________________ अत्रान्तरे–नखांशुविशदं कृत्वा, ललाटे करकुङ्मलम् / जगाद भारतीमेनां, स राजा शत्रुमर्दनः // 51 // भगवन्नत्र संसारे, नरेण सुखकामिना / किमादेयं प्रयत्नेन, सर्वसम्पत्तिकारणम् ? // 52 // ४२मूरिराह-आदेयोऽत्र महाराज ! धर्मः सर्वभाषितः। स एव भगवान् सर्वपुरुषार्थप्रसाधकः // 53 // सोऽनन्तसुखसंपूर्णे, मोक्षे नयति देहिनम् / अनुषड्गेण संसारे, स हेतुः सुखपद्धतेः // 54 // नरपतिरुवाच-यद्येवम्-कस्मात्सर्वं न कुर्वन्ति, तं सर्वसुखसाधनम् ।धर्म संसारिणः किं वा, क्लिश्यन्ते सुखकाम्यया ? सरिराह-सुखाभिलाषः सुकरो, दुष्करोऽसौ 3 नृपोत्तम ! / यतो जितेन्द्रियग्रामस्तं साधयति मानवः // 56 // अनादिभवकान्तारे, प्राप्तानि परमं बलम्७४ / दुर्मेधोभिन शक्यन्ते, जेतुं तानीन्द्रियाणि वै // 57 // तेनैव जन्तवो मूढाः, सुखमिच्छन्ति केवलम् / धर्म पुनः सुदूरेण, त्यजन्ति सुखकारणम् // 58 // ४५नरपतिरुवाच-येषां जयमशक्तिष्ठाः, कर्तुं नो८६ पारयन्त्यमी। धर्मतः प्रपलायन्ते,ततो४७ जीवाःसुखैषिणः॥५९।। कानि तानीन्द्रियाणीह, किंस्वरूपाणि वा मुने ? कथं वा दुर्जयानीति, श्रोतुमिच्छामि तत्त्वतः।६०॥ मुनिरुवाच-स्पर्शनं रसनं घ्राणं, चक्षुःश्रोत्रं च पश्चमम् / एतानि तानि राजेन्द्र !, हृषीकाणिप्रचक्षते // 61 // इष्टैः स्पर्शादिभिस्तोषो, द्वेषवृद्धिस्तथेतरैः / एतत्स्वरूपमेतेषामिन्द्रियाणां नृपोत्तम ! // 62 // दर्जयानिं यथा तानि, कथ्यमानं मयाऽधुना / दत्तावधानस्तं सवेमनुश्रुत्यावधारय // 63 // अनेकभटसङ्कीर्णे, समरे योधयन्ति ये / मत्तमातङ्गसंघातमेतैस्तेऽपि विनिर्जिताः // 64 // अशल्यग्रे निधायेदं, भुवनं नाटयन्ति ये / शक्रादयोऽतिशक्तिष्ठास्तेऽप्यमीभिर्वशीकृताः // 65 // हिरण्यगर्भवैकुण्ठमहेश्वरपुरःसराः / एतैनिराकृताः सन्तः, सर्वे किङ्करतां गताः // 66 // अधीत्य सर्वशास्त्राणि, परमार्थविदो जनाः / एभिर्विधुरिताः सन्तश्चेष्टन्ते बालिशा इव // 67 // एतानि हि स्ववीर्येण, ससुरासुरमानुषम् / वराकमिव मन्यन्ते, सकलं भुवनत्रयम् // 68 // दुर्ज पनि ततोऽमूनि, हृषीकाणि नराधिप ! / एवं सामान्यतः कृत्वा, हृषीकगुणवर्णनम् // 69 / / ततश्च-ज्ञानालोकेन वृत्तान्त, बोधनार्थ मनीषिणः / सूरिभाषे सद्दन्तदीधितिच्छुरिताधरः // 7 // अथवा महाराज !-तिष्ठन्तु तावच्छेपाणि, हृषीकाणि जगज्जये / स्पर्शनेन्द्रियमेवैकें, समर्थ बत वर्त्तते // 71 // यतो न शक्यते लोकर्जेतुमेकैकमप्यदः / लीलया जयतीदं तु, भुवनं सचराचरम् // 72 // नरपतिरुवाच--भगवंस्तस्य जेतारो, नराः किं सन्ति कुत्रचित् ? / आहोस्विनैव विद्यन्ते, भुवनेऽपि तथाविधाः।। मुनिरुवाच-राजन्न हि न विद्यन्ते, केवलं विरला जनाः। ये चास्य विनिहन्तारस्तत्राकर्णय कारणम् // 74 // जघन्यमध्यमोत्कृष्टास्तथोत्कृष्टतमा गुणैः। चतुर्विधा भवन्तीह, पुरुषा भवनोदरे // 75 // त(तेऽ)थोत्कृष्टतमस्तावबैरिदं स्पर्शनेन्द्रियम् / अनादिभवसम्बन्धलालितं पालितं प्रियम् // 76 // जैनेन्द्रागमसम्पर्काद्विज्ञाय बहुदोषकम् / ततः सन्तोषमादाय, महासत्त्वैनिराकृतम् // 77 // युग्मम् / गृहस्था अपि ते सन्तो, ज्ञाततत्त्वा जिनागमे / स्पर्शनेन्द्रियलौल्येन, नाचरन्ति कुचेष्टितम् // 78 // यदा पुनर्विशेषेण, तिष्ठेत्तेषां जिनागमः / स्पर्शनेद्रियसम्बन्धं, त्रोटयन्ति तदाऽखिलम् // 79 // यतो दीक्षां समादाय, निर्मलीमसमानसाः / सन्तोषभावतो धन्या, जायन्तेऽत्यन्तनिःस्पृहाः // 8 // ततस्ते भवकान्तारनिविण्णा वीतकल्मषाः / स्पर्शनप्रतिकूलानि, सेवन्ते धीरमानसाः // 81 // भूमीशयनलोचादिकायक्लेशविधानतः। ततः सुखस्पृहां हित्वा, जायन्ते ते निराकुलाः // 82 // ततः सकलकमीशक्लेशविच्छेदभाजनम् / भूत्वा ते निवृतिं यान्ति, निर्जित्य स्पर्शनेन्द्रियम् // 83 // 42 ०रुवाच प्र० 43 धर्मः. 44 कलं प्र० 45 असमर्थाः नरा. 46 समर्था भवन्ति. 47 असमर्थत्वात्