________________ मध्यमबुद्ध जात्यकनकं श्यामिकया सह संसर्गमर्हति, अत एव लभन्ते तद्द्वारेणैव दुःखपरंपरां अयशश्च लोके किमत्राश्चर्य? ये पुनरादित एव पापानुष्ठानाशुभजनसंपर्क रहयन्ति तेषां नैष दोषोऽनुयुज्यते, अत्रार्थे अयमेव मनीषी दृष्टान्तः, योऽयं महात्मा परिहृतपापप्रवणबालवात्सल्यो निष्कलङ्कं सुखेन जीवतीति / ततस्तं लोकवादमाकर्णयता मयेदं लक्षितमिति / मध्यमबुद्धिना चिन्तितम्बोधः अये ! दोषेषु वर्तमानस्य, नरस्यात्रैव जन्मनि। नास्त्येव सुखगन्धोऽपि, केवलं दुःखपद्धतिः // 1 // स हि दुःखभराक्रान्तस्तावता नैव मुच्यते / आक्रोशदानतस्तस्य, लोकोऽन्यद्वैरिकायते // 2 // एकं स दुखैर्निर्दग्धो, द्वितीयं निन्दितो जनैः। गण्डस्योपरि संजातः, स्फोटो बालस्य दुर्मतेः॥३॥ जनानां करुणास्थानं, जातोऽहं बालमीलनात् / कलितस्तादृशः प्रायः, कैश्चित्तत्त्वविचारकैः // 4 // दुःखाकरः सतां निन्द्यो, ममेदानीं विजानतः। तस्मान्न युक्तः संसर्गों, बालेन सह पापिना // 5 // गुणेषु वर्तमानस्य, नरस्यात्रैव जन्मनि / जायन्ते संपदः सर्वा, यथाऽस्यैव मनीषिणः // 6 // यथा ह्यकलङ्कः सुखी,श्लाघनीयो विपश्चिताम् / बालस्पर्शनसंसर्गभीरुत्वादेष वर्तते // 7 // . तथापि लोका दोषेषु, सततं विहितादराः / गुणेषु शिथिलोत्साहा, वर्तन्ते पापकर्मणा // 8 // तदेवं गुणदोषाणां, विशेषं पश्यता मया / गुणेषु यत्नः कर्तव्यो, य आदिष्टो मनीषिणा // 9 // ततश्चैवं विचिन्त्यासौ, बभाषे तं मनीषिणम् / न शक्यमधुना लोके, प्रकाशमटितुं मया // 10 // लोका मां प्रश्नयिष्यन्ति, बालवृत्तान्तमञ्जसा / अतिलजाकरं तं च, नाहमाख्यातुमुत्सहे // 11 // अन्यच्च दुर्जना लोकाः, श्रुत्वा मेऽन्तःकदर्थनाम् / तदीयां नितरां तुष्टा, हसिष्यन्ति विशेषतः॥१२॥ तस्माद् भ्रातर्ममात्रैव, स्थातुं समनि युज्यते / जनस्य विस्मरत्येतद्यावद्वालविचेष्टितम् // 13 // मनीषिणोक्तं यत्तुभ्यं, रोचते तद्विधीयताम् / केवलं पापमित्रीयः, संपर्को वार्यते मया // 14 // ततः कचिदपि बहिरनिर्गच्छंस्तत्रैव सदने स्थितो मध्यमबुद्धिः, गतो मनीषी स्वस्थानम् / स्पर्शनाकु इतश्च बालशरीरादाविर्भूतः स्पर्शनोऽकुशलमाला च / अकुशलमालयाऽभिहितं-साधु पुत्रक ! साधु, शलमाला- यन्मत्तो जातोऽनुतिष्ठति तदनुष्ठितं भवता, यतो निराकृतस्त्वयाऽयमलीकवाचालो मनीषी / स्पर्शनेनाबालानां भिहितं-अम्ब ! युक्तमेवेदृशपुरुषाणामनुष्ठानं, दर्शितः खल्वेवमाचरता प्रियमित्रेण मयि निर्भरोऽगोष्ठी नुरागः / अथवा किमनेन निघटितेनेदानीं त्रयाणामप्यस्माकं भावसारं समसमस्तदुःखसुखता, ये तु बृहदर्थसाधनप्रवृत्तानामप्यन्तराले विना भवन्ति तान् के गणयन्ति ? बालः प्राह--वयमप्येतदेव ब्रूमः, केवलमेतत्स मनीषी न जानाति, स्पर्शनेनाभिहितं-किं तव तेन ? सुखविघ्नहेतुरसौ पापकर्मा भवतः, अयं जनोऽम्बा च केवलं ते सुखकारणम् / बालः प्राह-कोऽत्र विकल्पः ? निःसन्दिग्धमिदम् / ततः कृतस्ताभ्यां योगशक्तिव्यापारपूर्वको भूयस्तदीयशरीरे प्रवेशः, प्रादुर्भूतं मदनकन्दलीगोचरं भृशतरमौत्सुक्यं प्रवृत्तोऽन्तस्तापः, प्रवृत्ता जृम्भिका पतितः शयनीये, तत्र चानवरतमुद्वर्तमानेनागेन तथा विचेष्टमानो दृष्टोऽसौ मध्यमबुद्धिना, समुत्पन्ना. करुणा तथापि मनीषिवचनम नुस्मरता न पृष्टो वार्तामपि बालस्तेन / / शत्रुमर्दनम- अत्रान्तरेऽस्तं गतो दिनकरः, ततः प्रथमप्रदोष एव निर्गतो वालः, अवधीरितो मध्यमबुबने बालग द्धिना, प्राप्तः शत्रुमर्दनराजकुलं प्रविष्टोऽभ्यन्तरे दृष्टं वासभवनं चलितस्तदभिमुखं, ततः प्रचुरतया मनं लोकस्य, सान्धकारतया प्रदोषस्य, प्राहरिकाणां कथश्चिदलक्षित एवासौ प्रविष्टो वासभवनम् /