________________ घमः च्छामि / तच्च युक्तमयुक्तं [अतोऽर्हसि शक्तुमसाधुसाधु ] वा क्षन्तुमर्हति देवो, यतो यथार्थ मनोहरं च दुर्लभं वचनम् / तातेनाभिहितं-वदत्वार्यः, यथावस्थितवचने कोऽवसरोऽक्षमायाः?, बुद्धिसमुद्रेणोक्तंयद्येवं ततो यदादिष्टं देवेन यथा सकलगुणभाजनतां संप्राप्तः कुमार इति तथैव स्वाभाविकं कुमारस्य स्वरूपं प्रतीत्य नास्त्यत्र सन्देहः, किन्तु सकलमपि कुमारस्य गुणसन्दोहं कलकेनेव शशधरं, कण्टकेनेव तामरसं, कार्पण्येनेव वित्तनिचयं, नैलज्ज्येनेव स्त्रीजनं, भीरुत्वेनेव पुरुषवर्ग, परोपतापेनेव धर्म, वैश्वानरसंपर्केण दूषितमहमवगच्छामि / यतः सकलस्यापि कलाकलापकौशलस्य प्रशमोऽलङ्करणम् / एष तु वैश्वानरः पापमित्रतया सन्निहितः सन्नात्मीयसामर्थ्येन तं प्रशमं कुमारस्य नाशयति / कुमारस्तु महामोहवशात्परमार्थवैरिणमप्येनं वैश्वानरं परमोपकारिणमाकलयति, तदनेनेदृशेन पापमित्रेण यस्य प्रतिहतं ज्ञानसारं प्रशमामृतं कुमारस्य तस्य निष्फलो गुणप्राग्भार इति / वैश्वानर- ततस्तदाकर्ण्य तातो वजाहत इव गृहीतो महादुःखेन, ततस्तातेनाभिहितं-भद्र ! मैत्रीत्यागो वेदक ! परित्यजेदं चन्दनरससेकशीतलं तालवृन्तं, न मामेष बहिस्तापो बाधते। गच्छ, समाह्वय कुमारं, येनापनयामि तस्य पापमित्रसंसर्गवारणेन दुःसहमात्मनोऽन्तस्तापमिति / ततो विमुच्य तालवृन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहित- यदाज्ञापयति देवः, किन्तु महाप्रयोजनमपेक्ष्य भविष्याम्यहमस्थापितमहत्तमः, ततो न तत्र देवेन कोपः करणीयः। तातेनाभिहितं-भद्र ! हितभाषिणि कः कोपावसरः ?, वदतु विवक्षितं भद्रः / वेदकेनाभिहितं-देव ! यद्येवं ततः कुमारपरिचयादेवावधारितमिदं मया यदुतायं वैश्वानरोऽन्तरङ्गभूतः कुमारस्य वयस्यो, न शक्योऽधुना केनाप्यपसारयितुं, गृहीतः कुमारेणात्यर्थ हितबन्धुबुद्धया, न शक्नोति तद्विरहे क्षणमप्यासितुं कुमारः, यतो न लभते धृति, गृह्यते रणरणकेन, मन्यते तृणतुल्यमनेन रहितमात्मानं, ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति किश्चिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्वेग, कुर्यात् आत्मघातादिकं वा, विदध्यात् अन्यद्वा किश्चिदकाण्ड विड्वरमनर्थान्तरं संपादयेदित्यतो नात्रार्थे किंचिद्वक्तुं कुमारमर्हति देवः / बुद्धिसमुद्रणोक्त-देव ! सत्यमेव सर्वमिदं यदावेदितं वेदकेन, तदाहि वयमपि कुमारस्य पापमित्रसंवन्धवारणे गाढमुद्यक्ताः सकलकालमास्महे, चिन्तितं चास्माभिः--यद्ययं कुमारोऽनेन वैश्वानरपापमित्रेण वियुज्येत ततः सत्यं नन्दिवर्दनः स्यात. केवलमीदृशं कथञ्चिदनयोर्गादनिरूढं प्रेम येन न शक्यतेऽधना कुमारी ऽनर्थभीरुतया वियोजनं विधातुमित्यतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण सह मैत्रीवारणमिति मन्यामहे। तातेनाभिहितम्-आर्य! कः पुनरत्रोपायो भविष्यति? बुद्धिसमुद्रेणोक्तम्-अतिगहनमेतत्, वयमपि न जानीमो / विदुरेणाभिहितम्-देव ! श्रूयतेऽत्र कश्चिदतीतानागतवर्तमानपदार्थवेदी समागतो जिनमतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः, स कदाचिदत्रोपायं लक्षयति / तातेनाभिहितं--साध्वभिहितं भद्र ! साधु, शीघ्रं समाहूयतां स भवता / विदुरेणाभिहितं यदाज्ञापयति देव इति / निर्गतो विदुरः, समागतो नैमित्तिकेन सह स्तोकवेलया, दृष्टो नैमित्तिकस्तातेन, तुष्टश्चेतसा, दापितमासनं, कृतमुचितकरणीयं, कथितो व्यतिकरः, ततो बुद्धिनाडीसंचारेण निरूप्य तेनाभिहितं-महाराज! न विद्यतेऽत्रान्यः कश्चिदुपायः एक एवात्र परमुपायो विद्यते, दुर्लभश्चासौ प्रायेण / तातेनाभिहित-कीदृशः स इति कथयत्वार्यः / जितमतज्ञेनाभिहितं-महाराजाकर्णय। अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां न्यावृत्तिः कारणं कल्याणपरम्पराया दुर्लभं मन्दभागधेयश्चित्तसौन्दर्य नाम नगरं, तथाहि वसतां तत्र लोकानां, नगरे पुण्यकर्मणाम् / रागादिचरटाः सर्वे, जायन्ते नैव बाधकाः // 1 // शान्तिक