________________ 102 तावद्यावदहमितो राजगृहोपवनादेवार्चननिमित्तं कतिचित्कुसुमान्यादायागच्छामि / सा तु मुग्धहृदयतया स्थिता मौनेन, गतोऽकुटिलाभिमुखं, कालज्ञोऽवतीर्थों घनतरगहने अदर्शनीभूतो विचक्षणायाः / चिन्तितमनेन-अये ! किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्ति बर्त्तते / कालबिल- ___ ततः प्रयुक्तमनेन विभङ्गज्ञानं, लक्षितं तयोर्दरीभवनकारणम् / ततोऽयमेवात्रोपाय इति म्बे मिथुन- विचिन्त्य कृतमनेन देवशक्त्याऽऽत्मनो वैक्रियं मुग्धरूपं, निर्बर्तिता कनकमर्पिका, भृता कुसुमानां, वयकथा गतोऽकुटिलासमीपं, ससंभ्रममाह च--जिताऽसि प्रिये ! जिताऽसि, ततः कथमार्यपुत्रो झटित्येवायातो जिताऽहमपि(पीति)विलक्षीभूता मनागकुटिला / कालज्ञेनाभिहितं--प्रियेऽलं विषादेन, स्वल्पमिदं कारणं, केवलं निर्बतितोऽधुना कुसुमोच्चयो, व्रजावोऽमुष्मिन्नुपवनविभूषणे कदलीलतागृहे। प्रतिपन्नमनया, ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयम् / इतश्च विचक्षणया चिन्तितं--अये ! गतस्तावदेष कालज्ञः, ततो यावदयं नागच्छति यावचेयं नारी दूरे वर्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं, करोम्यात्मनो जन्मनः साफल्यं, लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोदरीभवनहेतुः / ततो विधायाकुटिलारूपं कुसुमभृतकनकसूर्पिका गता मुग्धसमीपम् / आह च-- जितोऽस्यार्यपुत्र ! जितोऽसि / ततः ससंभ्रमं तां निरीक्ष्य मुग्धः प्राह--प्रिये ! सुष्टु जितः, किमधुना क्रियतां ? विचक्षणयोक्तं--यदहं वदामि / मुग्धः प्राह--किं तत् ? विचक्षणाऽऽह-बजामो लताभवनं, मानयामो विशेषतः सदुपवनश्रियं, प्रतिपन्नमनेन / ततो गत्वा तौ विचक्षणामुग्धौ तत्रैव कदलीलतागृहके, दृष्टं तन्मिथुनं, निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं, मिथुनाभ्यां न दृष्टस्तिलतुषत्रिभागमात्रोऽपि स्वेतरयोर्विशेषः / मुग्धेन चिन्तितं-अये ! भगवतीनां वनदेवतानां प्रसादेन द्विगुणोऽहं संपन्नो देवी च, तदिदं महदभ्युदयकारणं, तं निवेदयामीदं ताताय, ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तावत्तातसमीपं इत्यभिधायोत्थितो मुग्धः / चलितं चतुष्टयमपि, प्रविष्टं ऋजुराजाऽऽस्थाने, तद्विलोक्य विस्मितो राजा महादेवी परिकरश्च, किमेतदिति पृष्टो मुग्धः / स प्राह--वनदेवताप्रसादः / ऋजुराह-कथं ?, ततः कथितो मुग्धेन व्यतिकरः / ऋजुना चिन्तितंअहो मे धन्यता, अहो मे देवतानुग्रहः, ततो हर्षातिरेकेण समादिष्टस्तेनाकालमहोत्सवो नगरे / दापितानि महादानानि, विधापितानि नगरदेवतापूजनानि / स्वयं च राजा राजमण्डलमध्यस्थः प्राह-- एकेन सुतेन सुतद्वयं, वध्वा जातमथो वधूद्वयम् / ___गायत खादत पिबताथ सज्जना ! वादयताथ नृत्यत // 1 // ततः प्रगुणापि महादेवी एतदेव नरेन्द्रोक्तमनुवदन्ती वादितानन्दमईलसन्दोहबधिरितदिगन्ता विहितो_भुजा नर्तितुं प्रवृत्ता, द्विगुणाई संपन्नेति गता हर्षमकुटिला / प्रनृत्ताः शेषान्तःपुरिकाः, प्रमुदितं नगरं, वृत्तो बृहता विमर्न महानन्द इति / केलिप्रियतया हृष्टः कालज्ञः / केवलं चिन्तितमनेन- का पुनरेषा द्वितीया योषित् संजातेति / उपयुक्तो ज्ञाने, ज्ञातमनेन--सैवैषा मदीयभार्या विचक्षणेति / ततः संजातः क्रोधः, चिन्तितमनेन, मारयाम्येनं दुराचारं पुरुषं, एषा पुनरमरतया न शक्यते मारयितुं, तथाप्येवं पीडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते / एवं कृतनिश्चयम्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्ताऽर्थपर्यालोचना, स्फुरितं चित्ते- यथा न सम्यग् चिन्तितमिदं मया, न पीडनीया तावद्विचक्षणा, यतोऽहमपि न शुद्धाचारो, ममापि समानोऽयं दोषः, मारणमपि मुग्धस्य न युक्तं, यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला,