________________ केनापि व्यापारः / परिकरेणोक्तं--यदाज्ञापयति देव इति / पृष्टोऽसौ मध्यमबुद्धिधना बालः भ्रातर्नकिश्चित्तेऽधुना शरीरके बाधते ? बालेनाभिहितं-न शरीरके, केवलं प्रवर्द्धते ममान्तस्तापः / मध्यमबुद्विराह--जानासि किनिमित्तोऽयं, ततो वामशीलतया कामस्य बालः प्राह-नजानामि, केवलं द्वारस्थितेन भवता तत्र संवासभवनमभिप्रविशन्ती गच्छन्ती वा किं विलोकिता काचिनारी न वा ? मध्यमबुद्धिराहविलोकिता / बालेनोक्तं--तत्कि लक्षिता काऽसाविति भवता ? मध्यमबुद्धिराह-सुष्टु लक्षिता / सा हि शत्रुमर्दनस्य राज्ञो भार्या मदनकन्दलीत्युच्यते / तदाकर्ण्य कथं सा मादृशामितिचिन्तया दीर्घदीर्घतरं निःश्वसितं बालेन / तदर्थी खल्वयमिति लक्षितो मध्यमबुद्धिना / चिन्तितमनेन-- तत्रापि स्थाने तावदस्यायमभिनिवेशो, जनयत्येव सा मदनकन्दली सुन्दरताऽतिशयेन स्वगोचरमभिलषितं, यतो द्वारशाखालग्नेन मयाऽप्यतिसङ्कटतया कामसंवासभवनद्वारस्य निर्गच्छन्त्यास्तस्या मदनकन्दल्याः संवेदितोऽङ्गस्य स्पर्शो, न तादृशः प्रायेणान्यवस्तुनः स्पर्शों भुवने विद्यते, दोलायितं ममापि तदभिसरणगोचरं मनस्तदानीमासीत् / किन्तु न युक्तं कुलजानां परस्त्रीगमनं, तस्मानिवारयाम्येनमपि यदि निवर्तते मद्वचनेन / ततः स बालं प्रत्याह-किमद्याप्यविद्या भवतः ? किं न दृष्टमिदानीमेव फलमविनयस्य भवता, किमधुनैव विस्मृतं ? यत्कण्ठगतप्राणः कथश्चिन्मोचितस्त्वं मया दुर्विनयकुपितात् भगवतो मकरध्वजात्, ततो निवर्तस्वास्माद्दुरध्यवसायात्, नयनविषनाग३ शिरोरत्नशुचिकल्पा हि सा मदनकन्दली, तां प्रार्थयतस्ते केवलं भस्मीभाव एव न पुनः काचिदर्थसिद्धिः। बालेन चिन्तितंअये ! लक्षितोऽहमनेन, तत्किमधुनाऽभिप्रायगोपनेन ? ततस्तेनोक्तं--यद्येव ततः किं ब्रूषे मोचितस्त्वं मया ? न पुनर्बुषे यथा गाढतरं मारित इति / यतस्तेन कामेन युष्मद्वचनेन मां मुञ्चता केवलं मे शरीरवेदनामात्रमपसारितं हृदये पुनर्निक्षिप्तो वितर्कपरम्परारूपः प्रज्वलितखदिरागारराशिः, तेन ममेदं दह्यते समन्ताच्छरीरं, यद्यहं कामबन्धनकाल एवामरिष्यं नैतावन्तमन्तस्तापमन्वभविष्यं, ततो भवता मोचयता प्रत्युत महानयमनर्थः संपादित इति / नाधुना ममैनाममृतसेकायमानां मदनकन्दली विरहय्यान्यथाऽस्यान्तस्तापस्योपशमः / किं बहुनाऽत्र जल्पितेनेति / ततो लक्षितो मध्यमबुद्धिनाऽस्यानिवर्त्तको निर्बन्धः, स्थितोऽसौ तूष्णीभावेन / अत्रान्तरे गतोऽस्तं सविता, बालहृदयादिव समुल्लसितं तमःपटलं, लजितः प्रथमः प्रदोषः, निःसंचारीभूतो लोकः / ततोऽविचार्य कार्याकार्य समुत्थितो बालो, निर्गतः स्वकीयभवनात् , अवतीर्थों राजमार्गे, प्रवृत्तः शत्रुमर्दनराजकुलाभिमुखं गन्तुं, गतः कियन्तमपि भूभागम् / . इतश्च स्नेहवशेन ।कमस्य संपत्स्यत इति चिन्तया निर्गतस्तदनुमार्गेण मध्यमवुद्धिः। दृष्टो बालेन गच्छता कश्चित्पुरुषः, तेन चास्फोटय बद्धोऽसौ मयूरबन्धेन कूजितं बालेन प्राप्तः प्राप्त इति ब्रुवाणः प्राप्त एव मध्यमबुद्धिः / ततः समुत्पाटय बालं पश्यत एव मध्यमबुद्धः समुत्पतितः पुरुषोऽम्बरतले, आरटतश्च बालस्य स्थगितं वदनं. प्रवृत्तः पश्चिमाभिमुखो गन्तुम / ततो मध्यम बुद्धिरपि अरे रे दुष्टविद्याधर ! क यासि गृहीत्वा मदीयभ्रातरमिति त्राडी३१ मुश्चनाकृष्टखङ्गः प्रस्थितो भूमौ / तदनुमार्गेण निर्गतो नगरात् , अदर्शनीभूतः पुरुषो, निराशीभूतो मध्यमबुद्धिः / तथापि बालस्नेहानुबन्धेन किल कचिन्मोक्ष्यतीतिबुद्धया नासौ धावन्नुपरमति, धावत एव ललिता 30 दृष्टिविषसर्पः 31 त्राटी प्र० मदनकन्द त्यै निर्गमः होमायोत्पाटितोबालः