________________ 124 गृहिधर्म बालस्या चरणं भदन्त! योऽयमस्माभिहिधर्मोऽभि(वि)धीयते। एष तादृशवीर्यस्य, किं भवेत्कारणं न वा ? // 1 // गुरुराह-स्यादेष पारम्पर्येण, तादृशस्यापि कारणम् / वीर्यस्य न पुनः साक्षाद्यतो मध्यजनोचितः // 2 // उत्कृष्टतां करोत्येष, साक्षात्सम्यङ् निषेवितः / ततस्तादृशवीयस्य, पारम्पर्येण साधकः // 3 // अशेषल्केशविच्छेदकारिका भवदारिका / तावद्भागवती दीक्षा, दुर्लभैव सुनिर्मला // 4 // किंतु श्रावकधर्मोऽपि, भवतानवकारकः / अत्यन्तदुर्लभो ज्ञेयो, महामात्य ! भवोदधौ॥५॥ तदेष परमार्थः उत्कृष्टधीमतां साक्षाद्वीर्यातिशययोगतः। प्रव्रज्या साधयत्युच्चैरेष तु व्यवधानतः॥६॥ तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना / युक्तो ममैपोऽनुष्ठातुं गृहिधर्मों जिनोदितः // 7 // इतश्चाकुशलमालया स्पर्शनेन च मध्यवर्तितया विधुरितचित्तवृत्तेर्बालस्य विवर्धन्ते विपर्यासविकल्पाः, यदुत अहो अस्या रूपातिशयः अहो सुकुमारता। अन्यच्चाभिमतोऽहमस्याः यतो विलोकयत्येषा माम क्षिविक्षेपैरेतदङ्गसङ्गसुखामृतासेकानुभवनेनाधुना मे सफलं भविष्यति जन्मेति / ततश्चैवंविधवितकेपरम्परापर्याकुलीभूतचेतसस्तस्य विस्मृतमात्मस्वरूपं नष्टा शेषसंज्ञा जातं मदनकन्दलीग्रहणैकतानमन्तःकरण, ततोऽविचार्य कार्याकार्य अन्ध इव ग्रहगृहीत इव तस्यामेव मदनकन्दल्यां निश्चलविन्यस्तनयनमानसः पश्यत एव तावतो जनसमुदायस्य शून्यपादपातं तदभिमुखं धावति स्म। ततः किमेतदिति उत्थितो जनहाहारवः, प्राप्तोऽसौ मदनकन्दलीसमीपं, ततः सावेगं क एष इति निरीक्षितोऽसौ नरपतिना, लक्षितं दृष्टिविकारेण तदाकूतं, स एवायं पापो बाल इति प्रत्यभिज्ञातोऽनेन, सञ्जतास्य कोपारुणा दृष्टिः कृतं भासुरं वदनं मुक्तो हुङ्कारः। ततो बालस्यादृष्टविपाकतया प्रादुर्मूतभयातिरेकस्य नष्टो मदनज्वरः प्रत्यागता चेतना समुत्पन्न दैन्यं, ततः पश्चान्मुखं नंष्टुं प्रवृत्तो यावच्छिथिलीभूतानि सन्धिबन्धनानि विलीयते शरीरं भग्नो गतिप्रसरः तथापि कतिचित्पदानि कथश्चिद्गत्वा प्रकम्पमानसमस्तगात्रः पतितोऽसौ भूतले। अत्रान्तरे प्रकटीभूतः स्पर्शनो निर्गतो भगवदवग्रहात् गतो दूरदेशे स्थितस्तं प्रतीक्षमाणो विरतः कलकलो, लज्जितौ मनीषिमध्यमबुद्धी बालचरितेन, ततः कोऽस्यापि वराकस्योपरि कोप इति विचिन्त्य शान्तीभूतो राजा, पृष्टोऽनेनाचार्यों यदुत भगवन्नलौकिकमिदमस्य पुरुषस्य चेष्टितं, अतीतमिव विचारणायाः अश्रद्धेयमनुभूतवृत्तान्तानाम् / तथाहि-विमलज्ञानालोकेन साक्षातसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेनं यत्पूर्वमाचरितमासीत् यच्चेदानीमध्यवसितं, तथापि ममेदमत्र कौतुकं, यदुत तत्पूर्वकमस्याचरण कदाचिद्विचित्रतया सत्त्वाचरितस्य संभाव्येत, इदमधुनातनं पुनर्महदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभासते, यतो भगवति रागादिविषधरोपशमवैनतेये सन्निहितेऽपि कथमतिक्लिष्टजन्तुनामप्येवंविधोऽध्यवसायः संभवेदिति ? भगवताऽभिहित-महाराज ! न कर्तव्योऽत्रातिविस्मयो, यतो नास्य पुरुषस्य तपस्विनो दोषोऽयम् / नृपतिरुवाच--तर्हि कस्यायं दोषः? भगवानुवाच--दृष्टस्त्वयाऽस्य शरीरान्निर्गत्य योऽयं बहिःस्थितः पुरुषः ?, नृपतिनाऽभिहित-सुष्टु दृष्टः। भगवानाह--यद्येवं ततोऽस्यैवायं समस्तोऽपि दोषो, यतोऽस्य वशवर्तिनाऽनेन पूर्वकमिदं समस्तमाचरितम् / अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किञ्चिजगति पापं यन्नाचरन्ति, तस्मानात्र किश्चिदलौकिकं विचारातीतमश्रद्धेय वा भवद्भिः संभावनीयम् / नरपतिरुवाच--भदन्त ! यद्येवं ततः किमित्ययं पुरुषोऽमुं शरीरवशवर्तिनमात्मनोऽ नर्थहेतुमपि धारयति स्म ? भगवानाह--न जानात्येष वराकोऽस्य दुःशीलतां, परमरिपुरपि गृहीतो ऽयमनेन स्निग्धबन्धुबुद्धया / नरपतिरुवाच-किमत्र पुनः कारणं ? भगवताऽभिहितं--अस्य शरीरे