________________ ततो मन्दप्रकाशे सा, भवने मृगलोचना / हस्तस्पर्शन शय्यायां, देवमर्चयते किल // 77 / / चन्दनेन च कुर्वन्त्या, रतिकामविलेपनम् / स बालः सर्वगात्रेषु, स्पृष्टः कोमलपाणिना // 78 // ततोऽकुशलमालाया, वशेन स्पर्शनस्य च / बालश्चिन्तयत्येवं विपर्यासितमानसः // 79 // यादृशोऽयं मृदुस्पर्शों, हस्तस्यास्यानुभूयते / नानुभूतो मया तादृग्, जन्मन्यपि कदाचन // 8 // अहो मयाऽन्यस्पर्शेषु, सौन्दर्य कल्पितं वृथा / नातः परतरं मन्ये, त्रिलोकेऽप्यस्ति कोमलम् // 81 // इतश्च कामदेवस्य, परिचर्या विधाय सा / स्वस्थानं प्रगता काले, राज्ञी मदनकन्दली // 2 // ततोऽसौ बालः कथं ममेयं स्त्री संपत्स्यत इति चिन्तया विवलीभूतहृदयोऽनाख्येयमन्तस्तापातिरेकं वेदयमानो विस्मृतात्मा तस्यामेव शय्यायां मुश्चन् उष्णोष्णान् दीर्घदीर्घान् निःश्वासान् मूर्छित इव, मूक इव, मत्त इव, हृतसर्वस्व इव, ग्रहगृहीत इव, तप्तशिलायां निक्षिप्तमत्स्यक इव इतश्वेतश्च परिवर्त्तमानो विवेष्टते / ततो द्वारे वर्तमानेन मध्यमबुद्धिना चिन्तितं--अये ! किमेत्येष बालोऽस्मात् संवासभवनादियताऽपि कालेन न निर्गच्छतीति, किं वा करोतीति प्रविश्य तावनिरूपयामि / ततः प्रविष्टो मध्यमबुद्धिर्लक्षिता हस्तस्पर्शन कामशय्या, हृतमस्यापि हृदयं तत्कोमलतया / ततो विमलीभूतदृष्टिना तेन दृष्टः शय्यैकदेशे विवेष्टमानस्तदवस्थो बालः / चिन्तितमनेन-अहो किमनेनेदमकार्यमाचरितं ? न युक्तं देवशय्यायामधिरोहणं, न खलु रतिरूपविभ्रमापि गुर्बङ्गना सतां गम्या भवति / तथेयं शय्या सुखदापि देवप्रतिमाधिष्ठितेतिकृत्वा केवलं वन्दनीया न पुनरुपभोगमहतीति / ततश्चोत्थापितोऽनेन बालो यावन्न किचिजल्पति / मध्यमबुद्धिराह--अहो अकार्यमिदं, न युक्तं देवशय्यायामधिरोहणमित्यादि, तथापि न दत्तमुत्तरं बालेन / अत्रान्तरे प्रविष्टस्तद्देवकुलाधिष्ठायको व्यन्तरो, बद्धस्तेनाकाशबन्धैः बालः, पातितो भूतले, समुत्पादिताऽस्य सर्वाङ्गीणा तीव्रवेदना / ततो मुमूर्षन्तमुपलभ्य कृतो मध्यमबुद्धिना हाहारवः / ततः किमेतदिति संभ्रमेण चलितो देवकुलात्तदभिमुखं लोको / निःसारितो व्यन्तरेण वासभवनाद् बहिर्बालो, महास्फोटेन क्षिप्तो भूतले, भग्ननयनः कण्ठगतप्राणोऽसौ दृष्टो लोकेन / तदनुमार्गेण दीनमनस्को निर्गतो मध्यमबुद्धिः / किमेतदिति पृष्टोऽसौ जनेन, लज्जया न किश्चिजल्पितमनेन / ततोऽवतीर्य कश्चित्पुरुषं व्यन्तरेण कथितो जनेभ्यस्तदीयव्यतिकरः। ततो देवापथ्यकारीति पापिष्टोऽयमिति धिक्कारितोऽसौ बालो मकरध्वजः , कुलदषणोऽयमस्माकं विषतरुवि संपन्न इति गर्हितः स्वजातीयैः, अनुभवतु पापकर्मणः फलमिदानीमित्याक्रोशितः सामान्यलोकैः, कियदेतदसमीक्षितकारिणां समस्तानर्थभाजनत्वात् तेषामित्यपकर्णितो विवेकिलोकैः / ततोऽसौ व्यन्तरः कृतविकृतरूपः सन्नाह-चूर्णनीयोऽयं दुरात्मा भवर्ता पुरतो मयाऽधुना बाल इति / ततः कृतहाहारवः प्रसीदतु प्रसीदतु भट्टारको ददातु भ्रातृप्राणभिक्षामिति ब्रुवाणः पतितो व्यन्तराधिष्ठितपुरुषपादयोर्मध्यमबुद्धिः / तत्करुणापरीतचेतसा लोकेनाप्यभिहितो व्यन्तरो यदुतभट्टारक ! मुच्यतामेकवारं तावदेष न पुनः करिष्यतीति / ततो मध्यमबुद्धिकरुणया लोकोपरोधेन च मुक्तोऽसौ व्यन्तरेण बालो, लब्धा चेतना, मुत्कलीभूतं शरीरं, निःसारितस्तूर्ण देवकुलात् / मध्यमबुद्धिना नीतः कृच्छ्रेण स्वभवनं, ज्ञातोऽयं व्यतिकरः परिकरात्कमविलासेन / चिन्तितमनेनकियदेतद् ! अद्यापि मयि प्रतिकूले बालस्य यद्भविष्यति तन्न लक्षयन्त्येते लोकाः, ततोऽभिहितः कर्मविलासेन परिकरः-किमस्माकं दुर्विनीतचिन्तया ? नोचितः सोऽनुशास्तेः, न वोढव्यस्तदीयः