________________ प्रागेव तस्य कलाचार्यस्य / ततस्तैः सार्द्धमहं प्रवृत्तः कलाग्रहणं कर्तुं, ततः संपूर्णतया सर्वोपकरणानां, गुरुतया तातोत्साहस्य, हिततया कलाचार्यस्य, निश्चिन्ततया कुमारभावस्य, सन्निहिततया पुण्योदयस्योत्कटतया क्षयोपशमस्यानुकूलतया तदा भवितव्यताया, अनन्यहृदयतया मया गृहीतप्रायः स्वल्पकालेनैव सकलोऽपि कलाकलापः / ___ केवलमतिवल्लभतया सदा सन्निहितोऽसौ वश्वानरः, सनिमित्तमनिमित्तं वा करोति मम समालिङ्गनं, ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशं, न गणयामि कुलकलङ्क, न बिभेमि तातमनःखेदस्य, न लक्षयामि परमार्थ, न जानाम्यात्मनोऽन्तस्तापं, न वेनि कलाभ्यासनिरर्थकत्वं, किन्तु तमेव वैश्वानरमेकं प्रियं कृत्वा तदुपदेशेन गलत्स्वेदबिन्दूरक्तीकृतलोचनो भग्नभृकुटिः करोमि समस्तदारकैः सह कलहं, विदधामि सर्वेषां मम्मोद्घट्टनं, उच्चारयाम्यसभ्यवचनानि / न क्षमे तेषां मध्यस्थमपि वचनं, ताडयामि प्रत्येकं यथासन्निहितेन फलकादिना, ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन त्रस्तमानसाः सन्तो वदन्त्यनुकूलं, कुर्वन्ति चाटूनि, आराधयन्ति मां पादपतनैः, किं बहुना ? मदीयगन्धेनापि ते वीर्यवन्तोऽपि राजदारका नागदमनीहतप्रतापा इव विषधरा न स्वतन्त्रं चेष्टन्ते / ततस्ते समुद्विग्नाः कम्पमाना बन्धनागारगता इव महादुःखेन जननीजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति / न कथयन्ति तं व्यतिकरं कलाचार्याय, मा भूत्सर्वेषां प्रलय इति भावनया। तथापि नित्यसनिहितत्वाल्लक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्यः, केवलं दारकेषु दृष्टविपाकतया भयेन त्रस्तहृदयोऽसावपि न मम संमुखमपि शिक्षणार्थ निरीक्षते, यदि पुनरन्यव्यपदेशेनापि मां प्रत्येष किश्चिद् ब्रूयात् ततोऽहमेनमपि कलाचार्यमाक्रोशामि ताडयामि च, ततोऽसावपि मम राजदारकवद्वर्त्तते / ततो महामोहदोषेण मया चिन्तितं-अहो मे वरमित्रस्य माहात्म्यातिशयः, अहो हितकारिता, अहो कौशल, अहो वत्सलता, अहो स्थिरानुरागः यदेष समालिङ्गनद्वारेण मम सवीर्यतां संपाद्य मामेवं सर्वत्राप्रतिहताशं जनयति, न च मां क्षणमपि मुञ्चतीति / तदेष मे परमो बन्धुरेष परमं शरीरमेष मे सर्वस्वमेष जीवितमेष एव मे परं तत्त्वमिति / अनेन रहितः पुरुषोऽकिश्चित्करतया तृणपुरुषान्न विशिष्यते / ततश्चैवंविधभावनया संजातो मम वैश्वानरस्योपरि स्थिरतानुरागः। अन्यदा रहसि प्रवृत्ते तेन सह विश्रम्भजल्पे मयाऽभिहित-वरमित्र ! किमनेन (मत्र ) बहुना जल्पितेन ? युष्मदायत्ता मम प्राणाः तदेते भवता यथेष्टं नियोजनीया इति / ततश्चिन्तितं वैश्वानरेण-अये ! सफलो मे परिश्रमो यदेष मम वशवर्ती वर्त्तते, दर्शितोऽनेनैवं वदता निर्भरोऽनुरागः, अनुरक्ताश्च प्राणिनः समाकर्णयन्ति वचनं, गृह्णन्ति निर्विकल्पं, प्रवर्तन्ते तत्र भावेन संपादयन्ति क्रियया / तदिदमत्र प्राप्तकालमिति विचिन्त्य तेनाभिहितं-कुमार ! एवमेतत्, कः खल्वत्र सन्देहः ? यच्च गृहीतहदयसद्भावानामपि मादृशां पुरतः कुमारोऽप्येवं मन्त्रयति महाप्रसादोऽत्र कारण, स हि हर्षोत्कर्षात्ज्ञातार्थमपि वाक्यं बलाद्भाणयति, तत्किमनेन ? करोमि कुमारस्याहमक्षयान् प्राणान्, एष एव मे तन्नियोगो / मयाऽभिहितं कथं ? तेनोक्तंजानाम्यहं किञ्चिद्रसायनम् / मयाऽभिहित-करोतु वरवयस्यः। तेनोक्त-यदाज्ञापयति कुमारः। ततः कृतानि तेन क्रूरचित्ताभिधानानि वट कानि, समुपनीतानि मे रहसि वर्तमानस्य / अभिहितश्चाहं-कुमार ! एतानि मदीयसामर्थ्यप्रभवानि वर्त्तन्ते वटकानि कुर्वन्त्युपयुज्यमानानि वीर्योत्कर्षसंपादनेन पुरुषस्य सर्व