________________ शुमसुन्दरी विचार स्पर्शनप्र भाव: 100 मया यथा सुन्दरस्तवानेन वरमित्रेण साई संबन्धः हेतुः सुखपरम्परायाः / किं चास्ति ममापीदृशी योगशक्तिरिति दर्शयिष्याम्यहमपि जातस्य कुतूहलम् / बालस्तूवाच-यद्येवं ततो बहुतरमम्बायाः प्रसादेनास्माभिरद्यापि द्रष्टव्यम् / अकुशलमालोवाच-तत्कथनीयं भवता यदा प्रयुज्यते योगशक्तिरिति / इतश्च मनिषिणाऽपि स्वमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः१३ / तयाऽभिहितंवत्स ! न चारुस्तवानेन पापमित्रेण सह संसर्गः, कारणमेष दुःखपद्धतेः / मनीषिणाऽभिहितंसत्यमेतत , केवलं न कर्त्तव्यमत्र भयमम्बया, लक्षितो मयाऽयं स्वरूपेण, नाहमस्य यत्नवतोऽपि वञ्चनागोचरः, केवलमस्य परित्यागकालं प्रतिपालयामि, यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः / शुभसुन्दर्युवाच-जात ! सुन्दरमिदमनुष्ठितं भवता, अहो ते लोकज्ञता, अहो ते प्रतिपन्नवात्सल्यं, अहो ते नीतिपरता, अहो गम्भीरता, अहो ते स्थैर्यातिरेकः / / तथाहि-नाकाण्ड एव मुश्चन्ति, सदोषमपि सज्जनाः। प्रतिपन्नं गृहस्थायी, तत्रोदाहरणं जिनः // 1 // प्रतिपन्नमकाले तु, सदोषमपि यस्त्यजेत् / स निन्धः स्यात्सतां मध्ये, न चासौ स्वार्थसाधकः // 2 // यस्तु मूढतया काले, प्राप्तेऽपि न परित्यजेत् / सदोषं लभते तस्मात् स्वक्षयं नात्र संशयः // 3 // हेयबुद्धया गृहीतेऽपि ततो वस्तुनि बुद्धिमान् / तत्त्यागावसरापेक्षी, प्रशंसां लब्धुमर्हति // 4 // कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमाकर्ण्य परितुष्टो मनीषिणो रुष्टो बालस्य चित्तमध्ये / बालेनापि ततः प्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यक्तो राजकुमारोचितः शेषव्यापारः, परिहतं गुरुदेवपादवन्दनं, विमुक्तं कलाग्रहणं, शिथिलीकृता लज्जा, अङ्गीकृतः पशुधर्मः। ततोऽसौ न गणयति लोकवचनीयतां, न रक्षति कुलकलङ्घ, न जानीते स्वस्योपहास्यतां नापेक्षते कुशलपक्षं, न गृहाति सदुपदेशान् / केवलं यत्र कुत्रचित् नारीसङ्गमासनमन्यद्वा किश्चित्कोमलमुपलभते तत्र तत्राविचार्य तत्स्वरूपं लौल्यातिरेकेण प्रवर्त्तत एव / ततो मनीषी संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वश्वकोऽयमिति दीपयति भ्रातर्नास्य विश्वसनीय, परमरिपुरेष स्पर्शन इति तं बालं पुनः पुनश्चोदयति / बालः प्राह- मनीषिन्नलमनेनादृष्टार्थेन प्रलापेन, य एष मे वरवयस्योऽनन्तागाधसुखसागरावगाहने हेतुः स एव ते परमरिपुरिति कैषा भाषा ? मनीषिणा चिन्तितं-मूहः खल्वेष न शक्यते निवारयितुं, अतोऽलमेतनिवारणेन, स्वरक्षणे मया यत्नो विधेयः / तथाहि-अकार्यवारणोयुक्तो, मूढे यः परिखिद्यते। वाग्विस्तरो वृथा तस्य, भस्मन्याज्याहुतिर्यथा // 1 // नोपदेशशतेनापि, मूढोऽकार्यानिवर्त्यते / शीतांशुग्रसनात्केन राहुक्यैिर्निवारितः ? // 2 // अकार्गे दुर्विनीतेषु, प्रवृत्तेषु ततः सदा / न किश्चिदुपदेष्टव्यं, सता कार्याऽवधीरणा // 3 // इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् / स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः // 4 // ___ इतश्चैतस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी / तस्याश्चाभीष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको, वल्लभतमो मनीषिबालयोः, क्रीडितस्ताभ्यां सह भूयांसं कालं, स च प्रयोजनवशादाजादेशेनैव देशान्तरं गत आसीत् / इदानीमागतः, दृष्टौ मनीषिबालौ सह स्पर्शनेन, आलिङ्गितस्ताभ्यां स्पर्शनेन च / ततः सकौतुकेन मध्यमबुद्धिना कर्णाभ्यणे निधाय वदनं पृष्टो बालः-क एष इति ? निवेदितो बालेनास्य यथा स्पर्शननामायमचिन्त्यप्रभावोऽस्मत्सहचर इति / मध्यमबुद्धि१३ व्यतिकरः प्र० मध्यमबुद्धि