________________ 104 तृणकाष्ठैर्यथा वह्निर्जलपूरैर्यथोदधिः / तथा न तृप्यत्येषाऽपि, भोगैरासेवितैरपि // 3 // यो मूढः शमयत्येना, किल शब्दादिभोगतः। जले निशीथिनीनाथ, सहस्तेन जिघृक्षति // 4 // मोहादेनां प्रियां कृत्वा, भोगतृष्णां नराधमाः / संसारसागरे घोरे, पर्यटन्ति निरन्तके // 5 // सदोषेयमिति ज्ञात्वा, ये पुनः पुरुषोत्तमाः। स्वदेहगेहानिःसार्य, चित्तद्वारं निरुन्धते // 6 // ते सर्वोपद्रवैर्मुक्ताः, प्रलौनाशेषकल्मषाः / आत्मानं निर्मलीकृत्य, प्रयान्ति परमं पदम् // 7 // युग्मम् / येऽनया रहिताः सन्तस्ते वन्द्या भुवनत्रये / वशे गताः पुनर्येऽस्याः, साधुभिस्ते विगर्हिताः // 8 // अनुकूला भवन्त्यस्या, ये मोहाइधमा नराः / तेषामेषा प्रकृत्यैव, दुःखसागरदायिका // 9 // प्रतिकूला भवन्त्यस्या, ये पुनः पुरुषोत्तमाः / तेषामेषा प्रकृत्यैव, सुखसन्दोहकारिका // 10 // तावन्मोक्षं नरो द्वेष्टि, संसारं बहु मन्यते / पापिष्ठा भोगतृष्णेयं, यावचित्ते विवर्त्तते // 11 // यदा पुनर्विलीयेत, कथश्चित्पुण्यकर्मणाम् / एषा भवस्तदा सर्वो, धूलिरूपः प्रकाशते // 12 // तावच्चाशुचिपुजेषु, योषिदङ्गेषु मूढधीः / कुन्देन्दीवरचन्द्रादिकल्पनां प्रतिपद्यते // 13 // यावदेषा शरीरस्था, वर्त्तते भोगतृष्णिका / तदभावे मनस्तेषु, न स्वप्नेऽपि प्रवर्त्तते // 14 // युग्मम् / समाने पुरुषत्वेऽपि, परकिङ्करतां गताः / निन्धं यत्कर्म कुर्वन्ति, भोगतृष्णाऽत्र कारणम् // 15 // येषां पुनरियं देहानिर्गता सुमहात्मनाम् / निर्द्वना अपि ते धीराः, शक्रादेरपि नायकाः // 16 // किश्चित्तामससंमित्रै, राजसैः परमाणुभिः / निर्वर्तितशरीरेयं, गीता तन्त्रान्तरेष्वपि // 17 // तदेषां भवतोः पापा, पापकर्मप्रवर्तिका / अतोऽस्या एव दोषोऽयं, विद्यते नैव भद्रयोः // 18 // स्वरूपेण सदा भद्रौ, निर्मलौ परमार्थतः / एषैव सर्वदोषाणां, कारणत्वेन संस्थिता // 19 // इह स्थातुमशक्तत्वात् एषा दूरस्थिताऽधुना / भवन्तौ मत्समीपाच्च, निर्गच्छन्तौ प्रतीक्षते॥२०॥ विचक्षणाकालज्ञाभ्यामभिहितं--भगवन् ! कदा पुनरस्याः सकाशादावयोर्मोक्षः ? भगवानाह -भद्रौ ! नेह भवे, अद्यापि भवद्भ्यामियं सर्वथा त्यक्तुं न शक्या, केवलमस्या निर्दलने महामुद्गरायमाणं प्रादुर्भूतं भवतोः सम्यग्दर्शनं, तदुद्दीपनीयं पुनः पुनः १५सुगुरुसंनिकर्षण, नाचरणीयमस्या भोगतृष्णाया अनुकूलं, लक्षयितव्यो मनसि विवर्त्तमानोऽस्या सम्बन्धी विकारः, निराकरणीयोऽसौ प्रतिपक्षभावनया, यतः प्रतिक्षणं तनुतां गच्छन्ती न भविष्यतीयं शरीरेऽपि वर्तमाना भवतोर्वाधिका, भवान्तरे पुनरस्याः सर्वथा त्यागसमर्थो भविष्यतो भवन्ताविति। तदाकर्ण्य ततो महाप्रसाद इति वदन्तौ विचक्षणाकालज्ञौ पतितौ भगवचरणयोः। ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवद्वचनं ऋजुप्रगुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चत्तापेन सह विशुद्धाध्यवसायः। ऋजुप्रगुणाभ्यां चिन्तितं-अहो अलीकसुतवधूद्विगुणितव्यामोहेन . निरर्थकं विडम्बितं, विहिता सुतवध्वोरुन्मार्गप्रवृत्तिरावाभ्यामिति। मुग्धेन चिन्तितं--अहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणम् / अकुटिलया चिन्तितं--बत संजातं मे शीलखण्डनमिति / ततश्चतुर्णामपि स्थितमेतचित्ते यदुत निवेदयाम एवंस्थितमेवेदं भगवतां, एत एवास्य दुश्चरितस्य प्रतिविधानमुपदेक्ष्यन्ति / अत्रान्तरे चतुर्णामपि शरीरेभ्यो निर्गतैः परमाणुभिर्घटितशरीरं शुक्लं वर्णेन परिगतं तेजसाऽऽहादकं लोचनानां प्रीणकं चेतसामुपलभ्यमानं 'मया रक्षितानि मया रक्षितानि यूयमिति' ब्रुनाणमेकं डिम्मरूपं सहर्ष भगवन्मुखमीक्षमाणं स्थितं सर्वेषां पुरतः, तावत्तदनुमार्गेणैव कृष्णं वर्णेन बीभत्समाकारेग उद्वेगहेतुः 15 पा. सम्पर्केण