________________ मन्दभाग्यतया दृष्टस्तेन सदागमो नाम पुरुषः / पर्यालोचितं च सह तेन किश्चिदेकान्ते भवजन्तुना भावितचित्तेन हृष्ट इव लक्ष्यते / ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि स्नेहवन्धः / न करोति तथा लालनां, न दर्शयत्यात्मबुद्धिं, न प्रवर्त्तते मदुपदेशेन, न मम वार्तामपि प्रश्नयति प्रत्युत मां वैरिकमेव मन्यते, दर्शयति विप्रियाणि, सकलं प्रतिकूलमासेवते / ततो मया चिन्तितंहा हन्त किमेतत् ? न मया किश्चिदस्य व्यलीकमाचरितं, किमित्ययमकाण्ड एव भवजन्तुः षष्ठिकापरावर्तित इवान्यथा संवृत्तः / हा हतोऽस्मि मन्दभाग्य इत्यारारटयमानो वज्राहत इव, पिष्ट इव, हृतसर्वस्व इव, शोकभराक्रान्तमूर्तिः प्राप्तोऽहं दुःखातिरेकम् / लक्षितं च कथञ्चित्पर्यालोचयता मयाअये ! सर्वोऽप्ययं सदागमपर्यालोचजनितोऽनर्थव्यतिकरो, विप्रतारितोऽयं मम वयस्योऽनेन पापेन, स चोन्मूलयभिव मम हृदयं पुनः पुनस्तेन सदागमेन सह रहसि पर्यालोचयति, तनिवारणार्थ रटन्तमपि मां नाकर्णयति, यथा यथा च भवजन्तोः सदागमपर्यालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति, ततः प्रवर्द्धते मे गाढतरं दुःखम् / अन्यदा दृढतरं पर्यालोच्य सदागमेन सह किश्चिदेकान्ते त्रोटितो मया सह संबन्धः सर्वथैव भवजन्तुना / परिच्छिन्नोऽहं चित्तेन, त्यक्तानि मम वल्लभानि तद्वचनेनैव गृहीतानि यानि पूर्व कोमलतूलीगण्डोपधानादिसनाथानि शयनानि, विरहितानि हंसपक्ष्मादिपूरितान्यासनानि, मुक्तानि बृहतिकापावाररल्लिकाचीनांशुकपट्टाशुकादीनि कोमलवस्त्राणि, प्रत्याख्यातानि मम सुखदायीनि शीतोष्णर्तुप्रतिकूलतया सेव्यानि कस्तूरिकागुरुचन्दनादीनि विलेपनानि, वर्जितः सर्वथा ममाहादातिरेकसंपादकः कोमलतनुलताकलितो ललनासंघातः। ततःप्रभृति स भवजन्तुः करोति केशोत्पाटनं, शेते कठिनभूमौ, धारयति शरीरे मलं, परिधत्ते जरचीवराणि, वर्जयति दूरतः स्वीगात्रसङ्गं, कथञ्चिदापने तस्मिन्करोति प्रायश्चित्तं, सहते माघमासे शीतं, गृह्णाति ज्येष्ठाषाढयोरातपं सर्वथा परमवैरिक इव यद्यत्किश्चिन्मे प्रतिकूलं तत्सर्वमाचरति / ततो मया चिन्तितं-परित्यक्तस्तावत्सर्वथाऽहमनेन, गृहीतश्च शत्रुबुद्धया, तथाप्यामरणान्ताः प्रणयाः सज्जनानामिति वृद्धवादः, ततो यद्यप्ययमनेन सदागमपापमित्रेण विप्रतारितो मामेवं कदर्थयति तथाऽप्यकाण्ड एव न मया मोक्तव्यो, यतो भद्रकोऽयं ममात्मीयप्रकृत्या लक्षितो बहुना कालेन, कृतानि भूयांसि ममानुकूलानि, सदागममेलकजनितोऽयमस्य विपर्यासः, तत्कदाचिदपगच्छत्येष कालेन, ततो भविष्यति ममोपरि पूर्ववदस्य स्नेहभावः / एवं पर्यालोच्य व्यवस्थितोऽहं बहिष्कृतोऽपि तेन भवजन्तुना तस्यैव सम्बन्धिनि शरीराभिधाने प्रासादे महादुःखानुभवेन कालमुदीक्षमाणो दुराशापाशावपाशितः सन् कियन्तमपि कालमिति / अन्यदा सदागमवचनमनुवर्तमानस्तिरस्कृत्य मां पुरुषक्रियया निष्कास्य ततोऽपि प्रासादात्परमाधार्मिक इव निघृणतया मामाक्रन्दन्तं अवगणय्य रुष्ट इव तत्र यास्यामि यत्र भवन्तं लोचनाभ्यां न द्रक्ष्यामीत्यभिधाय गतः कुत्रचित् / स चेदानी निवृतौ नगर्यो प्राप्तः श्रूयते, सा च मादृशामगम्या नगरी, ततो मया चिन्तितं--किमधुना मम प्रियमित्रपरिभूतेन तद्विरहितेनाजागलस्तनकल्पेन जीवितेन ? ततश्चेदमध्यवसितमिति / बालस्य आ- बालेनाभिहितं—साधु स्पर्शन ! साधु, स्थाने भवतो व्यवसायः, दुःसहं हि प्रियमित्रपरिभवदुःख, श्वासनप्र- तद्विरहसन्तापश्च न शक्यतेऽन्यथा यापयितुम् / तथाहि न शक्यः सहजात्सोड, क्षमिणाऽपि पराभवः / कनकेन हि निर्मुक्तः, पाषाणोऽपि प्रलीयते॥१॥ दान