SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 103 प्रतिबोधप्राचार्या विरज्यते सुतरां विचक्षणा, तत्किमकुटिलां गृहीत्वाऽदृष्टस्वकलत्रधर्षणः इतोऽपक्रमामि ? एतदपि नास्ति, यतोऽकाण्डप्रस्थाने न स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते, तया रहितस्य पुनर्गमनमनर्थकमेव, तस्मादीाधर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति / विचक्षणयापि चिन्तितं--अये ! स एवायं मदीयभर्ता कालज्ञोऽनेन रूपेण स्थितः, कुतोऽन्यस्यात्र संभव इति / ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामीति संजातलज्जा अयमन्यां भजत इति समुत्पन्नेा दःशकमेवं स्थिते स्थातमित्याविर्भताकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तीति निरालम्बा / सापि यद्भविष्यत्तया कालविलम्बमेवाश्रित्य तत्रैव स्थिता / तत्प्रभृत्यदर्शितवैक्रियौ परित्यक्तेाधमौं देवमायया समस्तमानुषकर्त्तव्यान्याचरन्तौ प्रत्येकं द्वयं भजमानौ स्थितौ विचक्षणाकालज्ञौ प्रभूतकालम् / ___ अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्नाकरो बहुशिष्यपरिकरः समागतः प्रतिबोधको नामाचार्यः, निवेदितो नरेन्द्रायोद्यानपालेन, ततः सपौरजनो निर्गतस्तद्वन्दनार्थ राजा, भगवतोऽपि उपवेशनार्थ देवैविरचितं कनककमलं, दृष्टस्तत्रोपविष्टस्तेभ्यो धर्ममाचक्षाणो भगवान्नरपतिना इलातलविलुलितमौलिना, वन्दितं तत्पादारविन्दं शेषमुनयश्च, अभिनन्दिताः कर्मविटपिपाटनपटिष्ठनिष्ठुरकुठारायमाणेन धर्मलाभाशीर्वादेन भगवता शेषयतिभिश्च, उपविष्टा भूतले, कालज्ञादयोऽपि प्रयुज्य समस्तं वन्दनादिविनयं यथास्थानमुपविष्टाः। प्रस्तुता भगवता विशेषतो धर्मदेशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, निन्दितः संसारचारकावासः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसुखातिशयः कथिता विषयाभिष्वङ्गस्य भवभ्रमणहेतुशिवसुखप्रतिरोधिका दुरन्तता / ततस्तद्भगवद्वचनामृतमाकर्ण्य विचक्षणाकालज्ञयोविंदलितं मोहजालमाविर्भूतः सम्यग्दर्शनपरिणामः, समुज्ज्वलितः कर्मेन्धनदहनप्रवणः स्वदुश्चरितपश्चात्तापानलः / अत्रान्तरे तयोः शरीराभ्यां विनिर्गतै रक्तकृष्णैः परमाणुभिर्घटितशरीरा, बीभत्सा दर्शनेन, भीषणा स्वरूपेण, उद्वेगहेतुर्विवेकिनां एका स्त्री भगवतः प्रतापं सोढुमक्षमा निर्गत्य पर्षदः पश्चान्मुखीस्थिता दूरवर्तिनि भूभागे स्थिता, पश्चात्तापाकृतहृदयतया गलदश्रुसलिलौ समकमेव विचक्षणाकालज्ञौ पतितौ भगवच्चरणयोः। कालज्ञेना भिहितं-भगवन्नधमाधमोऽहं येन मया विप्रतारिता स्वभार्या, आचरितं पारदार्य, द्रुग्धः१४ सरलहदयो, मुग्धो जनितो नरेन्द्रमहादेव्यादीनां व्यलीकसुतव्यामोहः वञ्चितोऽयं परमार्थेनात्मा / तस्य ममैवंविधपापकर्मणः कथं शुद्धिर्भविष्यतीति ? विचक्षणयोक्तं--ममापि कथं ? यतः समाचरितं पापिष्ठिया मयाऽपीदं सर्व, किं वा निवेद्यते ? दिव्यज्ञानस्य प्रत्यक्षमेवेदं समस्तं भगवतः। भगवानाहभद्रौ ! न कर्त्तव्यो युवाभ्यां विषादो, न भद्रयोर्दोषोऽयं, निर्मलं भवतोः स्वरूपम् / तावाहतुःकस्य पुनर्दोषोऽयं ? भगवानाह--येयं युष्मच्छरीरान्निगत्य दूरे स्थिता नारी तस्याः / तावाहतुःभगवन् ! किन्नामिकेयं ? भगवताऽभिहितं--भद्रौ ! भोगतृष्णेयमभिधीयते / विलक्षणाकालज्ञाभ्यामभिहितं--भगवन् ! कथं पुनरियमेवंविधदोषहेतुः / भगवताऽभिहितं--भद्रौ ! श्रूयताम्-- रजनीव तमिस्रस्य, भोगतृष्णव सर्वदा / रागादिदोषवृन्दस्य, सर्वस्यैषा प्रवर्तिका // 1 // येपामेषा भवेदे हे, प्राणिनां पापचेष्टिता / तेषामकार्येषु मतिः, प्रसभं संप्रवर्त्तते // 2 // 14 बञ्चितौ सरलहृदयौ अकुटिलामुग्धौ प्र० स्वरूपं
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy