________________ स्पर्श ने मनीषिवि वारः कारणं पुरुषः सदागमस्य केवलमुपदेशदाने व्यापारः। मनीषिणाऽभिहितं-भद्र ! किं तस्याभिधानं ? ___ स्पर्शनः प्राह–कथितमिदमार्यस्य मया-नाहं भयाकुलतया तदभिधानमुच्चारयामि, अत एव पूर्वमपि मया न युष्माकं तदाख्यातम् / किं च-अतिपापिष्ठोऽसौ, ततोऽलं नामग्रहणेन, पापिष्ठजनकथा हि क्रियमाणा पापं वर्द्धयति, यशो दूषयति, लाघवमाधत्ते, मनो विप्लावयति, धर्मबुद्धिं ध्वंसयतीति / मनीषिणाऽभिहितं-तथापि महत्कुतूहलं तदभिधानश्रवणेऽस्माकं, न चास्मदभ्यर्णे वर्तमानेन भवता तद्भयं विधातव्यं, न च नामग्रहणमात्रेण किश्चित्पापं, न ह्यग्निरित्युक्ते मुखदाहः संपद्यते, ततो विज्ञाय निर्बन्धं तरलिततारं दशापि दिशोऽवलोकयता / स्पर्शनेनाभिहितं- आर्य ! यद्येवं ततः सन्तोष इति तस्य दुर्नामकस्य नाम / मनीषिणा चिन्तितं--- सम्यगुपलब्धा मूलशुद्धिरस्य स्पर्शनस्य प्रभावेण, यतः सन्तोषव्यतिकर एवैकस्तत्राघटमानक आसीत् सोऽप्यधुना घटितः / सम्यङ् मया पूर्व वितर्कितं यथा न सुन्दरः खल्वेष स्पर्शनः प्रायेणेति / यतो विषयाभिलाषप्रयुक्तोऽयं लोकवञ्चनप्रवणः पर्यटति तदशोभन एवायं, तथापि प्रतिपन्नोऽयं मया मित्रतया दर्शितो बहिश्छायया स्नेहभावः क्रीडितमेकत्र बहुकालं तस्मान युक्तोऽकाण्ड एव परित्यक्तुं, केवलं विज्ञातस्वरूपेणास्य मयाऽधुना सुतरां न कर्तव्यो विश्रम्भो, नाचरितव्यमस्यानुकूलं, न समर्पणीयमात्मस्वरूपं, न निवेदनीयं गुह्यं, नापि दर्शनीयो बहिर्भावः / विषमप्रकृतिरेष वर्तते ततोऽनेन सह यापनया वर्तितव्यं, पूर्वस्थित्यैव पर्यटितव्य सर्वत्र सहितेन कर्त्तव्यं चात्मीयप्रयोजनबोधकमस्य वचनं, केवलमभिष्वङ्गोऽस्योपरि न कार्यों मया यावदस्य सर्वथा परित्यागावसरो भवति, एवं वर्तमानस्य मे न भविष्यत्येष बाधक इति स्थापितो मनीषिणा स्वचेतसि सिद्धान्तः। ततः पूर्वस्थित्यैव विलसन्ति ते स्पर्शनमनीषिबाला नानास्थानेषु व्रजन्ति दिनानि / अन्यदा स्पर्शनेन कृतो जल्पप्रस्तावोऽभिहितं च तेन--अरे ! किमत्र लोके सारं ? किंवा सर्व जन्तवोऽभिलषन्ति ? बालेनाभिहितं--वयस्य ! किमत्र ज्ञातव्यं ? सुप्रसिद्धमिदम् / स्पर्शनः प्राह-कथय किं तत् ? बालो जगाद-वयस्य ! सुखम् / स्पर्शनः प्राह--तत् किमिति तदेव सदा न सेव्यते ? बालेनाभिहितं- कस्तस्य सेवनोपायः ? स्पर्शनेनोक्तं-अहम्। बालो जगाद--कथं ? स्पर्शनः प्राह-अस्ति मे योगशक्तिः, तयाऽहं प्राणिनां शरीरमनुप्रविश्य बहिरन्तश्च कचिल्लीनस्तिष्ठामि, ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति कोमलललितस्पर्शनसंबन्धं कुर्वन्ति ततो निरुपमं सुखं लभन्ते, तेनाहं मुखसेवनस्योपायः / मनीषिणा चिन्तितं--अये ! रचितोऽनेनावयोर्वश्चनप्रपञ्चः। बालेनाभिहितं--वयस्य ! तत्किमियन्तं कालं नावेदितमिदमस्माकं ?, अहो वञ्चिता वयमधन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन / अहो ते गम्भीरता यदेवंविधामपि योगशक्तिमात्मनो न प्रकटयसि, तदिदानीमपि कुरु प्रसाद, दर्शय कतूहलं, व्यापारय योगशक्ति, भवावयोः सुखसेवनहेतुरिति / ततः किं क्रियतामेतदिति दृष्टिविकारेणेव दर्शयता साकूतेन निरीक्षितं मनीषिणो वदनं स्पर्शनेन, ततः पश्यामि किं तावत् करोतीति संचिन्त्य मनीषिणाऽभिहितं--वयस्य ! क्रियता बालस्यस्पशनाधीनता स्पर्शनयो गशक्तिः