________________ प्राणिनां तथैव निर्गतं द्वितीय डिम्भरूपं, तस्माच्च तदाकाररूपधरमेव क्लिष्टतरं प्रकृत्या संजातमन्यदपि तृतीयं डिम्भरूपं, नच वदितुमारब्धं, ततः शुक्लडिम्भरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तद्वर्द्धमानं निवार्य प्रकृत्या धारितं, निर्गते च भगवदनुग्रहात् द्वे अपि ते कृष्णे डिम्भरूपे / ततो भगवताऽभिहितं--भो भद्राणि ! यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरीताचरणमिति न तत्र भवद्भिविषादो विधेयः, यतो न भवतामेष दोषो, निर्मलानि यूयं स्वरूपेण / तैरभिहितंभगवन् ! कस्य पुनरेष दोषो ? भगवानाह--यदिदं शुक्लानन्तरं भवच्छरीरेभ्यो निर्गतं कृष्णवर्ण डिम्भरूपं अस्यायं दोषः / तान्याहुः--भगवन् ! किनामकमिदं ? भगवतोक्तं-अज्ञानमिदमुच्यते, तैरुक्तं-भगवन् !यदिदमेतस्मादज्ञानात्प्रादुर्भूत द्वितीयं कृष्णडिम्मरुपं, अनेन च शुक्लरूपेणास्फोटय वर्द्धमानं धारितमेतत्किन्नामकं ?, भगवानाह--पापमिदं / तान्याहुः-अस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानं ?, भगवतोक्तं--आर्जवमिदमभिधीयते / ततस्तान्याहुः--भगवन् ! कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माज्जातं ? किमिति चानेनार्जवेनेदं विवर्द्धमानं धारितमिति सर्व विस्तरतः श्रोतुमिच्छामः / भगवानाह-यद्येवं ततः समाकर्णयत यूयम्-- यत्तावदिदमज्ञानं, युष्मदेहाद्विनिर्गतम् / एतदेव समस्तस्य, दोषवृन्दस्य कारणम् // 1 // अनेन वर्तमानेन, शरीरे जन्तवो यतः / कार्याकार्य न जानन्ति, गम्यागम्यं च तत्त्वतः।।२॥ भक्ष्याभक्ष्यं न बुध्यन्ते पेयापेयं च सर्वथा / अन्धा इव कुमार्गेण, प्रवर्तन्ते ततः परम् // 3 // ततो निबध्य घोराणि, कर्माण्यकृतशम्बलाः / भवमार्गे निरन्तेऽत्र, पर्यटन्ति सुदुःखिताः // 4 // अज्ञानमेव सर्वेषां रागादीनां प्रवर्तकम् / स्वकार्य भोगतृष्णाऽपि, यतोऽज्ञानमपेक्षते॥५॥ अज्ञानविरहेणैव, भोगतृष्णा निवर्त्तते / कथश्चित्संप्रवृत्ताऽपि, झटित्येव निवर्त्तते॥६॥ सर्वज्ञः सर्वदर्शी च, निर्मलोऽयं स्वरूपतः। अज्ञानमलिनो ह्यात्मा, पाषाणान्न विशेष्यते // 7 // याः काश्चिदेव मत्र्येषु, निर्वाणे च विभूतयः / अज्ञानेनैव ताः सर्वा, हृताः सन्मार्गरोधिना॥८॥ अज्ञानं नरको घोरस्तमोरूपतया मतम् / अज्ञानमेव दारिद्यमज्ञानं परमो रिपुः॥९॥ अज्ञानं रोगसंघातो, जराऽप्यज्ञानमुच्यते / अज्ञानं विपदः सर्वा, अज्ञानं मरणं मतम् // 10 // अज्ञानविरहे नैष, घोरः संसारसागरः / अत्रापि वसतां पुंसां, बाधकः प्रतिभासते // 11 // याः काश्चिदप्यवस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः / यच्चासमञ्जसं किञ्चिदज्ञानं तत्र कारणम् // 12 // त एव हि प्रवर्तन्ते, पापकर्मसु जन्तवः / प्रकाशाच्छादकं येषामेतच्चेतसि वर्तते // 13 // येषां पुनरिदं चित्ताद्धन्यानां विनिवर्तते / शुभ्रीभूतान्तरात्मानस्ते सदाचारवत्तिनः // 14 // वन्द्यास्त्रिभुवनस्यापि, भूत्वा भावितमानसाः / अशेषकल्मपोन्मुक्ता, गच्छन्ति परमं पदम् / / 15 / / एतच्चाज्ञानमत्रार्थे, सर्वेषां भवतां समम् / संजातं तेन दोषोऽयमस्यैव न भवादृशाम् // 16 // डिम्भरूपमनेनैव, द्वितीयं पापनामकम् / सर्वत्र जन्यते तस्मादत्रापि जनितं किल // 17 // एतद्धि सर्वदुःखानां, कारणं वर्णितं बुधैः / उद्वेगसागरे घोरे, हठादेतत्प्रवर्तकम् // 18 // मूलं संक्लेशजालस्य, पापमेतदुदाहृतम् / न कर्त्तव्यमतः प्राज्ञैः, सवै यत्पापकारणम् // 19 // हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च / क्रोधादयश्च चत्वार, इति पापस्य हेतवः // 20 // वर्जनीयाः प्रयत्नेन, तस्मादेते मनीषिणा / ततो न जायते पापं, तस्मान्नो दुःखसंभवः // 21 // युष्माकं पुनरज्ञानाज्जातं पापमिदं यतः / अज्ञानमेव सर्वेषां, हिंसादीनां प्रवर्तकम् // 22 //