________________ यथेष्टं दीर्घतरं चायुष्क, तस्माद् गृहाण त्वमेतानि अत्रान्तरे लघुध्वनिना कक्षान्तरस्थितेन / केनाप्यभिडि तम्-भविष्यति तवाभिमते स्थाने, कोऽत्र सन्देहः ? न श्रुतं तन्मया श्रुतं वैश्वानरेण, ततः संपत्स्यते मम समीहित, यास्यत्येष वटकोपयोगेन महानरके, भविष्यति तत्र गतस्यास्य दीर्घतरमायुष्कं कथमन्यथैवंविधा शब्दो ? महानरक एव ममाभिहितं स्थानमितिभावनया तुष्टोऽसौ चित्तेन / मयाऽभिहित-किन संपद्यते मे भवाशि वरमित्रेऽनुकूले ? तदाकर्ण्य द्विगुणतरं परितुष्टोऽसौ, समर्पितानि वटकानि, गृहीतानि मया। अभिहित च तेन कुमार ! अयमपरो मम प्रसादो विधेयः कुमारेण यदुत मयाऽवसरे संज्ञितेन निविकल्पमेतेषां मध्यादेकं वटकं भक्षितव्य कुमारेणेति / मयाऽ भिहितं-किमत्र प्रार्थनया ? निवेदित एवायमात्मा वरमित्रस्य / वैश्वानरेणाभिहितम्-महाप्रसादोऽनुगृही तोऽहं कुमारेणेति। पितुश्चिन्ता ___इतश्च तातेन सर्वत्र विश्वसनीयो नियुक्तो राजवल्लभो दारकः, यदुत अरे विदुर समादिष्टो मया कुमारः यथाऽनन्यमनस्केन भवता कलाग्रहण विधेयम् / अहमपि न द्रष्टव्यः, अहमे भवन्तमागत्य द्रक्ष्यामि / तदेवं स्थिते मम राज्यकार्यव्याकुलतया कदाचित्तत्समीपे गमनं न संपद्यते ततो भवता प्रतिदिनं कुमारशरीरवार्ता मम संपादनीया। विदुरेणोक्त-यदाज्ञापयति देवः / ततः संपादयत तेन तद्राजशासन लक्षितः स सर्वोऽपि मदीयो राजदारककलाचार्यकदर्थनव्यतिकरः तथापि मनःक्षति भयेन कियन्तमपि कालं न कथितोऽसौ ताताय / अतिभरमवलोक्य निवेदितोऽन्यदा ततश्चिन्तिर तातेन, नैष विदुरस्तावदसत्यं भाषते, न चापि कुमारः प्रायेणैवंविधमाचरति, तकिमत्र तत्त्वं भविष्य तीति न जानीमहे / यदि च कलाचार्यस्यापि कदर्थनं विधत्ते कुमारो निष्पन तत; कलाग्रहणप्रयो जनमिति चिन्तया समुद्विग्नोऽभूत्तातश्चित्तेन / पुनश्चिन्तितमनेनेदम्-अत्र प्राप्तकाल पृच्छामि तावत्कला चार्यमेव यथावस्थितम् / ततो निश्चित्य वृत्तान्तं तनिवारणोपाये यनं करिष्यामि। वाला ततः प्रेषितस्तदाकारणाय सबहुमानं विदुरः। समागतः कलाचार्यः, अभ्युत्थितस्तातेन, स्यागमनं दापितमासनं, विहिता परिचर्या, ततस्तदनुज्ञातविष्टरोपविष्टेन तातेनाभिहित-आर्य बुद्धिसमुद्र ! अपि निवेदनञ्च समुत्सर्पति कलाग्रहणं कुमाराणाम् / तेनाभिहितं--देव ? ३वाढमुत्सर्पति युष्मदनुभावेन, तातेनाभिहितं-किं परिणताः काश्चिनन्दिवर्द्धनकुमारस्य कलाः ? कलाचार्येणाभिहित-सुष्ठु परिणताः, देव ! निष्पन्न एवं कलासु नन्दिवर्द्धनकुमारः, तथाहि-स्वीकृतमनेन समस्तमपि लिपिज्ञानं स्वयंपृष्टमिव, गणितं, उत्पादितमिवात्मना व्याकरणं, क्षेत्रीभूतमस्य ज्योतिष, सात्मीभूतमष्टाङ्गमहानिमित्तं, व्याख्यातमन्येभ्यश्छन्दोऽनेन अभ्यस्तं नृत्तं, शिक्षितं गेयं, प्रणयिनीवास्य हस्तशिक्षा, वयस्य इव धनुर्वेदः, मित्रमिव वैद्यकं, निर्देशकारीव धातुवादः, अनुचराणीव नरलक्षणादीनि आधेयविक्रेयाणि पत्रच्छेद्यादीनि, किं बहुना ? नास्ति सा काचित्कला या कुमारमासाद्य न प्राप्ता परां काष्ठामिति / " पितुरानन्दः ततः प्रादुर्भवदानन्दोदकपरिपूरितनयनयुगलेनाभिहितं तातेन-आर्य ! एवमेतत् , किमत्राश्चर्यम् ? बुद्धिसमुद्रः किं वाऽऽर्ये कृतोद्योगे न संपद्यते कुमारस्य ?, धन्यः कुमारो यस्य युष्मादृशा गुरवः / बुद्धिसमुद्रेणोक्तंस्य च देव ! मा मैवमादिश, केऽत्र वयं ?, युष्मदनुभावोऽयम् / तातेनाभिहितं-आर्य ! किमनेनोपचारवचसा ? तनयसा युष्मत्प्रसादेनैवास्मदानन्दसन्दर्भदायिकां संप्राप्तः कुमारः सकलगुणभाजनताम् / बुद्धिसमुद्रेणोक्तं यद्येवं दोषवार्ता ततो देव ! कर्तव्येषु नियुक्तैरनुचरैन वश्चनीयाः स्वामिन इति पयालोचनया किश्चिद्देवं विज्ञापयितुमि३ गाढ०प्र०