________________ जामोहन- स्थान ततो महामोहेनाभिहितं-पुत्र ! ममाधुना जरच्चीवरस्येव पश्चिमो भावो वर्तते, ततो मदीयशरीरस्य पामापरिगतमूर्तेरिव करभस्य यद्वाह्यते तत्सारं ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कर्तु, तिष्ठ त्वं विपुलं राज्यं विदधानो निराकुलचित्तः, अहमेव प्रस्तुतप्रयोजनं साधयिष्यामीति / देवेन कौँ पिधायाभिहित-तात मा मैवं वोचः, शान्तं पापं, प्रतिहतममङ्गलं, अनन्तकल्पस्थायि भवतु यौष्माकं शरीरं, न खलु युष्मदीयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाज्ञापयितुमर्हति तातः, तत्किमनेन बहुना ? गच्छाम्यहं, अनुजानीत यूयम् / महामोहः प्राह-जात ! मया तावद्गन्तव्यमेव भवतस्तु केवलमवस्थानेऽनुज्ञा इत्यभिधायोत्थितो महामोहः / ततो विज्ञाय निर्वन्धं देवेनाभिहितं-तात ! यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि न प्रतिस्खलनीयस्तातेन / महामोहः प्राह-जात ! एवं भवतु, न खलु वयमपि भवन्तं मोक्तुं क्षणमपि पारयामः, केवलं गुरुतया प्रयोजनस्यैवं मन्त्रितमस्माभिस्तदधुना सुन्दरमिदं जातेन जल्पितम् / देवेनाभिहितं-महाप्रसादः / ततस्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणां देवेन, प्रवर्तितं निःशेष विशेषतो बलम् / ततः स्वयमेव महामोहनरेन्द्रो देवो रागकेसरी विषयाभिलाषादयः सर्वे मन्त्रिमहत्तमाः सर्वबलेन सन्तोषचरटस्योपरि निग्रहेण चलिता इति वार्त्तया क्षुभितमेतत् समन्ताद्राजसचित्तं नगरं, समुल्लसितोऽयं बहलः कलकलः। तदिदं भद्र ! अस्य नरेन्द्रस्य प्रस्थानप्रयोजनमिति / एतच्चातिकुतूहलिनं भवन्तमालोक्य मया निवेदितं, इतरथाऽतित्वरया मम वचनमात्रोच्चारणेऽपि नावसरोऽस्ति, यतो ममाग्रानीके नियमः। मयाऽभिहितं--आर्य ! किमत्र वक्तव्यं ? परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति, ते हि परे प्रियं कर्त्तमुद्यताः शिथिलयन्ति स्वप्रयोजनं, कुर्वन्ति स्वभुजोपाजितद्रव्यव्ययं, विषहन्ते विविधदुःखानि, न गणयन्त्याऽऽपदं, ददति मस्तकं, प्रक्रामन्ति प्राणान् , परप्रयोजनमेव हि ते स्वप्रयोजनं मन्यन्ते / ततश्चैवंविधैर्मदीयवचनैर्मनसि परितुष्टो नामयित्वा मदभिमुखमीषदुत्तमाङ्गं व्रजाम्यहमधुना इत्यभिधाय च कृतप्रणामो मया गतो विपाकः / मया चिन्तितं-- साधितप्रायं मयाऽधुना राजकार्य, यतः स्पर्शनस्य मूलशुद्धिमुपलभ्य भवताऽऽगन्तव्यमेतावानेव मम राजादेशः, तत्र यावन्तोऽनेन विपाकेन स्पर्शनादीनां गुणा वर्णितास्ते सर्वे तत्र स्पर्शने घटन्ते, ममानुभवसिद्धमेतत् , तस्मादेतदुपवर्णितमानुषपञ्चकस्याद्योऽसौ भविष्यति, लब्धा मया तस्य मूलशुद्धिः, केवलमेनं सन्तोषव्यतिकरमद्यापि नावगच्छामि, एतावद्वितर्कयामि--सदागमानुचर एवायं कश्चिद्भविष्यति, अन्यथा पूर्वापरविरुद्धमेतत्स्यात् / अथवा किमनेन?, गच्छामि तावत् स्वामिपादमूलं, निवेदयामि यथोपलब्धवृत्तान्तं, ततो देव एवात्र यथोचितं विज्ञास्यतीत्यालोच्य समागतोऽहं एतदाकर्ण्य देवः प्रमाणमिति / बोधेनाभिहितं-साधु प्रभाव ! साधु सुन्दरमनुष्ठितं भवता, ततः सहैव प्रभावेण प्रविष्टो बोधः कुमारसमीपं, कृतप्रणामेन च निवेदितः कुमाराय समस्तोऽपि प्रभावानीतवार्तावृत्तान्तः, परितुष्टो मनीषी, पूजितः प्रभावः, पृष्टोऽन्यदा मनीषिणा स्पर्शनो यदुत भद्र ! किं भवतः सदागमेनैव तेन भवजन्तुना सुमित्रेण सह विरहः संपादितः उत तत्र कश्चिदन्योऽप्यासीदिति ? स्पर्शनेनाभिहितं-आर्य ! आसीत्, केवलमलं तत्कथया , न खल्वहं भयवितलतया तस्य क्रूरकर्मणो नामाप्युच्चारयितुं शक्नोमि, स हि सदागमस्तस्य केवलं भवजन्तोरुपदेशं ददाति मत्कदर्थनविषयं स तु तस्यैवानुचरः क्रूरकर्मा नानायातनाभिः साक्षान्मां कदर्थयति, भवजन्तुं मत्तो विमुखयति तेनैव चाहं शरीरप्रासादानिःसारितो, भवजन्तुश्च निवृतौ नगया प्रापितः, स एव तत्र