________________ 04 रिपुरेष परमार्थेन, कारणमनर्थपरम्परायाः, शत्रुरयं ममापि सहजोऽनुवर्तते कदर्शिताऽहमनेन बहुशः पूर्व नास्त्येव मयास्य च सहावस्थानं, केवलमेतावानत्र चित्तसन्धारणाहेतुः--यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया दृष्टिविकारेण च विरक्त इव लक्ष्यते, ततो न प्रभविष्यति प्रायेण ममायं पापो, यदि वा न ज्ञायते कि भविष्यति ? विषमः खल्वेष दुरात्मा, इत्याद्यनेकविकल्पमालाकुलमानसाऽपि गम्भीरतया मौनेनैव स्थिता शुभमुन्दरी। अत्रान्तरे संजातो मध्याह्नः, उपसंहृतमास्थानं, गताः सर्वेऽपि स्वस्थानेषु, तदिनादारभ्य प्रवर्द्धते बालस्य स्पर्शनेन सह स्नेहसंबन्धः स हि चकितस्तिष्ठति सर्वथा, मनीषी न गच्छति विश्रम्मं, स्पर्शनस्तु सदा सन्निहिततया कुमारयोरन्तर्बहिश्च न पार्श्व मुञ्चति / ततः पर्यटन्ति ते सहिता एव नानास्थानेषु, क्रीडन्ति विविधक्रीडाभिः। ततो मनीषिणा चिन्तितं-कीदृशमनेन सह विचरतां सर्वत्राविश्रब्धचित्तानां सुखं ?, न चैष तावदद्यापि सम्यग् लक्ष्यते कीदृशस्वरूप इति, न चाज्ञातपरमार्थैरेष निर्धारयितुं संग्रहीतुं वा पार्यते, तदिदमत्र प्राप्तकालं गवेषयामि तावदस्य मूलशुद्धिं, ततो विज्ञाय यथोचितमाचरिष्यामीति स्थापितः सिद्धान्तः। ततः समाहूतो रहसि बोधो नामाङ्गरक्षः। अभिहितश्चासौ--भद्र ! ममास्य स्पर्शनस्योपरि .. महानविश्रम्भः तदस्य मूलशुद्धिं सम्यगवबुध्य शीघ्रमावेदय / बोधेनाभिहितं--यदोज्ञापयति कुमार इति / बोधादेशात् निर्गतो बोधः, ततोऽभ्यस्तसमस्तदेशभाषाकौशलो बहुविधवेषविरचनाचतुरः स्वामिकार्यबद्धकक्षो प्रभावस्य लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहितस्तेनात्मीयः प्रभावो नाम पुरुषः प्रणिधिः, आदिष्टश्वासौ प्रस्तुतप्रयोजन, चरता ततो विविधदेशेषु कियन्तमपि कालं पर्यटय समागतः सोऽन्यदा प्रविष्टो बोधसमीपे, विहितप्रणामो निषण्णो भूतले / बोधेनापि विधायोचितां प्रतिपत्तिमभिहितोऽसौ--भद्र ! वर्णयात्मीयवृत्तान्तम् / प्रभावः प्राह--यदाज्ञापयति देवःस्पर्शनचरि- अस्ति (स्मि) तावदहमितो निर्गत्य गतो बहिरङ्गेषु नानादेशेषु / न लब्धो मया तत्र प्रस्तुततप्रकाशः राजसचित्ते प्रवृत्तिगन्धोऽपि, ततो गतोऽहमन्तरङ्गेषु जनपदेषु / तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्पमाकीर्ण रागकेसरी समन्तात्कामादिभिश्चरटैः निवासः पापिष्टलोकानां, आकरो मिथ्याभिमानस्य, हेतुरकल्याणपरम्परायाः राजाविषयाभिलाषो अवष्टब्धं सततं विततेन तमसा रहितं प्रकाशलेशेनापि राजसचित्तं नाम नगरम् / तत्र च चूडामणिमन्त्री श्वरटचक्रस्य कारणं समस्तपापवृत्तीनां वज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादीनां अतुलबलपराक्रमो रागकेसरी नाम नरेन्द्रः। तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञः समस्तस्थानेषु निपुणो जगद्वशीकरणे कृताभ्यासो जन्तुविमोहने पटुबुद्धिः पापनीतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्ती परोपदेशानां निक्षिप्तसमस्तराज्यभारो विषयाभिलाषो नामामात्यः। ततस्तस्मिनगरे यावदहं राजकुलस्याभ्यर्णभूभागे प्राप्तस्तावदकाण्ड एव समुल्लसितो बहलः कोलाहलो, निर्गच्छन्ति घोषयता बन्दिवृन्देन प्रख्यापितमाहात्म्या लौल्यादिनरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः, पूरयन्ति गलगजितेन दिगन्तराणिराजमार्गमवतरन्तो ममत्वादयः करिवराः, चलिता हेषारवेण बधिरयन्तो दिकचक्रवालं अज्ञानादयो वरवाजिनो, विराजन्ते गृहीतनानायुधा रणशौण्डीरतया वल्गमानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः, ततः कन्दर्पप्रयाणकपटहशब्दाकर्णनसमनन्तरं खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुलं बिब्बोकशङ्खकाहलाध्वनिपूरितदिगन्तरं मीलितमपरिमितं बलम् / ततस्तदवलोक्य मया चिन्तितं-अये ! किमेतत् ? गन्तुमिव प्रवृत्तः कचिदयं राजा लक्ष्यते, तत्किमस्य गमनप्रयोजनमिति यावद्वितर्काकुलस्तिष्ठामि तावदृष्टो मया पर्यन्तदारुणः स्वरूपेणादर्शकः संसारवैचित्र्यस्य बोधको विदुषां निर्वेदभूमिविवेकिनां अविज्ञातस्वरूपो निर्विवेकैस्तस्यैव विषयाभिलाषस्य मन्त्रिणः संबन्धी