________________ कन्यातत्त्व कर्ण्य तातेनावलोकितं पाचवर्तिनो मतिधनस्य महामन्त्रिणो वदनं, स्थितोऽसौ प्रहतरः, अभिहितस्तातेन-आर्य ! मतिधन ! श्रुतमेतद्भवता ? मतिधनेनाभिहित-देव! श्रुतम् / तातेनाभिहितं-आर्य ! यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं, यद्येप विशिष्टजनस्पृहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदृषितो निष्फल: संपन्न इति / तद् गच्छ, शीघ्रं प्रेषय चित्तसौन्दर्ये वचनविन्यासकुशलान् प्रधानमहत्तमान् , ग्राहय तदेशासम्भवीनि प्राभृतानि इति, उपदिश गच्छतां तेषां निरन्तरसम्बन्धकरणपटून्युपचारवचनानि, याचय कुमारार्थ शुभपरिणाम शान्तिदारिकामिति / मतिधनेनाभिहितंयदाज्ञापयति देव इति निर्गन्तुं प्रवृत्तो मतिधनः। __ जिनमतज्ञेनाभिहितं-महाराज! अलमनेनारम्भेण, खल्वेवंविधगमनयोग्यंतनगरं, तातेनाभिहितंआर्य ! कथं?, जिनमतज्ञेनाभिहितं-महाराज! समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादीनि वस्तूनि द्विविधानि भवन्ति, तद्यथा-अन्तरङ्गाणि बहिरङ्गाणि च / तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारो नान्तरङ्गेषु / एतच्च नगरं राजा तत्पत्नी दुहिता च सर्वमन्तरङ्गं वत्तते, तन्न युज्यते तत्र महत्तमप्रेषणम् / तातेनाभिहितं-आर्य ! कः पुनस्तत्र प्रभवति ? जिनमतज्ञेनाभिहित-योऽन्तरङ्ग एव राजा ।तातेनाभिहितं-आर्य! कः पुनरसौ ? जिनमतज्ञेनाभिहित-महाराज! कर्मपरिणामः / तस्य हि शुभपरिणामस्य कर्मपरिणामेनैव भटभुक्त्या दत्तं तन्नगरम् / अतस्तदायत्तोऽसौ वर्त्तते / तातेनाभिहितं-आर्य ! किं भवत्यसौ कर्मपरिणामो मादृशामभ्यर्थनाविषयः ? जिनमतज्ञेनाभिहितं-महाराज ! नैतदेवं, स हि यथेष्टकारी प्रायेण नापेक्षते सत्पुरुषाभ्यर्थनां, न रज्यते सदुपचारवचनेन, न गृह्यते परोपरोधेन, नानुकम्पते दृष्ट्वाऽप्यापद्गतं जनं केवलमसावपि कार्य विदधानः पृच्छति महत्तमभगिनीं लोकस्थिति, पर्यालोचयति स्वभाया कालपरिणति, कथयत्यात्मीयमहत्तमाय स्वभावाय, अनुवर्तते अस्यैव नन्दिवर्द्धनकुमारस्य समस्तभवान्तरानुयायिनीं प्रच्छन्नरूपा भाया भवितव्यतां, बिभेति कियन्मानं नन्दिवर्द्धनकुमारो वीर्यादपि स्वप्रवृत्तौ / ततश्चैवंविधमन्तरङ्गपरिजनं स्वसंभावनया सम्मान्य एष कर्मपरिणाममहाराजः कार्य कुर्वाणो न बहिरङ्गलोकं स्टन्तमपि गणयति, किं तर्हि ? यदात्मने रोचते तदेव विधत्ते, तस्मानायमभ्यर्थनोचितः, किंतु यदाऽस्य प्रतिभासिष्यते तदा स्वयमेव कुमाराय दापयिष्यति शुभपरिणामेन शान्तिदारिकामिात / तातेनाभिहितं- आर्य ! हतास्तर्हि वयं, यतो न ज्ञायते कदाचित्त(दा त)स्य प्रतिभासिष्यते, अस्मिंश्चानपसारिते पापमित्रे कुमारस्य समस्तगुणविफलतया न किञ्चिदस्माकं जीवतीतिकृत्वा / जिनमतज्ञेनाभिहितं-महाराजालं विषादेन, किमत्र क्रियते ? यदीदृशमेवेदं प्रयोजनमिति / / तथाहि-नरः प्रमादी शक्येऽर्थे, स्यादुपालम्भभाजनम् / अशक्यवस्तुविषये, पुरुषो नापराध्यति // 1 // अपि च-योऽशक्येऽर्थे प्रवर्त्तत, अनपेक्ष्य बलाबलम् / आत्मनश्च परेषां च, स हास्यः स्याद्विपश्चिताम्॥२॥ तदत्रैवं स्थिते कार्ये, यद्भविष्यत्तया परम् / भवतां त्यक्तचिन्तानामासितुं युज्यते ध्रुवम् // 3 // अन्यच्च कथ्यते किश्चिच्चेतसः स्वास्थ्यकारणम् / निरालम्बनतामेत्य, मा भूदैन्यं भवादृशाम् // 4 // तातेनाभिहितं-आर्य ! साधूक्तं, समाश्वासिता वयमनेन भवता पश्चिमवचनेन तत्कथय किं तदस्माकं चेतसः स्वास्थ्यकारणमिति / जिनमतज्ञेनाभिहितं-महाराज ! अस्त्यस्य कुमारस्य प्रच्छन्नरूपः पुण्योदयो नाम वयस्यः, स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमनर्थ कुमारस्य संपादयिष्यति स सोऽस्य प्रत्युतार्थरूपतया पर्यवस्यतीति / तदाकर्ण्य मनाक् स्वस्थीभूतस्तातः /