षमं संपद्यते, तेन च निष्पीडितास्तेऽन्तरङ्गलोका न पुनः प्रादुर्भवन्ति / ततो महाराज ! यद्येतन्निष्पीडनाभिलाषोऽस्ति भवतस्तदिदमप्रमादयन्त्रं स्वचेतसि निधाय दृढवीर्यमुष्टयाऽवष्टभ्य खल्वेते निष्पीडनीये स्वत एव, न मन्त्रिणोऽप्यादेशो देयः, न खलु परेण निष्पीडिते अप्येते परमार्थतो निष्पीडिते भवतः। एवं च भगवति नृपतिगोचरमुपदेशं ददाने मनीषिणः कर्मेन्धनदाही शुभपरिणामानलो गतोऽभिवृद्धिं भगवद्वचनेन, केवलं पूर्वोत्तरवाक्ययोर्विषयविभागमनवधारयन् मनाक ससन्देह इव विरचितकरमुकुलः सन् भगवन्तं प्रत्याह--भदन्त ! याऽसौ भगवद्भिर्भागवती भावरीक्षा वीर्योत्कर्षलाभहेतुतया पुरुषस्योत्कृष्टतमत्वं साधयतीति प्राक् प्रतिपादिता यच्चेदमिदानीं दुष्टान्तरङ्गलोकनिष्पीडनक्षम सवीर्ययष्टिकमप्रमादयन्त्रं प्रतिपाद्यते अनयोः परस्परं कियान् विशेषः ? भगवताऽभिहितं--भद्र ! न कियानपि विशेषः, केवलमनयोः शब्दो भिद्यते नार्थः, यतोऽप्रमादयन्त्रमेव परमार्थतो भागवती भावदीक्षेत्यभिधीयते / मनीषिणाऽभिहितं--यद्येवं ततो दीयतां भगवता सा भागवती भावदीक्षा यधुचितोऽहं तस्याः / भगवानाह--बाढमुचितः, सुष्ठु दीयतो नृपतिनाऽभिहितं--भदन्त ! ममानेकसमरसंघट्टनियूंढसाहसस्यापीदमप्रमादयन्त्रं युष्मद्वचनतः श्रूयमाणमपि दुरनुष्ठेयतया मनसः प्रकम्पमुत्पादयति, एष पुनः कः कुतस्त्यो महात्मा ? येनेदं सहर्षेण महाराज्यमिव जिगीषुणाऽभ्युपगतमिति / भगवताऽभिहितं--महाराज ! मनीषिनामायमत्रैव क्षितिप्रतिष्ठिते वास्तव्यः / राज्ञा चिन्तितं-अये ! यदाऽयं पापः पुरुषो मया व्यापादयितुमादिष्टस्तदा लोकैः श्लाघ्यमानः श्रुत एवासीन्मनीषी यदुत रे एकस्मादपि पितुतियोः पश्यतानयोरियान् विशेषः, अस्येदं विचेष्टितं स च तथाविधो मनीषी महात्मेति / तदेष एव मनीषी प्रायो भविष्यति / अथवा भगवन्तमेव विशेषतः पृच्छामीति विचिन्त्याभिहितमनेन--भदन्त ! को पुनरस्यात्र नगरे मातापितरौ ? का वा ज्ञातय इति ? भगवानाह--अस्त्यस्यैव क्षितिप्रतिष्ठितस्य भोक्ता कर्मविलासो महानरेन्द्रः, सोऽस्य जनकः, तस्यैवाग्रमहिषी शुभसुन्दरी नाम देवी सा जननी, तस्यैवेयमकुशलमाला भार्या अयं च पुरुषो बालाभिधानः सुत इति / तथा योऽयं मनीषिणः पार्श्ववर्ती पुरुषः सोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यमबुद्धिरभिधीयते, एतावदेवात्रेदं कुटुम्बकं, शेषज्ञातयस्तु देशान्तरेषु, अतः किं तद्वार्तया ? नृपतिराह-किमस्य नगरस्य कर्मविलासो भोक्ता न पुनरहं ? भगवानाह-बाढम् / राजोवाच--कथं ? भगवानाह--समाकर्णय / यतस्तदाज्ञां सऽपि, भीतिकम्पितमानसाः / एते नागरिका नैव, लङ्यन्ति कदाचन // 1 //