________________ 101 रुवाच-कथं ? ततः कथितो बालेन सर्वोऽपि व्यतिकरः, संजातो' मध्यमबुद्धरपि स्पर्शनस्योपरि स्नेहभावः / बालेनाभिहितं-भद्र स्पर्शन ! दर्शयास्य स्वकीयं माहात्म्यम् / स्पर्शनः प्राह-एष दर्शयामि। ततः प्रयुक्ता योगशक्तिः, कृतमन्तर्द्धानं, अधिष्ठितं मध्यमबुद्धेः शरीरं, विस्मितो मध्यमबुद्धिः, प्रवृत्ता कोमलस्पर्शेच्छा, उपभुक्तानि ललितशयनसुरतादीनि, संजातश्चित्ताहादः, प्रीणितो मध्यमबुद्धिः, प्रकटीभूतः स्पर्शनः, पृष्टं स्वप्रयाससाफल्यम्। अनुगृहीतोहं भवतेति निवेदितं सरभसेन मध्यमबुद्धिना / ततः पात्रीभूतोऽयमपि न दुरयायी वर्त्तत इति विचिन्तितं स्पर्शनेन / मनीषिणा चिन्तितं-वशीकृतप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेन, अतो यधुपदेशं गृह्णाति ततः शिक्षयाम्येनं, मा भूदस्य मुग्धतया वराकस्य वञ्चनमिति / ततो रहसि मध्यमबुद्धिरभिहितो मनीपिणा-भद्र ! न भद्रकोऽयं स्पर्शनो, विषयाभिलाषप्रयुक्तोऽयं लोकानां वश्चकः पर्यटति, मध्यमबुद्धिरुवाच-कथं ? ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्ताऽपि तस्य स्पर्शनस्य मूलशुद्धिः / मध्यमबुद्धिना चिन्तितं-स्वानुभवसिद्धा मम तावदस्य स्पर्शनस्य संबन्धिनी वत्सलता, अचिन्त्यप्रभावता, सुख हेतुता च / अयमपि च मनीषी नायुक्तभाषी, तन्न जानीमः किमत्र तत्त्वं ? किं वा वयमेवंस्थिते कुर्म इति ? अथवा किमनेन चिन्तितेन ? तावदम्बां पृच्छामि, तदुपदिष्टमाचरिष्यामीति विचिन्त्य गतः सामान्यरूपायाः समीपं, कृतं पादपानं अभिनन्दितस्तया, निविष्टः क्षितितले, निवेदितो व्यतिकरः / सामान्यरूपयोक्तं-वत्स ? तावत्त्वयाऽधुना स्पर्शनमनीषिणोयोरपि वचनमनुवर्त्तयतोभयाविरोधेन मध्यस्थतयैव स्थातुं युक्तं, कालान्तरे पुनर्य एव बलवत्तरः पक्षः स्यात् स एवाश्रयणीयः / तथाहि-संशयापन्नचित्तेन, भिन्ने कार्यद्वये सता / कार्यः कालविलम्बोऽत्र, दृष्टान्तो मिथुनद्वयम् // 1 // मध्यमबुद्धिरुवाच-अम्ब ! किं तन्मिथुनद्वयं ? सामान्यरूपयोक्तं पुत्राकर्णय अस्ति तथाविधं नाम नगरं, तत्र ऋजुर्नाम राजा, तस्य प्रगुणा नाम महादेवी, तयोर्मकरध्वजाकारो मुग्धो नाम तनयः, तस्य च रतिसन्निभा अकुटिला नाम भार्या, ततस्तयोर्मुग्धाकुटिलयोरन्योऽन्यवद्धानुरागयोर्विषयसुखमनुभवतोर्बजति कालः / अन्यदा वसन्तसमये उपरितनप्रासादभूमिकावासभवने व्यवस्थितः प्रभाते उत्थितो मुग्धकुमारो, मनोहरविविधविकसितकुसुमवनराजिराजितं गृहोपवनमुपलभ्य संजातक्रीडाभिलाषो भाया प्रत्युवाच-देवि ! अतिरमणीयेयमुपवनश्रीः, तदुत्तिष्ठ गच्छावः कुसुमोच्चयनिमित्तं, आनयाव एनाम् / अकुटिलयाऽभिहितं यदाज्ञापयत्यार्यपुत्रः। ततो गृहीत्वा मणिखचिते कनकसूर्पिके गते गृहोपवनं, प्रारब्धः कुसुमोच्चयः / मुग्धः प्राह-देवि ! पश्यावस्तावत् कनकसूपिकां झटिति कः पूरयति ? ब्रज त्वमन्यस्यां दिशि अहमन्यस्यां बजामीति / अकुटिलयाऽभिहितं-एवं भवतु, गतौ कुसुमोच्चयं कुर्वाणौ परस्परं दर्शनपथातीतयोर्गहनान्तरयोः / अत्रान्तरे कथश्चित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकम् / कालज्ञो देवो विचक्षणा देवी, तेन च गगनतले विचरताऽवलोकितं तन्मानुषमिथुनं, ततोऽचिन्त्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानुषमिथुनस्यापर्यालोचितकारितया मन्मथस्य, मदनजननतया मधुमासस्यातिरमणीयतया प्रदेशस्य, केलिबहलतया व्यन्तरभावस्यातिचपलतयेन्द्रियाणां, दुनिवारतया विषयाभिलाषस्यातिचटुलचारितया मनोवृत्तेस्तथाभवितव्यतया च तस्य वस्तुनः कालज्ञस्याभूदकुटिलायां तीव्रोऽनुरागः तथैवचमुग्धस्योपरि विचक्षणायाः / ततः किलैनां वश्चयामीतिबुद्धया कालज्ञेनाभिहिता विचक्षणा-देवि ! व्रज त्वमग्रतः पालविलबेमिथुनस्यकथा