________________ 123 चतुर्भेदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः स्वरूपतो व्याख्याताः एते किमेवंस्वरूपाः प्रकृत्यैव भवन्ति आहोस्विदेवंविधस्वरूपजनकमेतेषां किञ्चित्कारणमस्तीति कथयन्तु भगवन्तः। भगवानाहमहामन्त्रिनाकर्णय-न तावत्प्राकृतमिदमेतेषां स्वरूपं, किं तर्हि ? कारणजं, तत्र ये तावदुत्कृष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुत्कृष्टेभ्यो निष्पन्नस्वप्रयोजनतया भिद्यन्ते, न परमार्थेन, यतस्त एवोत्कृष्टा यदावाप्य मनुष्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजालं निराकृत्य स्पर्शनेन्द्रियं निर्वृतिं प्राप्ता भवन्ति तदोत्कृष्टतमा इत्यभिधीयन्ते, निवृतौ च तेषी स्वरूपेणावस्थानं, तामवस्थामपेक्ष्य न किञ्चिजनकमस्ति, तेनोत्कृष्टतमानां पुरुषाणां न कश्चिजनको जननी वा, एते पुनर्जघन्यमध्यमोत्कृष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते तस्मात्स एव कर्मविलासस्तेषां जनकः / तच्च कर्म त्रिविधं वर्तते, तद्यथा-शुभमकुशलं सामान्यरूपं च, तत्र या कर्मपद्धतिः शुभतया सुन्दरी सा शुभसुन्दरी मनुष्यत्वेनोत्कृष्टानां जननी, या पुनरकुशलकर्ममाला (सा) जघन्यमनुष्याणां जननी, या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः सा मध्यमनराणां जनयित्री विज्ञेयेति / मनीषिणा चिन्तितं--अये ! न केवलं गुणैश्चरितेन चैतेऽस्माकमुत्कृष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः, किं तर्हि ?, जननीजनकव्यतिकरोऽपि अस्माकमेतैः सह तुल्य एव भगवता दर्शितः, तस्मान्नूनमेतद्रूपैरेवात्माभिर्भवितव्यम् / तथाहि--योऽसौ भवजन्तुर्मा निराकृत्य निर्वृति प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः तस्मादुत्कृष्टतमोऽसाविति निश्चीयते / अस्माकं पुनस्त्रयाणामपि कर्मविलासो जनकः, भगवदादिष्टाभिधाना एव जनन्यः, तस्मादिदमत्रावसीयते यदुत जघन्यो बालो, मध्यमो मध्यमबुद्धिः, उत्कृष्टोऽहमिति / .. सुबुद्धिनाऽभिहितं--भगवनेतेषामुत्कृष्टतमादीनां पुरुषाणां किं सर्वदाऽवस्थितमेव रूपं ? परावर्तोऽपि भवति ? भगवानाह--महामन्त्रिन् ! उत्कृष्टतमानां पुरुषाणां तावदवस्थितमेव रूपं, न कदाचिदन्यथाभावं ते भजन्ते, इतरेषां पुनरनवस्थितं स्वरूपं, यतः कर्मविलासायत्ताः खल्वेते वर्तन्ते विषमशीलश्चासौ प्रकृत्या, कदाचिदुत्कृष्टानपि मध्यमयति जघन्ययति वा मध्यमानपि चोत्कृष्टयति जघन्ययति वा जघन्यानपि मध्यमयति उत्कृष्टयति वा / तस्मादनेन कर्मविलासेन मुक्तानामेवैकरूपता भवति नेतरेषाम् / मनीषिणा चिन्तितं--एतदपि घटत एवास्मद्यतिकरे, तथाहि-विषमशील एवास्मज्जनको, यतः कथितं तेनैव मे यथा मयि प्रतिकूले यदुपपद्यते तत्सम्पन्नं बालस्येति / ततश्च यो निजतनयस्यापि प्रतिकूलचारितया एवंविर्धा दुःखपरम्परां संपादयति स कथमन्येषां ५०धनायिष्यति / सुबुद्धिनाऽभिहितं--भगवन्नुत्कृष्टतमाः पुरुषाः कस्य माहात्म्येन भवन्ति ? गुरुराह--न कस्यचिदन्यस्य, किं तर्हि ? स्ववीर्येण, सुबुद्धिनाऽभिहितं-कस्तथाविधवीर्यलाभोपायः ? मुनिराह--भागवती भावदीक्षा / मनीषिणा चिन्तितं-अये ! यद्येवं ततो युज्यते ममोत्कृष्टतमस्य भवितुं, किमनया शेषविडम्बनया ? गृहाम्येनां भगवदादिष्टां भागवतीमेव दीक्षामीति भावयतः सञ्जातो मनीषिणश्चरणपरिणामः। मध्यमबुद्धरपि एवं ५'गुरुमन्त्रिणोः परस्परजल्पमाकर्णयतः सञ्जातचरणाभिलाषः, केवलं नाहमेतावतो नैष्ठिकानुष्ठानस्य क्षम इति विचिन्तितमनेन / सुबुद्धिनाऽभिहितं५० गृद्धो भवति-ममत्ववान् भवति. 51 0 प्र०