________________ विपाको नाम पुरुषः / ततः प्रियसंभाषणपूर्वकं पृष्टोऽसौ मया-भद्र ! कथय किमस्य नरेन्द्रस्य प्रस्थानकारणं ? कुतूहलं मे, विपाकेनाभिहितं--आर्य ! यद्येवं ततः समाकर्णय / पूर्वमिह * कचिदवसरे मुगृहीतनामधेयेन देवेन रागकेसरिणाऽभिहितोऽमात्यो यदुत आर्य विषयाभिलाप ! तथा कथंचिद्विधेहि यथा मम समस्तमपि जगत् किङ्करतां प्रतिपद्यते, मन्त्रिणाऽभिहित-यदाज्ञापयति देवः, ततो नान्यः कश्चिदस्य राजादिष्टप्रयोजनस्य निर्वर्तनक्षम इति मनसि पर्यालोच्य किं चात्रान्येन साधनेन बहुना क्लेशितेन ?, साधयिष्यन्त्येतान्येवाचिन्त्यवीर्यतया प्रस्तुतप्रयोजनमिति संजातावष्टम्भेन मन्त्रिणा गाढमनुरक्तभक्तानि, विविधस्थानेषु नियूंढसाहसानि, स्वामिनि भृत्यतया लब्धजयपताकानि, जनहृदयाक्षेपकरणपटूनि, प्रत्यादेशः शूराणां, प्रकर्षश्चटुलानां, निकषभूमिः परवञ्चनचतुराणां, परमकाष्ठा. साहसिकानां, निदर्शनं दुर्दान्तानां आत्मीयान्येव स्पर्शनादीनि पञ्च गृहीतानि मानुषाणि प्रहितानि जगद्वशीकरणार्थम् / ततो मया चिन्तितं--अये ! लब्धं स्पर्शनस्य तावन्मूलोत्थानम् / विपाकेनाभिहितं-ततो वितते जगति विचरद्भिस्तैर्वशीकृतप्रायं भुवनं वर्तते, ग्राहितप्राय रागकेसरिणः किङ्करतां, केवलं महाशस्यसमुदायानामीतिविशेष इव तेषामुपद्रवकारी समुत्थितः श्रूयते किल कश्चित् सन्तोषो नाम चरटो, निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन, प्रवेशिताश्च देवभुक्तेरतिक्रान्तायां निवृतो नगर्यामिति च श्रूयते / ततो मया चिन्तितंव्यभिचरति मनागयमों, यतोऽस्माकं समक्षमेव मनीषिबालयोः स्पर्शनेन निवृतौ नगर्या भवजन्तोर्गमनं सदागमबलेनाख्यातं, अयं तु स्पर्शनादीन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताश्च निवृतौ नगर्यामिति कथयति, तत्कथमेतद् ? अथवा किमनयाऽकाण्डपर्यालोचनया ? अवहितस्तावदाकर्णयाम्यस्य वचनं, पश्चाद्विचारयिष्यामि / विपाकेनाभिहितं-ततोऽयमाप्तलोकश्रुतेराकणितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्यभिभवव्यतिकरः / ततोऽतिदुःसहमश्रुतपूर्व च स्वपदातिपरिभववचनमाकर्ण्य कोपानलजनितरक्तलोचनयुगलेन, विषमस्फुरिताधरेण, करालभृकुटिभङ्गकुण्डलीकृतललाटपट्टेनाबद्धनिरन्तरस्वेदबिन्दुना, निर्दयकराभिहतधरणीपृष्ठेन, प्रलयज्वलनभास्वरं रूपमाविभ्रताऽमर्षवशपरिस्खलद्वचनेन देवेन रागकेसरिणाऽऽज्ञापितः परिजनः--अरे त्वरितास्ताडयत प्रयाणकपटह, सज्जीकुरुत चतुरङ्ग बलम् / परिजनेनाभिहितं--यदाज्ञापयति देवः, ततस्तथा देवमायास्यमानमवलोक्य विषयाभिलाषेणाभिहितं--देव ! अलमावेगेन, कियानसौ वराकः सन्तोषः स्थानमादरस्य ? न खलु केसरी लीलादलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्तचित्तो भवति / देवेनाभिहितं--सखे ! सत्यमिदं, केवलं युष्मन्मानुषकदर्थनां कुर्वता दृढमुद्वेजितास्तेन पापेन सन्तोषेण, न खलु तमनुन्मूल्य मम मनसः सुखासिका संपद्यते / मन्त्रिणाऽभिहितं--देव ! स्तोकमेतत् , मुच्यतां संरम्भः, ततस्तद्वचनेन मनाक् स्वस्थीभूतो देवः, कृतमशेषं गमनोचितं, . स्थापितः पुरतः स्नेहसलिलपूर्णः प्रेमाबन्घाख्यः कनककलशः उद्घोषितः केलिजल्पनामको जयजय शब्दः, गीतानि चाटुवचनादीनि मङ्गलानि प्रहतं रतिकलहनामकमुद्दामातोद्यवृन्द, निवर्तितान्यङ्गरागभूपणादीनि समस्तकौतुकानि, प्रवृत्तो रथावरोहणार्थ देवः / अत्रान्तरे स्मृतमनेन--अये ! न दृष्टोऽद्यापि मया तातः, अहो मे प्रमत्तता, अहो मे दुर्विनीतता, अहो मे तुच्छत्वेन स्वल्पप्रयो जनेऽपि पर्याकुलता यत्तातपादवन्दनमपि विस्मृतमिति / ततो निवृत्त्य चलितस्तदर्शनार्थ देवः / महामोहमहिमा ... मयाऽभिहितं-भद्र ! कः पुनरस्य तातः ?.. ततो विपाकेनाभिहितं-आर्य ! अतिमुग्धोऽसि,