________________ 23 मानिनां मित्रविरहे, जीवितुं नैव युज्यते / इदं हि नश्यता तूर्ण, वासरेण निवेदितम् // 2 // अहो ते मित्रवत्सलता, अहो ते स्थिरानुरागः, अहो कृतज्ञता, अहो साहसं, अहोनिर्मिथ्यभावतेति / भवजन्तोः पुनरहो क्षणरक्तविरक्तता, अहो कृतघ्नता, अहो अलौकिकत्वं, अहो मूढता, अहो खरहृदयत्वं, अहो अनार्यानुष्ठानप्रवृत्तिरिति / केवलमेवमपि स्थिते ब्रवीम्यहमत्र किचित्तदाकर्णयतु भद्रम् / स्पर्शनेनाभिहितं-वदतु निविकल्पमायः, बालेनाभिहितम्-- अलब्धप्रतीकाराणामभिमानावलम्बिनाम् / स्नेहैकबद्धकक्षाणां, युक्तमेतद्भवादृशाम् // 1 // तथापि मदनुग्रहेण धारणीया भद्रेण प्राणाः, इतरथा ममापीयमेव गतिः / रञ्जितोऽहमनेन भवतो निष्कृत्रिममित्रवात्सल्येन, दाक्षिण्यमहोदधयश्च सत्पुरुषा भवन्ति, सत्पुरुषश्च भद्रः कार्यतो गम्यते, अतः कर्तव्यमेवैतत् निर्विचार मामकं वचनं भद्रेण, यद्यपि चूतमनोरथा न कि(चि)श्चिनिकया पूर्यन्ते तथापि मदनुकम्पया भवता मत्संबन्ध एव भवजन्तुविरहदुःखप्रतीकारबुद्धथा मन्तव्यः। स्पर्शनेनाभिहितं--साधु आर्य ! साधु, धारिता एव भवताऽनुपकृतवत्सलेनातिस्निग्धवचनामृतसेकेनानेन स्वयमेव विलीयमाना मदीयप्राणाः। किमत्र वक्तव्यं ? नष्टौ मेऽधुना शोकसन्तापौ, विस्मारित इव भवता भवजन्तुः, शीतलीभूतं नयनयुगलं, आह्लादितं चित्तं, निर्वापितं मे शरीरं भवदर्शनेन, किं बहुना ? त्वमेवाधुना भवजन्तुरिति, ततः संजातस्तयोनिरन्तरं स्नेहभावः।। ____मनीषिणा चिन्तितं--न खलु सहजोऽनुरक्तो वयस्यः केनचित्प्रेक्षापूर्वकारिणा पुरुषेण निर्दोषस्त्यज्यते, न च सदागमो निर्दोष कदाचित्त्याजयति, स हि गाढं पर्यालोचितकारीति श्रुतमस्माभिः, तदत्र कारणेन भवितव्यं, न सुन्दरः खल्वेष स्पर्शनः प्रायेण, तदनेन सह मैत्री कुर्वता विरूपमाचरितं बालेन / एवं चिन्तयन्नेव मनीषी संभाषितः स्पर्शनेन--कृतं मनीषिणाऽपि लोकयात्रानुरोधेन संभाषणं, संजाता तेनापि सह बहिश्छायया मैत्री स्पर्शनस्य / प्रविष्टाः सर्वेऽपि नगरे, संप्राप्ता राजभवनं, दृष्टो दत्तास्थानः कमविलासः सह महादेवीभ्यां, कृतं पादपतनं जननीजनकानां , आनन्दितास्तैराशीर्वादेन, दापितान्यासनानि नोपविष्टास्तेषु, निषण्णा भूतले, दर्शितः स्पर्शनः, कथितस्तद्त्तान्तः, प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां, परितुष्टः कर्मविलासः, चिन्तितमनेन-मम तावदपथ्यसेवनमिव व्याधेरुपचयहेतुरेप स्पर्शनः, दृष्ट एव मयाऽनेकशः पूर्व, तत्सुन्दरमेतत्सपन्नं यदनेन सहानयोमैत्री संजातेति, केवलं प्रकृतिरियं ममानादिरूढा वर्तते यदुत योऽस्यानुकूलस्तस्य मया प्रतिकूलेन भवितव्यं, यः पुनरस्य प्रतिकूलो निरभिष्वङ्गतया तस्य मया सुन्दरं वर्तितव्यं, यः पुनरेकान्ततस्त्यजति स मयाऽपि सर्वथा मोक्तव्य एव। तदेवं स्थिते निरीक्ष्य निरीक्ष्य कुमारयोरेन प्रति चेष्टितं यथोचितं करिष्यामीति विचिन्त्याभिहितं कर्मविलासेन-वत्सौ ! सुन्दरमनुष्ठितं भवद्भयां यदेष स्पर्शनः प्राणत्यागं विदधानो धारितो, मैत्रीकरणेन पुनः सुन्दरतरं, क्षीरखण्डयोगतुल्यो हि वत्सयोरनयोः सार्द्ध संबन्धः। ____ अकुशलमालया चिन्तितं--अहो मे धन्यता, भविष्यत्येतत्संबन्धेन मम यथार्थ नाम / यो ह्यस्य स्पर्शनस्यानुकूलः स ममात्यन्तवल्लभः स एव च मां वर्द्धयति, पालयति मदीयस्नेहफलं चानुमवति नेतरः, बहुशोऽनुभूतपूर्वमेतन्मया, एष च मदीयसू नुरेनं प्रति मुखरागेण गाढमनुकूलो लक्ष्यते ततो भविष्यति मे मनोरथपूर्तिरिति विचिन्त्य तया बालं प्रत्यभिहितं---वत्स ! सुन्दरमनुष्ठितं, अवियोगो भवतु भवतः सुमित्रेणेति / शुभसुन्दर्या चिन्तितं--न सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः,