________________ 126 अकुशलमालास्पर्शन योनिन साऽऽत्मनश्चण्डालभावं तथापि करिष्यत्येष तस्याः शरीरग्रहणं बलामोटिकया, विधास्यते सा हाहारवं, तमाकर्ण्य धाविष्यति कुपितश्चण्डालो, विलोकयिष्यत्येनं तथावस्थितं, प्रज्वलिष्यति नितरां कोपानलेन, संधास्यति कोदण्डे शिलीमुखं, मारयिष्यति च, अरे रे दुरात्मन्नधमपुरुष ! पुरुषो भवेत्याइय स चाण्डालः कम्पमानमेनमेकप्रहारेण प्रहरिष्यति। स च तदाऽध्यासितो रौद्रध्यानेनेति मृत्वा च यास्यति नरकेषु, तेभ्योऽप्युवृत्तस्ततः कुयोनिषु पुनर्नरकेष्वेवानन्तवाराः / एवं दुःखपरम्परायां स्थास्यत्यनन्तमपि कालं पतितः संसारचक्रे / नरपतिरुवाच-भदन्त ! अतिदारुणा इयमकुशलमाला स्पर्शनश्च यद्वशेन इदमस्य संपन्नं संपत्स्यते च / भगवताऽभिहितं--महाराज ! किमत्रोच्यताम् ? पर्याप्तमीदृश्या दारुणया / सुबुद्धिनाऽभिहितं-भदन्त ! किमेते स्पर्शनाकुशलमाले अस्यैव पुरुषस्य प्रभवतः आहोस्विदन्येषां प्राणिनाम् ? भगवानाह-महामात्य ! केवलमत्र पुरुषेऽभिव्यक्तरूपे खल्वेते, परमार्थतः सर्वेषां सकर्मसंसारिपाणिनां प्रभवत एव, यतो योगिनीयमकुशलमाला योगेश्वरश्वायं स्पर्शनो, योगिनां च भवत्येवेदृशी शक्तिः यथा कचिदभिव्यक्तरूपता कचिदनाविर्भूतता वर्तते / नृपतिनाऽभिहितं--भगवन्ननयोः किमस्मद्गोचरोऽप्यस्ति प्रभावः ? भगवानाह--बाढमस्ति, ततो राजा मन्त्रिणं प्रत्याह--सखे ! पापयोरनयोरमर्दितयोः कीदृशी ममाद्यापि शत्रुमर्दनता ? ततो न युक्तं यद्यपि भगवत्समीपस्थैरेवंविधं जल्पितुं तथाऽपि दुष्टनिग्रहो राज्ञां धर्म इति कृत्वेदमभिधीयते तदाकर्णयत्वार्यः / सुबुद्धिनाऽभिहितं--समादिशतु देवः / राज्ञाऽभिहितं--आदिष्टमेतत्तावद्भगवता यथते स्पर्शनाकुशलमाले अनेन पुरुषेण सह यास्यतः, ततो नेदानीं तावदेते वधमर्हतः, केवलं समाज्ञापय त्वमेते यथा मद्विषयाग्निर्गत्य युवाभ्यां दूरतोऽपि दूरं गन्तव्यं, मृतेऽप्यस्मिन् पुरुषे नास्माकीनविषये प्रवेष्टव्यं इतरथा युवयोरस्माभिः शारीरो दण्डः करिष्यते, अथैवमप्यादिष्टे पुनरेते अस्मद्विषये प्रविशेतां ततो भवता निर्विचारं लोहयन्त्रेण पीडनीये, एवमतिदुष्टयोरारटतोरप्यनयोरुपरि नेषदपि दया विधेया / सुबुद्धिना चिन्तितं--अहो देवस्यानयोरुपर्यावेगातिशयः, यतोऽस्य तद्वशेन विस्मृतं तदपि 'हिंस्रकर्मणि न भवन्तं योक्ष्ये' इति मगोचरं वरप्रदानं, भवतु तथापीदमेव प्रतिबोधकारणं भगवन्तः कल्पयिष्यन्ति, मम त्वाज्ञाप्रतिपत्तिरेव ज्यायसीति विचिन्त्याभिहितमनेन-यदाज्ञापयति देवः / ततः प्रवृत्तोऽसौ तयोराज्ञापनार्थम् / सूरिणाऽभिहितमहाराजालमनयोरेवं ज्ञापनेन, न खल्वेतयोरयमुन्मूलनोपायो, यतोऽन्तरङ्गलोकजातीये एते स्पर्शनाकुशलमाले, अन्तरङ्गलोकेषु च न प्रभवन्ति लोहयन्त्रादीनि, अगम्यरूपा हि ते बाह्यशस्त्राणाम् / नृपतिरुवाच--भदन्त ! कस्तयनयोरन्यो निर्दलनोपायो भविष्यति ? भगवताऽभिहितं-- अप्रमादाभिधानमन्तरङ्गमेव यन्त्रमनयोर्निर्दलनोपायः, तद्धयेते साधवोऽनयोरेव निष्पेषणार्थमनिशं वाहयन्ति / नृपतिरुवाच–कानि पुनस्तस्याप्रमादाभिधानस्य. यन्त्रस्योपकरणानि ? भगवानाहयान्येत एव साधवः प्रतिक्षणमनुशीलयन्ति / नृपतिरुवाच--कथं ? भगवतोक्तं--समाकर्णय, यावजीवमेते नाचरन्ति तनीयसीमपि परपीडां, न भाषन्ते सूक्ष्ममप्यलीकवचनं, न गृह्णन्ति दन्तशोधनमात्रमप्यदत्त, धारयन्ति नवगुप्तिसनाथं ब्रह्मचर्य, वर्जयन्ति निःशेषतया परिग्रहं, न विदधते धर्मोंपकरणशरीरयोरपि ममत्वबुद्धिं, नासेवन्ते रजन्यां चतुर्भेदमप्याहारजातं, आददते प्रवचनोपवर्णितं समस्तोपधिविशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं, वर्तन्ते समितिगुप्तिपरिपूरितेनाचरणेन, पराक्रमन्ते विविधाभिग्रहकरणेन, परिहरन्त्यकल्याणमित्रयोगं, दर्शयन्ति सतामात्मभावं न लङ्घयन्ति अप्रमाद यन्त्र