________________ वर्द्धमानमिदं पापमार्जवेन निवारितम् / यदत्र कारणं सम्यक्, कथ्यमानं निबोधत // 23 // आजेवं हि स्वरूपेण, शुद्धाशयकरं परम् / वर्द्धमानमतः पापं, वारयत्येव देहिनाम् // 24 // एतच्चार्जवमत्रार्थे, सर्वेषां वर्तते समम् / अज्ञानजनितं पापं, युष्माकममुना जितम् // 25 // रक्षितानि मया यूयमत एव मुहुर्मुहुः / सहर्षमेतदाचष्टे, डिम्मरूपं स्मिताननम् // 26 // धन्यानामार्जवं येषामेतञ्चेतसि वर्तते / अज्ञानादाचरन्तोऽपि, पापं ते स्वल्पपापकाः // 27 // यदा पुनर्विजानन्ति, ते शुद्ध मार्गमञ्जसा / तदा विधूय कर्माणि, चेष्टन्ते मोक्षवर्मनि // 28 // आर्जवेन ततो धन्यास्ते शुभ्रीभूतमानसाः / निर्मलाचारविस्ताराः, पारं गच्छन्ति संसृतेः // 29 // तवेवंविधभावानां, भद्राणां बुध्यतेऽधुना / अज्ञानपापे निर्द्धय, सम्यग्धर्मनिषेवणम् // 30 // उपादेयो हि संसारे, धर्म एव बुधैः सदा / विशुद्धो मुक्तये सर्व, यतोऽन्यद् दुःखकारणम् // 31 // अनित्यः प्रियसंयोग, इहेप्शोकसंकुलः / अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् // 32 // अनित्याः संपदस्तीव्रक्लेशवर्गसमुद्भवाः / अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् // 33 // पुनर्जन्म पुनर्मत्युर्डीनादिस्थानसंश्रयः / पुनः पुनश्च यदतः, सुखमत्र न विद्यते // 34 // प्रकृत्याऽसुन्दरं ह्येवं, संसारे सर्वमेव यत् / अतोऽत्र वद किं युक्ता, कचिदास्था विवेकिनाम् // 35 // मुक्त्वा धर्म जगद्वन्द्यमकलङ्घ सनातनम् / परार्थसाधकं धीरैः, सेवितं शीलशालिभिः // 36 // ततो भागवतं वाक्यं, श्रुत्वेदममृतोपमम् / संसारवासात्तैः सर्वैः, स्वं स्वं चित्तं निवर्तितम् // 37 // राजाऽऽह क्रियते सर्व, यदादिष्टं महात्मना / प्रगुणाऽऽह महाराज !, किमद्यापि विलम्ब्यते // 38 // चारू चारूदितं तात !, सम्यगम्ब ! प्रजल्पितम् / युक्तमेतदनुष्ठानं, मुग्धेनैवं प्रभाषितम् // 39 // हर्षोत्फुल्लसरोजाक्षी, तथापि गुरुलज्जया / तदुक्तं बहु मन्वाना, वधूनेिन संस्थिता // 40 // ततः पतितानि चत्वार्यपि भगवच्चरणयोः / ऋजुराजेनोक्तं वत्स ! संपादयामो यदादिष्टं भगवता / भगवानाह-उचितमिदं भवादृशां भव्यानाम् / ततः पृष्टो भगवानेव प्रशस्तदिनं राज्ञा / भगवतोक्तं-अचैव शुद्धयतीति / ततस्तत्रस्थेनैव नरेन्द्रेण दापितानि महादानानि, कारितानि देवपूजनानि, स्थापितः शुभाचाराभिधानः स्वतनयो राज्ये, जनितो नागरिकजनानां चित्तानन्द इति / ततो निवर्त्य कर्त्तव्यं, प्रव्रज्याकरणोचितम् / गुरुणाऽर्पितसद्भावं, दीक्षितं च चतुष्टयम् // 1 // ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते / शुक्लरूपं पुनस्तेषां, प्रविष्टं तनुषु क्षणात् // 2 // कालज्ञेन ततश्चित्ते, सभार्येण विचिन्तितम् / पश्याहो धन्यताऽमीषां, सुलब्धं जन्मजीवितम् // 3 // एतैर्भागवती दीक्षा, यैः प्राप्ता पुण्यकर्मभिः / दुरन्तोऽप्यधुना मन्ये, तैस्तीर्णोऽयं भवोदधिः // 4 // चारित्ररत्नादेतस्मात्संसारोत्तारकारणात् / वयं तु देवभावेन, व्यर्थकेनात्र वञ्चिताः // 5 // अथवा--मिथ्यात्वोदलनं यस्मादस्माभिरपि साम्प्रतम् / दुर्लभं भवकोटीभिः, प्राप्तं सम्यक्त्वमुत्तमम् // 6 // अतोऽस्ति धन्यता काचिदस्माकमपि सर्वथा / नरो दारिद्यभाङ नैव, लभते रत्नपुञ्जकम् // 7 // ततः सहर्षी तौ सूरेः, प्रणम्य चरणद्वयम् / तेनानुशिष्टौ स्वस्थानं, संप्राप्तौ देवदम्पती // 8 // प्रविष्टा भोगतृष्णाऽपि, शरीरे गच्छतोस्तयोः ।शुद्धसम्यक्त्वमाहात्म्यात्, केवलं सा न बाधिका // 9 // विचक्षणाऽऽह कालज्ञमन्यदा रहसि स्थिता / आर्यपुत्र ! यदा दृष्टा, त्वयाऽहं कृतवञ्चना // 10 // तदा किं चिन्तितं ? सोऽपि, स्वाभिप्राय न्यवेदयत् / विचक्षणाऽऽह सत्यस्त्वं, कालज्ञ इति गीयसे॥११॥