________________ नर अविवेकता- विषमं लम्बमुदरं, कलितोऽन्तस्तापनामकेनातिसङ्कटेनोरःस्थलेन, युक्तः क्षारमत्सरसंज्ञाभ्यां विषमपरिपुत्रो वैश्वा- ह्रस्वाभ्यां बाहुभ्यां, विराजमानः क्रूरतारूपना वक्रया सुदीर्घया च शिरोधरया, विडम्ब्यमानोऽसभ्य भाषणादिरूपैर्वजितदन्तच्छदै विरलविरलैर्महद्भिर्दशनैः, विगोप्यमानश्चण्डत्वासहनत्वनामकाभ्यां शुषिरमावरूपाभ्यां कर्णाभ्यां उपहास्यस्थानं तामसभावसंज्ञया स्थानमात्रेण लक्ष्यमाणयाऽतिचिपिटया नासिकया, बिभ्रद्भासुरतां रौद्रत्वनृशंसत्वसंज्ञाभ्यामतिरक्ततया गुञ्जार्द्धसंनिभाभ्यां वर्तुलाभ्यां लोचनाभ्यां, विनाटयमानोऽनार्यचरणसंज्ञकेन महता त्रिकोणेन शिरसा, यथार्थीकुर्वाणो वैश्वानरतां परोपतापसंज्ञकेनातिपिङ्गलतया ज्वालाकलापकल्पेन केशभारेण दृष्टो वैश्वानरो ब्राह्मणदारक इति / ततोऽनादिपरिचयादाविर्भूतो मम तस्योपरि स्नेहः गृहीतो मित्रबुद्धया, न लक्षिता परमार्थशत्रुरूपता अविवेकितापुत्रोऽयमिति संपन्नाऽस्योपरि गाढमन्तरङ्गपरिजनतया हितकारी ममायमिति बुद्धिः। ततो लक्षितस्तेन मदीयो भावः-अये ! करोत्येष ममोपरि राजपुत्रः प्रीति तदेनमुपसर्पामि / ततः समागतो निकटे, समालिङ्गितोऽहं, दर्शितः स्नेहभावः, प्ररूढश्चावयोः प्रणयः, लग्ना मैत्री, ततो यत्र यत्र कचिदई संचरामि गृहे बहिश्च तत्र तत्र नासौ क्षणमपि मुश्चतीति / ततो रुष्टो निजचित्तमध्ये ममोपरि पुण्योदयो वैश्वानरेण सह मैत्रीकरणेन / चिन्तितं च तेन-अये! मम रिपुरेष वैश्वानरः, तथाप्येवमविशेषज्ञोऽयं नन्दिवर्दनो येन मामनरक्तमवधीर्यानेन समस्तदोषराशिरूपेणात्मनोऽपि परमार्थवैरिणा सह मैत्री करोति / अथवा किमत्राश्चर्य ? न लक्षयन्त्येव मढाः पापमित्रस्वरूपं, नावबध्यन्ते तत्सङ्गतेदुरन्ततां, न बहु मन्यन्ते तत्सङ्गनिवारकं सदुपदेष्टारं, परित्यजन्ति तत्कृते सन्मित्राणि, प्रतिपद्यन्ते तद्वशेन कुमार्गम् / ते हि यदि परं धावन्तोऽन्धा इव कुङ्यादौ गाढं स्फोटलाभेन पापमित्रसङ्गानिवर्तन्ते न परोपदेशेनेति / मूढश्चायं नन्दिवर्द्धनकुमारो योऽनेनापि सह साङ्गत्यं विधत्ते, तत्किं ममानेन निवारितेन ? निर्दिष्टश्चाहमस्य भवितव्यतया सहचरत्वेन, आवजितश्चाहमनेन करिरूपतायां वर्तमानेन वेदनासमुद्घातेऽपि निश्चलतया माध्यस्थ्यभावनया, तस्मादेव नन्दिवर्द्धनकुमारः पापमित्रसङ्गतिपरोऽपि नाकाप्ड एव मम तावन्मोक्तुं युक्त इति पालोच्यासौ पुण्योदयो रुष्टोऽपि मम पार्च तदा प्रच्छन्नरूपतया सदा तिष्ठत्येव, जाताश्चान्येऽपि बहिरङ्गा मम बहवो वयस्याः / ततस्तैः सार्द्धमनेकक्रीडाभिः क्रीडन्नहं प्रवर्द्धितुं प्रवृत्तः, प्रस्तुते ' च क्रीडने मत्तो महत्तमा अपि डिम्भाः प्रधानकुलजा अपि पराक्रमवन्तोऽपि मां वैश्वानराधिष्ठितमवलोक्य भयेन कम्पन्ते, गच्छन्ति च मम प्रणतिं, कुर्वन्ति चाटुकर्माणि, प्रतिपद्यन्ते पदातिभावं, धावन्ति पुरतो, न प्रतिकूलयन्ति मद्वचनम् / किं बहुना ? लिखितादपि मत्तो बिभ्यतीति / तस्य च सर्वस्यापि व्यतिकरस्याचिन्त्यमाहात्म्यतया प्रच्छन्नरूपोऽपि पुण्योदयः कारणं, मम तु महामोहवशात्तदा चेतसि परिस्फुरितं यदुत तदेते बृहत्तमा अपि डिम्भा ममैवं कुर्वाणा वर्तन्ते सोऽयमस्य वरमित्रस्य वैश्वानरस्य गुणः, यतोऽयं सन्निहितः सनात्मीयसामर्थ्येन वर्द्धयति मम तेजस्वितां, करोत्युत्साह, प्रोज्ज्वलयति बल, संपादयत्योजः, स्थिरीकरोति मनः, जनयति धीरतां, विधत्ते शौण्डीरतां, किं बहुना ? समस्तपुरुषगुणैर्मामेष योजयति / ततोऽनया भावनया संजातो वल्लभतरो मे वैश्वानरः, ततः संजातोऽहमष्टवार्षिकः, समुत्पन्ना पद्मनृपतेश्चिन्ता, 'ग्राह्यन्तामधुना कुमारः कला इति' / ततो निरूपितः प्रशस्तदिवसः, समाहूतः प्रधानः कलाचार्यः, पूजितोऽसौ विधिना, कृतमुचितकरणीयं, समर्पितोऽहं तस्य पित्रा महताऽऽदरेणेति / समर्पिताश्च मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः