________________ किंचेह बहुनोक्तेन ? राज्ञः कार्यप्रसाधनी / तस्य राज्ये परं सारा, सा देवी निष्प्रकम्पता // 12 // तयोश्च निष्प्रकम्पताशुभपरिणामयोर्देवीनृपयोरस्ति प्रकर्षः सुन्दरीणां उत्पत्तिभूमिराश्चर्याणां मञ्जूषा गुणरत्नराशेः वपुलक्षण्येन मुनीनामपि मनोहारिणी क्षान्तिर्नाम दुहिता-- यतः सा सततानन्ददायिनी पर्युपासिता / स्मरणेनापि निःशेषदोषमोषविधायनी // 1 // निरीक्षते विशालाक्षी, यनरं किल लीलया / पण्डितैः स महात्मेतिकृत्वा गाढं प्रशस्यते // 2 // आलिङ्गनं पुनस्तस्या मन्ये यो लप्स्यते नरः। स सर्वनरवर्गस्य, चक्रवर्ती भविष्यति // 3 // अतश्चारुतरा तस्या, नान्या जगति विद्यते / प्रकर्षः सुन्दरीणां सा, विद्वद्भिस्तेन गीयते // 4 // सद्धयानकेवलज्ञानमहर्द्धिप्रशमादयः। लोकानामद्भुता भावा, ये चमत्कारकारिणः // 5 // ते भवन्ति भविष्यन्ति, भूताश्चानन्तशो यतः। तत्प्रसादेन सत्त्वानां, तामाराधयतां सताम् ॥६॥युग्मम् / उत्पत्तिभूमिः सा तस्मादाश्चर्याणामुदाहृता। यथा च रत्नमञ्जूषा, तथेदानीं निबोधत // 7 // दानशीलतपोज्ञानकुलरूपपराक्रमाः / सत्यशौचार्जवालोभवीर्यैश्वर्यादयो गुणाः // 8 // ये केचित्सुन्दरा लोके, वर्तन्ते रत्नरूपिणः / शान्तिरेव हि सर्वेषां, तेषामाधारतां गता // 9 // तेनासौ रत्नमञ्जूषा, विद्वद्भिः परिकीर्तिता। शान्तिहीना गुणाः सर्वे, न शोभन्ते निराश्रयाः॥१०॥ अथवा-शान्तिरेव महादानं, शान्तिरेव महातपः / शान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः // 11 // क्षान्तिरेव महाशीलं, शान्तिरेव महाकुलम् / शान्तिरेव महावीर्य, शान्तिरेव पराक्रमः // 12 // क्षान्तिरेव च सन्तोषः, क्षान्तिरिन्द्रियनिग्रहः / शान्तिरेव महाशौच, शान्तिरेव महादया // 13 // शान्तिरेव महारूपं, शान्तिरेव महाबलम् / शान्तिरेव महेश्वर्य. शान्तिधैर्यमदाहृता // 14 // शान्तिरेव परं ब्रह्म, सत्यं शान्तिः प्रकीर्तिता / शान्तिरेव परामुक्तिः, शान्तिः सर्वार्थसाधिका // 15 // शान्तिरेव जगद्वन्द्या, शान्तिरेव जगद्धिता / शान्तिरेव जगज्ज्येष्ठा, शान्तिः कल्याणदायिका // 16 // शान्ति रेव जगत्पूज्या, शान्तिः परममङ्गलम् / शान्तिरेवौषधं चारु, सर्वव्याधिनिबर्हणम् // 17 // शान्तिरेवारिनिर्माशं, चतुरङ्गमहाबलम् / किंचात्र बहुनोक्तेन ? क्षान्तौ सर्व प्रतिष्ठितम् // 18 // अत एव तु सा कन्या, मुनिलोकमनोहरा / कुर्यादीदृशरूपायां, को न चित्तं सचेतनः ? 19 // अन्यच्च-यस्य चित्तं समारोहेद्विलसन्ती स्वलीलया / सा कन्या धन्यतां प्राप्य, सोऽपि तद्रूपतां व्रजेत् // 20 // अतः सम्यग्गुणाकाङ्क्षी, कः सकोन तां हृदि ? कुर्यात्कन्यां सदाकालं, सर्वकामसमर्पिकाम्॥२१॥ एवंच स्थिते-सा गुणोत्कर्षयोगेन, कन्या सर्वाङ्गसुन्दरा।अस्य वैश्वानरस्योच्चैः, प्रतिपक्षतया स्थिता॥२२॥ तस्या दर्शनमात्रेण, भीतभीतः सुविह्वलः / एष वैश्वानरो मन्ये, दूरतः प्रपलायते // 23 // निःशेषदोपुञ्जोऽयं, सा कन्या गुणमन्दिरम् / साक्षादग्निरयं पापः, सा पुनर्हिमशीतला // 24 // सहावस्थानमेवं हि, नानयोर्विद्यते कचित् / विरोधभावात्तेनैवमस्माभिरभिधीयते // 25 // यदैव कन्यां तां धन्यां, कुमारः परिणेष्यति / अनेन पापमित्रेण, तदा मैत्री विहास्यति // 26 // अत्रान्तरे चिन्तितं विदुरेण-अये ! अनेन जिनमतज्ञेन नैमित्तिकेनेदमभिहित-यथा चित्तसौन्दर्ये यः शुभपरिणामः, तस्य या निष्प्रकम्पता, तजनिता या शान्तिः सैवामुं नन्दिवर्द्धनकुमारस्यानेन पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था, नान्यस्तनिवारणे कश्चिदुपाय इति) तत्सर्वमनेन युक्तमुक्तम् / अथवा किमत्राश्चर्य ? न हि जिनमतज्ञः कदाचिदयुक्तं भाषते / ततस्तन्निमित्तकवचनमा