________________ रजनी / ततोऽनुपानकतया विद्धोऽनेककण्टककीलकैः, परिगतः श्रमेण, क्षामो बुभुक्षया, पीडितः पिपासया, विह्वलः शोकेन, अध्यासितो दैन्येन अनेकग्रामनगरेषु पृच्छन् वाती भ्रान्तोऽसौ सप्ताहोरात्रम् / तत्रापि प्राप्तः कुशस्थलं नाम नगरं, स्थितस्तस्य बहिर्भागे, दृष्टोऽनेन जीर्णान्धकूपः, ततः किं ममाधुना भ्रातृविकलेन जीवितेनेति प्रक्षिपाम्यत्रात्मानमिति संचिन्त्य बद्धा मध्यमबुद्धिना निर्बोल३२गमनार्थमात्मगलके शिला / दृष्टं तन्नन्दननाम्ना राजपुरुषेण, ततो मा साहसं मा साहसमिति ब्रुवाणः प्राप्तोऽसौ तत्समीपं, धारितः कूपतटोपान्तवर्ती मुश्चन्नात्मानं मध्यमबुद्धिरनेन, विमोचितः शिलां निवेशितो भूतले, पृष्टश्च-भद्र ! किमितीदमधमपुरुषोचितं भवता व्यवसितं ? ततः कथितोऽनेन बालवियोगव्यतिकरः / नन्दनेनाभिहित-भद्र ! यद्येवं ततो मा विषादं कार्षीः, भविष्यति भ्रात्रा सार्द्ध प्रायेण मीलकः / मध्यमबुद्धिराह-कथं ? नन्दनेनोक्तं-समाकर्णय / __ अस्त्यत्र नगरेऽस्माकं स्वामी हरिश्चन्द्रो नाम राजा / स च प्रतिक्षणमुपद्रूयते विजयमाठरशङ्खादिभिः प्रात्यन्तिकैमण्डलहरैर्नृपतिभिः / इतश्चास्ति रतिकेलि म विद्याधरः परममित्रम् / अन्यदा समागतेन शत्रूपद्रुतमवलोक्य देवं तेनाभिहितं-ददामि तुभ्यमहं क्रूरविद्यां यत्प्रभावेण त्वमेतैर्न परिभूयसे / देवेनाभिहितं--अनुग्रहो मे, ततः कारयित्वा पाण्मासिकां पूर्वसेवामितो दिनादष्टमे दिने नीतः कचित्तेन देवो हरिश्चन्द्रः / कारितोऽरिविद्यासाधनं, आनीतो द्वितीयदिने सह पुरुषेण, कृता तस्य पुरुषस्य मांसरुधिरेण होमक्रिया, सप्त दिनानि विद्यायाः पश्चात्सेवा, मुक्तोऽसावधुना पुरुषः / स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः, स च ममैव समर्पितोऽधुना देवेन / मध्यमबुद्धिराह-भद्र ! यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्तमानय तावदिहैव पुरुषं येनाहं प्रत्यभिजानामीति / ततश्चैवं करोमित्यभिधाय गतो नन्दनः / समायातः समुत्पाटय गृहीत्वा बालं, दृष्टोऽस्थिमात्रावशेष उच्छ्वासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्धवाक्प्रसरो मध्यमबुद्धिना बालः / प्रत्यभिज्ञातः कृच्छ्रेण, अभिहितो नन्दनः--भद्र ! स एवायं मम भ्रातेति, सत्यं नन्दनस्त्वमसि, अनुगृहीतोऽहं भवता / नन्दनः प्राह--भद्र ! राजद्रोह्यमिदं भवत्करुणया मयाऽध्यवसितम् / ___अन्यच्चाधुना गतेन मया किलाकणितं यथा किल रात्रौ राजा पुनस्तर्पयिष्यति रुधिरेण विद्यां भविष्यत्यनेन पुरुषेण प्रयोजनमिति / तदिदमवगम्य मम यद्भवति तद्भवतु भवद्भ्यां तु तूर्णमपक्रमितव्यम् / ततो यदाज्ञापयति भद्रो रक्षणीयश्च यत्नेन भद्रेणात्मेत्यभिधाय समुत्पाटितो बालः, प्रवृत्तो गन्तुं मध्यमबुद्धिः, ततो भयविधुरहदयो धावनहर्निशं वेगेन कचित्प्रदेशे बालं पाययन्नुदकं समाहादयन् वायुना प्रीणयनशनादिरसेन गणयन्नात्मनः शरीरपीडां महता क्लेशजालेन प्राप्तः स्वस्थानं मध्यमबुद्धिः। गतानि कतिचिद्दिनानि, जातो मनाक् सबलो बालः / पृष्टो मध्यमबुद्धिना--भ्रातः ! किं भवताऽनुभूतं ? स प्राह--इतस्तावदुत्क्षिप्तोऽहं बद्ध्वा भवतः पश्यत एव गगनचारिणा, नीतः कृतान्तपुराकारमतिभीषणतयैकं स्मशानं, दृष्टस्तत्र प्रज्वलिताङ्गारभृताग्निकुण्डपार्श्ववर्ती मया पुरुषः / ततस्तं प्रति तेनाम्बरचरेणाभिहितं--महाराज ! सिद्धं ते समीहितं, लब्धोऽयं मया प्रस्तुतविद्यासिद्धेचितः सलक्षणः पुरुषः / इतरेणोक्तं--महाप्रसादः। ततोऽभिहितो नभश्चरेण स पुरुषः-- यदुतैकैकस्मिन् विद्याजापपर्यन्ते मया दत्ताऽऽहुतिरग्नौ भवता प्रक्षेप्तव्या, प्रतिपन्नमनेन, प्रारब्धो 32 अक्षातमृत्युसंपादनाय. बालमुक्तिः बालवृत्ता