________________ अत्रान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयन्नाडिकाच्छेदप्रहतपटहनादानुसारी समुत्थितः शङ्खशब्दः, पठितं कालनिवेदकेन / न क्रोधात्तेजसो वृद्धिः, किंतु मध्यस्थभावतः / दर्शयन्निति लोकानां, सूर्यो मध्यस्थतां गतः // 1 // तातेनाभिहितं-अये ! मध्याह्नसमयो वर्तते, ततः समुत्थातव्यमिदानीमितिकृत्वा विसर्जितो राजलोकः, पूजितौ कलाचार्यनैमित्तिकौ, प्रस्थापितौ सबहुमानं, ततो नैमित्तिकवचनादशक्यानुष्ठानमेतदिति जातनिर्णयेनापि तातेन मोहहेतुतयाऽपत्यस्नेहस्य समादिष्टो विदुरः यदुत परीक्षितव्यो भवता कुमाराभिप्रायः, किं शक्यतेऽस्मात्पापमित्राद्वियोजयितुं कुमारो न वेति ? विदुरेणाभिहितं यदाज्ञापयति देवः / ततः समुत्थितस्तातः, कृतं दिवसोचितं कर्त्तव्यं, द्वितीयदिने समागतो मम समीपे विदुरो, विहितप्रणामो निषण्णो मदन्तिके / पृष्टो मया-भद्र ! ह्यः किनागतोऽसि ? विदुरेण चिन्तितं-अये ! समादिष्टस्तावदहं देवेन, यथा लक्षयितव्यो भवता कुमाराभिप्रायः, ततोऽहमस्मै यत् तस्मात्साधोः सकाशादाकर्णितमासीन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्कथयामि, ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिः, इत्येवं विचिन्त्य विदुरेणाभिहितं-कुमार ! किश्चिद्दाक्षण्यमभूत् / मयाऽभिहितं-कीदृशं ? विदुरेणाभिहितं-कथानकमाकर्णितम् / मयाऽभिहितं-वर्णय कीदृशं तत्कथानकं ? विदुरेणाभिहितं-वर्णयामि, केवलमवहितेन श्रोतव्यं कुमारेण / मयाऽभिहितं--एष दत्तावधानोऽस्मि / . विदुरेणाभिहितं-अस्त्यस्यामेव मनुजगतौ नगर्यामस्मिदेव भरताभिधाने पाटके क्षितिप्रतिष्ठितं नाम नगरम् / तत्रास्ति वीयनिधानभूतः कर्मविलासो नाम राजा / तस्य च द्वे अग्रमहिष्यौ, शुभसुन्दरी अकुशलमाला च / तत्र शुभसुन्दर्याः पुत्रोऽस्ति मनीषी नाम, बालोऽकुशलमालायाः / तौ च मनीषिवालौ संप्राप्तकुमारभावी नानाकारेषु काननादिषु क्रीडारसमनभवन्तौ यथेष्टचेष्टया विचरतः / अन्यदा स्वदेहाभिधाने कानने नातिदूरादेव दृष्टस्ताभ्यां कश्चित्पुरुषः / स च तयोः पश्यतोरेव समारूढस्तदुच्छ्रयाभिधानं वल्मीकं, निबद्धस्तेन मूर्द्धनामकतरुशाखायां पाशको निर्मितः शिरोधरायां प्रवाहितश्चात्मा, ततो मा साहसं मा साहसमिति वदन्तौ प्राप्तौ ससंभ्रमं तत्समीपं कुमारी, छिन्नः पाशको बालेन, ततः संमोहविह्वलो भग्नलोचनश्च पतितोऽसौ पुरुषो भूतले, समाहादितो वायुदानेन कुमाराभ्यां, लब्धा चेतना, उन्मीलिते लोचने, निरीक्षिता दिशो दृष्टौ कुमारौ / अभिहितस्ताभ्यां--भद्र ! किमेतदधमपुरुषोचितं भवता व्यवसितं ? किं वा भद्रस्येदृशाध्यवसायस्य कारणमिति कथयतु भद्रो यद्यनाख्येयं न भवति / ततो दीर्घदीर्घ निःश्वस्य पुरुषेणाभिहितं-अलमस्मदीयकथया, न सुन्दरमनुष्ठितं भद्राभ्यां यदहमात्मदुःखानलं निर्वापयितुकामो भवदभ्यां धारितः, तदधुनापि न कर्त्तव्यो मे विघ्न इति ब्रुवाणः समुत्थितः पुनरात्मानमुल्लम्बयितमसौ पुरुषो, धृतो बालेन, अभिहितश्च--भद्र ! कथय तावदस्माकमुपरोधेन स्ववृत्तान्तं ततो यद्यलब्धप्रतीकारः स्यास्ततो यदुचितं तत्कुर्याः / पुरुषेणाभिहितं--यदि निर्बन्धस्ततः श्रूयतांआसीन्मम शरीरमिव, सर्वस्वमिव, जीवितमिव, हृदयमिव द्वितीयं भवजन्तु म मित्रम् / स चातिस्नेहनिर्भरतया न क्षणमात्रमपि मां विरहयति / किं तर्हि ?, सकलकालं मामेव लालयति. पालयति, पृच्छति च मां क्षणे क्षणे यदुत भद्र स्पर्शन ! किं तुभ्यं रोचते ? ततो यद्यदहं वदामि तत्तदसौ भवजन्तुर्मम वयस्यो वत्सलतया संपादयति न कदाचिन्मत्प्रतिकूलं विधत्ते / अन्यदा मम