SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कुतोऽनार्यसङ्कल्पात् सुखलाभगन्धोऽपीति / तस्मादिदं सर्व सुदुश्चरितविलसितं बालस्य, योऽयं मद्वचनं न विधत्ते किमत्र भवतः परिदेवितेनेति / बालः प्राह-मनीषिनलमनेनासम्बद्धप्रलापेन, न खलु सत्पुरुषाणां महार्थसाधनप्रवृत्तानामप्यन्तराले व्यसनं मनो दुःखयति, यद्यद्यापि तां कमलकोमलतनुलतां मदनकन्दली प्रामोमि ततः कियदेतदुःखं ?, तदाकर्ण्य कालदष्टवदसाध्योऽयं सदुपदेशमन्त्रतन्त्राणामित्याकलय्य मनीषिणा गृहीतो दक्षिणभुजाग्रे मध्यमबुद्धिः, उत्थाप्य ततः स्थानात् प्रवेशितः कक्षान्तरे। . अभिहितश्चासौ भ्रातः ! यद्यष वालः सत्यं बाल इव नात्महितं जानीते तत्किं भवताऽस्य पृष्ठतो विलग्नेन विनष्टव्यम् ? मध्यमबुद्धिराह--बोधितोऽहमिदनीं भवता, योऽयं भवदुपदेशमपि लङ्घयति तेनालं मम बाले नेति / अन्यच्चातिलज्जनीयोऽयं व्यतिकरः,तत्किमेष न ज्ञातस्तातेन / मनीषिणाऽभिहितं -न केवलेन, तर्हि समस्तनगरोपेतेन, भद्र ! केन हि प्रभातं पटकेनाच्छाद्यते / मध्यमबुद्धिराह--कथं ज्ञातः ? मनीषिणाऽभिहितं-कामदेवभवनवृत्तान्तस्तावद्धहुलोकप्रतीत एव किं तस्य ज्ञास्यते ? विद्याधरहरणवृत्तान्तस्तु प्राप्त इति त्वदीयहाहारवात् प्रबुद्धास्तदा लोकाः, तैर्विज्ञाय नगरे प्रचारितः / मबुद्धिना चिन्तितं-- अये! किलाहं मातःपत्रोऽमुं व्यतिकरं गोपयामि यावता गाढतरं प्रकाशः संपन्नः, सुप्रच्छन्नमपि हि विहितं प्रयोजनं प्रायः प्रकाशत एव लोके, विशेषतः पापं, तस्मादुर्बुद्धिरेषा प्राणिनां यया स्वाचरितं पापं प्रच्छादयन्ति, इदं हि केवलमधिकतरं मोहविलसित सूचयतीत्येवं विचिन्त्य तेनाभिहितं--मनीषिन, वृत्तान्तमुपलभ्य भवता किमाचरितं ? किं तातेन ? किमम्बाभ्यां ? किं वा नगरलोकेनेति श्रोतुमिच्छामि। ___ मनीषिणाऽभिहितं--भ्रातः ! समाकर्णय, मम तावदुपेक्षा निर्गुणेषु सतामितिभावनया संजातं बालं प्रति माध्यस्थ्य, तथा ल्किश्यमानेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भूता तवोपरि महती करुणा, तथा मुक्तोऽहं पापमित्राभिष्वङ्गजनितानामेवंविधानामपायानामित्याकलनया संजाता ऽऽत्मन्यास्थाबुद्धिः, गुणाधिकेषु प्रमोदवन्तो महात्मान इति विमर्शेन धन्यः पुण्यभागसौ भवजन्तुः येनायं समस्तानर्थहेतुः स्पर्शनः पापवयस्यः सर्वथा निराकृत इत्यालोचयतः समुल्लसितस्तं प्रति हर्षः। तातेन तु केवलमट्टहासेन हसितम् / मयाऽभिहित--तात ! किमेतत् ?, तातेनाभिहितं-पुत्र ! यन्मयि प्रतिकूले संपद्यते तत्संपन्नं बालस्य, अतो मे हर्षः, हा जात! क गतोऽसीति परिदेवितं सामान्यरूपया, न सञ्जातो मामकतनयस्यापाय इति हृष्टा चित्तेन मदीयजननी, नगरस्य तु सम्पन्नो वालहरणेन प्रमोदः, सञ्जाता त्वदीयगमनेन करुणा, प्रादुर्भूतः, स्वस्थावस्थानदर्शनेन ममोपरि पक्षपातः / मध्यमबुद्धिराह-कथमेतल्क्षितं भवता / मनीषिणाऽभिहितं--निर्गतोऽहमासीत्तदा नगरे कुतूहलेन भ्रमणिकया, ततः श्रुता मया परस्परं जल्पन्तो लोकाः यदुत अहो सुन्दरं संपन्नं यदसौ कलङ्कहेतुर्निजकुलस्य दुष्टोऽन्तःकरणेन वर्जितो मर्यादया बहिभूतः सदाचारात् निरतः सततमगम्यगमने अत एवोपतापकरो नगरस्य बालः केनापि महात्मनाऽपहृत इति / अन्येनाभिहितं-सुष्टु सुन्दरमेवं तु सुन्दरतरं भवति यद्यसौ छिन्नो, भिन्नो, व्यापादितश्च श्रूयते, यतस्तस्मिन्नेकान्ततः प्रलीने एव पापे नागरिकार्णा शीलसंरक्षणं संपत्स्यते नान्यथा / अन्येनाभिहितं सुन्दरमिदं, केवलं यदसौ मध्यमबुद्धिस्तपस्वी तस्य पृष्ठतो लग्नः क्लिश्यते तन्न चारु, स हि विशिष्टप्रायः प्रतिभासतेऽस्माकम् / ततोऽपरः प्राह-भद्र ! ये पापवृत्तीनां वत्सला भवन्ति तेषां कीदृशी विशिष्टता ? न खलु
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy