________________ 125 योगशक्तिद्वारेण कृतानुप्रवेशा अकुशलमाला नाम जननी, साऽत्र कारणम् / किश्च--यदिदमतिदुर्जयमधुनैव स्पर्शनेन्द्रियमस्माभिः प्रतिपादितं तद्रूप एवायमस्य स्पर्शनाभिधानः पापवयस्यो वर्तते, अयं तु जघन्यपुरुषो बालः, इयं च तदभिधानव अकुशलकर्ममालारूपैव जननी, तदत्र किं न सम्भाव्येत ? __ यच्चोक्तं 'भगवत्सन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव' इति, तदप्यत एव नाचर्यबुद्धया ग्राह्य, यतो द्विभेदं जन्तूनां कर्म-सोपक्रमं निरुपक्रमं च, तत्र सोपक्रममेव महापुरुषसभिधानादिना क्षयक्षयोपशमभावं प्रतिपद्यते, न निरुपक्रम, तद्वशगाश्च जन्तवस्तत्समीपेऽपि विरूपकमाचरन्तः केन वार्यन्ते ? तथाहि--येषामचिन्त्यपुण्यप्राग्भारवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेषगजकल्पा दुर्भिक्षेतिपरचक्रमारिवैरप्रभृतयः सर्व एवोपद्रवाः समधिकयोजनशतात् दूरत एव भज्यन्ते तेषामपि भगवतां सनिधाने निरुपक्रमकर्मपाशावपाशिताः क्षुद्रसत्त्वा न केवलं नोपशाम्यन्ति, किं तर्हि ?, तेषामेव भगवतां तीर्थकृतां क्षुद्रोपद्रवकरणे प्रवर्तन्ते, श्रूयन्ते हि तथाविधा भगवतामप्यपसर्गकारिणो गोपसङ्गमकादयः पापकर्माण इति / अन्यच्च तेषामेव भगवतां देवविरचितसमवसरणानामध्यासितसिंहासनचतुष्टयानां मूर्तिमात्रदर्शनादेव प्राणिनां किल विलीयन्ते रागादयो, विदलोत कर्मजालं, प्रशाम्यन्ति वैरानुबन्धाः, विच्छिद्यन्तेऽलीकस्नेहपाशाः, प्रलीयते विपरीताभिनिवेशो यावता तत्रापि केषाश्चिदभव्यतया निरुपक्रमकर्मघनपटलतिरस्कृतविवेकदीधितिप्रसराणां [वा] न केवलं पूर्वोक्तगुणलेशदेशोऽपि न संजायते, किं तर्हि ?, प्रादुर्भवन्त्येवंविधा भगवन्तमधिकृत्य कुविकल्पाः यदुत अहो सिद्धमस्येन्द्रजालं, अहो अस्य लोकवश्चनचातुर्य, अहो गाढमूढता लोकानां यदेतेनाप्यलीकवाचालेनालजालरचनाचतुरेण प्रतार्यन्त इति / तदेवं स्थिते महाराज ! न किश्चिदिदमत्यद्भुतं यदनेन पुरुषेण मत्सन्निधानेऽप्येवंविधमध्यवसितं, अयमपि हि निरूपक्रमयाऽनयाऽकुशलमालया स्वदेहवत्तिन्या निजजनन्या प्रेयमाणोऽमुं स्पर्शनं सहचरमुररीकृत्यैवं चेष्टते, तन्नात्र भवद्भिर्विस्मयो विधेयः / सुबुद्धिनाऽभिहित--भदन्त ! न किश्चिदिदमाश्चर्य भगवदागमावदातधियां, एवंविध एव निरुपक्रमकर्मपरिणामो, नात्र सन्देहः, केवलमिदमिदानीमेव भगवत्पादप्रसादादेव देवः खल्वेवंविधपदार्थेषु पुण्यबुद्धिर्भविष्यति तेनैवं भगवन्तं विज्ञापयति / राजा सहर्षः प्राहः--चार्वभिहितं सखे ! चारु अहो तेऽवसरभाषिता / ततो राजैव भगवन्तं प्रत्याह-यथा कोऽस्य पुनः पुरुषस्य परिणामो भविष्यति ? भगवताऽभिहितं--इदानीं तावदेष दृष्टयुष्मत्कोपविपाकतया भयातिरेकग्रस्तहृदयो न किश्चिच्चेतयते, गतेषु पुनरितो युष्मदादिषु प्रत्युपलब्धसंज्ञः सम्नेष भूयोऽप्यधिष्ठास्यते अनेन स्पर्शनेन, ततो युष्म भयादेव कुत्रचिनिर्देशे यामीत्याकूतेन प्रपलायमानो महता क्लेशेन यास्यत्येष कोल्लाकसन्निवेशे, तत्र च कर्मपूरकाभिधानस्य ग्रामस्य प्रत्यासन्नभूभागे पथि श्रान्तः पिपासितो दूरत एव द्रक्ष्यति बृहत्तडागं, ततः स्नानपानार्थ चलिष्यति तदभिमुखं, इतश्च पूर्वमेवागमिष्यति तत्र चण्डालमिथुनं, ततश्चण्डालस्तटाकतटवर्तिषु तरुगहनेषु पतत्रिगणमारणप्रवणः सन्नाटाटिष्यते, चाण्डाली पुनर्विजनमितिकृत्वा स्नानार्थमवतरिष्यति तडागं, ततोऽवतीर्णायां तस्यां प्राप्स्यत्येष तस्य तीरं, ततोऽमुमुपलभ्य सा मातङ्गी स्पृश्यपुरुषोऽयं कलहयिष्यति मां सरोवरावतरणापराधमुद्दिश्येति भयेन निमसथति सलिले, स्थास्यति पद्मखण्डे लीना, अयमपि मज्जनार्थमवतीर्यानाभोगेनैव यास्यति तत्समीपं, भविष्यति तया सार्द्धमाश्लेषो, वेदयिष्यते तदङ्गस्पर्श, संजनिष्यते तस्योपरि लाम्पटयमस्य कथयिष्यति