________________ 115 विलोकितस्तन्मध्यभागः प्रकाशितो मणिप्रदीपैः सनाथो महाशयनेन / इतश्च तस्मिन्नवसरे सा मदनकन्दली तस्यैव वासभवनस्यादूरवर्तिन्यां प्रसाधनशालिकायामात्मानं चर्चयन्ती तिष्ठति, ततस्तच्छून्यमवलोक्य स बालः बालतयैवारूढः शय्यायाम् / आः कोमलेतिभावनया समुद्भूतो हर्षः क्षिप्तमुच्छीर्षके प्रावरणं, किल तिरश्चीनो भविष्यति याव (ताव) द्विहिताशेषप्रदोषकर्त्तव्यो विसर्जिताऽऽस्थानिकलोकः कतिचिदाप्तपुरुषपरिकरो ज्वलत्प्रदीपदर्शितमार्गः समागतः शत्रुमर्दनस्तद्द्वारदेशे, दृष्टः प्रविशन् बालेन, नतोऽतितेजस्वितया शत्रुमर्दनस्य, सत्त्वविकलतया हृदयस्य, साध्वसहेतुत्वादकार्याचरणस्य, प्रतिकूलतया कर्मविलासस्य, स्वफलदानोन्मुखतयाऽकुशलमालायाः, स्वविपाकदर्शन(पटु)तया स्पर्शनस्य, भयोत्कर्षेण वेपमानगात्रयष्टिर्निपतितो बालो भूतले / ततोऽत्युच्चतया पर्यङ्कस्य, कणकणतया मणिकुट्टिमस्य, शिथिलनिःसृष्टतया शरीरस्य, समुत्थितो महानास्फोटरवः / किमेतदिति तूर्णतरं प्रविष्टो राजा, दृष्टस्तेन, कथमयमिह प्रविष्ट इति समुत्पन्नो मनसि वितर्कः, दृष्टमुच्छीर्षके प्रावरणं, लक्षितं शय्यारोहणं, दुष्टोऽयमिति संजातो निश्चयो, मत्कलत्राभिलाषुकोऽयमिति च समुत्पन्नः क्रोधो, विज्ञातं तस्य दैन्यं, तथाप्यतिदुरात्मा खल्वयमपनयाम्यस्य दुर्विनयमितिबुद्ध्या दत्तो बालपृष्ठे निजचरणो राज्ञा आमोटितं पश्चान्मुखं भुजयुग़लं, बद्धो रारटयमानस्तत्प्रावरणेनैव, आहूतो विभीषणः। अभिहितश्चासौ-अरे ! एप पुरुषाधमो भवताऽत्रैव राजाजिरे यथाऽहमाकर्णयाम्यस्य करुणध्वनितं तथा समस्तरजनी कदर्थनीयः / बिभीषणेनाभिहितं यदाज्ञापयति देवः, ततः समाकृष्टस्तेन, गृहीत्वाऽऽरटयमानो बालो नीतोऽभ्यर्णराजप्राङ्गणे, बद्धो वज्रकण्टकाकुले लोहस्तम्भे, ताडितः कशाघातैः, सिक्तोऽग्निवर्णतैलबिन्दुभिः, प्रवेशिता अगुल्यादिष्वयःशलाकाः। ततश्चैवंविधेषु नरकाकारेषु दुःखेषु विभीषणेनोदीर्यमाणेषु क्रन्दतो बालस्य लविता रजनी, तदाक्रन्दरवेण श्रवणपरम्परया च किमेतदिति कुतूहलेन प्रभाते समागतं राजकुले नगरं दृष्टो बालः स एवायं पापिष्ठोऽद्यापि जीवतीत्यादिः प्रवृत्तः परस्परं नागरिकाणां बहुविधस्तदाक्रोशजल्पः, तमाकर्णयतः शतगुणीभूतं तत्तस्य दुःखं, कथितो नागरिकेभ्यो विभीषणेन रात्रिव्यतिकरः, ततोऽहो धृष्टताऽस्येति गाढतरं प्रद्विष्टाः सर्वे, विज्ञापितो महत्तमै राजा यदुत यो देवपादानामेवमयमपथ्यकारी स तथा क्रियतां यथाऽन्योऽप्येवं न करोतीति। अस्ति च तस्य राज्ञो भगवदर्हदागमावदातबुद्धिः सुबुद्धिर्नामामात्यः; केवलं तेन कचिदवसरे वरं प्रार्थितो राजा यदुत हिंस्रकर्मणि नाहं पर्यालोचनीयो भवता, प्रतिपन्नश्च स वरो नरपतिना, ततः सुबुद्धिं (अ) पर्यालोच्यैव दत्तः शत्रुमर्दनेन राजपुरुषाणां नियमो यदुत कदर्थयित्वा बहुप्रकारमेनं नरापसदं व्यापादयतेति / तदाकर्ण्य महाराज्यलाभ इव जातो जनानां प्रमोदातिशयः, ततः समारोपितो रासभे विडम्ब्यमानः शरावमालया समन्ताच्चूर्ण्यमानो यष्टिमुष्टिमहालोष्टप्रहार रोख्यमाणो विरसध्वनिना तुद्यमानो मनसि कर्णकटुकैराक्रोशवचनैर्महता कलकलेन समस्तेषु त्रिकचतुष्कचत्वरहट्टमार्गादिषु बंभ्रम्यमाणो विगोपितो बालः / ततो विशालतया नगरस्य प्रेक्षणकप्रायत्वात्तस्य भ्रमणेनैवातिक्रान्तं दिनं, सन्ध्यायां नीतो वध्यस्थानं उल्लम्बितस्तरुशाखायां, प्रविष्टो नगरं लोको, भवितव्यताविशेषेण तस्य त्रुटितः पाशकः पतितो भूतले गतो मूच्छी स्थितो मृतरूपतया लु (छ) तो वायुना लब्धा चेतना प्रवृत्तो गृहाभिमुखं गन्तुं भूमिकष(घर्ष)णेन कूजमानः / अत्रान्तरे अगृहीतसङ्केतयोक्तं हे संसारिजीव ! तत्र क्षितिप्रतिष्ठितपुरे प्रथम भवता वीर्यनिदानभूतः कर्मविलासो नाम राजा निवेदितः, अधुना दशापराधप्रभविष्णुरेष शत्रुमर्दनो