________________ जापः / ततो विद्याधरेणाकृष्टा यमजिहवातितीक्ष्णा भास्वराकारा शत्रिका,३३ तया चोत्कत्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशी, निष्पीडय तत एव प्रदेशात् निर्गालितं रुधिरं, भृतश्चुलुकः / / अत्रान्तरे समाप्तमितरस्यैकं विद्यापरावर्त्तनं, समर्पिता विद्याधरेण सा रुधिरमांसमयी तस्याहुतिः, प्रक्षिप्ता तेनाग्निकुण्डे, पुनः प्रारब्धो जापः, ततश्चैवं सोऽम्बरचरो मदीयशरीरपरापरप्रदेशानरकपाल इव नारकस्यारटतो मे मांसपेशीमुत्कर्त्तयति, तं प्रदेशं निष्पीडय रुधिरं निर्णालयति, तस्य चुलुक भृत्वा साधकायाहुतये ददाति, स च विद्यापरावर्तनसमाप्तौ गृहीत्वा हुताशने प्रक्षिपति, ततो वेदनाविहलो मूर्छया पतितोऽहं भूतले, विद्याधरस्तु प्रगुणशरीरतया हृष्टो निष्करुणो गाढतरं मां विकतयति / ___ अत्रान्तरेऽदृट्टहासैर्हसितमिव, प्रलयमेधैर्गुलगुलितमिव,३५ समुद्रेण मन्थायितमिव प्रचलितेव पृथिवी, रसितं दीप्तिजिहाभिः शिवाभिः, प्रनृत्तं च विकृतरूपैर्वतालैः निपतितं रुधिरवर्षम् / ततश्चैवविधेषु रौद्रेषु बिभीषिकाविशेषेषु सत्स्वप्यक्षुभितचित्तस्य राज्ञोऽभिमुखीभूता सा क्रूरविद्या, समाप्तं जापस्याष्टशतं, ततः सिद्धाऽहं भवत इति वदन्ती प्रकटीभूता विद्या, प्रणता साधकेन, प्रविष्टा तच्छरीरे / ततः समुत्कर्तितशरीरं निष्पीडितरुधिरबीभत्सं करुणमारटन्तं मामुपलभ्य स राजा मयि जातः सदयः कृतोऽनेन दन्तसीत्कारः ततो वारितोऽसौ विद्याधरेण / अभिहितं च तेन राजन्नेष एवास्या विधायाः कल्पो यदुत न कर्त्तव्याऽस्योपरि दया / ततो विद्याधरेण लिप्तं मे केनचिल्लेपेन शरीरं, ततोऽहं समन्ताइन्दह्यमान इव तीव्रवहिना, चूर्ण्यमान इव वज्रेण, पीडयमान इव यन्त्रेण प्रविष्टो वेदनाप्रकर्ष, तथापि सुबद्धं न गतमेतन्मे हतजीवितं, संजातं मे क्षणेन तेन लेपेन दवदग्धस्थाणुकल्पं शरीरं, समुत्पाटितस्ताभ्यां, नीतस्तत्र नगरे, खादितश्च श्वयथुनिमित्तमाम्लभोजनं, शून्यं में शरीरं, ततो भूयस्तेनैव विधिना मदीयमांसरुधिराहुतिभिस्तेन राज्ञा कृतमष्टशतमष्टशतं विद्याया जापस्य सप्त दिनानीति, दृष्टश्च तदवस्थोऽहं भवता, तदिदं भ्रातर्मयानुभूतं, स्थितं च मम हृदये यदुत प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो यादृशो मयाऽनुभूत इति / ___ मध्यमबुद्धिराह--हा भ्रातर्नोचितस्त्वमेवंविधदुःखानां, अहो निपुणता विद्याधरस्य, अहो रौद्रता विद्यायाः / अत्रान्तरे लोकाचारमनुवर्तमानो वार्तान्वेषणार्थमागतो मनीषी, श्रुतस्तेन द्वारि स्थितेन तथा परिदेवमानो मध्यमबुद्धिः, प्रविष्टोऽभ्यन्तरे, कृतेतराभ्यामासनदानादिका प्रतिपत्तिः, विहितं संभाषणम् / ततो मनीषिणाऽभिहितं-मध्यमबुद्धे ! किमिति त्वं परिदेवयसे ?, मध्यमबुद्धिराह -भ्रातरलौकिकमिदं परिदेवनकारणम् / मनषिणोक्तं-कथं ?, ततः कथितो मध्यमबुद्धिना समस्तो ऽप्युद्यानगमनादिविद्याधरविकर्त्तनपर्यन्तो बालव्यतिकरः। ___ ततः पूर्वमेव ज्ञातनिःशेषव्यतिकरेणापि मुग्वेनेव विस्मितेक्षणेन समस्तमाकर्ण्य मनीषिणाऽभिहितं -किमिदृक् संपन्नं बालस्य ? हा न युक्तमिदं, यदि वा कथितमिदं मया प्रागेवास्य यथा न सुन्दरोऽनेन स्पर्शनेन पापमित्रेण साई संबन्धः, तजनितेयमस्यानर्थपरम्परा, तथाहि-हेतुरसावनार्यकार्यसङ्कल्पस्य / अनार्यकार्यसङ्कल्पे वर्तमानाः प्राणिनः संक्लिष्टतया चित्तस्य प्रबलतया पापोदयस्याप्राप्ताभिप्रेतार्था एव बडिशग्रहणप्रवृत्ता इव मत्स्यका निपतन्त्यापन्दहने, लभन्ते मरणम्, न खल्वनुपायतोऽर्थसिद्धिः, अनुपायश्चानार्यकार्यसङ्कल्पः सुखलाभानाम् स हि क्रियमाणो धैर्य ध्वंसयति, विवेक नाशयति, चित्तं मलिनयति, चिरन्तनपापान्युदीरयति, ततः प्राणिनं समस्तानर्थसाथै योजयति, ततः 33 क्षुरिका 34 गजितमिव मन्थादितभिवेति च स्यादत्र मध्यमबुद्धे धृणोत्पादः मनीषिकृत उपदेशः