SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः भवप्रपञ्चस्तिर्यक्षु, वर्तमानस्य देहिनः / एष प्रोक्तो मनुष्यत्वे, यत्स्यात्तदधुनोच्यते // 1 // संसारिजीव उवाच-ततोऽहं भद्रे ! अगृहीतसङ्केते ! समास्वादितैकभववेद्यगुटिकः प्रवृत्तो गन्तुम् / इतश्चास्त्यस्यामेव मनुजगतौ नगर्या भरताभिधानः पाटकः, तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगर, तत्र च महानृपतिगुणसंपदालिङ्गितमूत्तिः पनो नाम राजा, तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्रधानदेवी। ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया, स्थितस्तत्रोचितकालं, निर्गतः सह पुण्योदयेन, दृष्टो नन्दया, संपन्नस्तस्याः पुत्रो मम जात इत्यभिमानो, निवेदितः प्रमोदकुम्भाभिधानेन दासदारकेण नरपतये, प्रादुर्भूतः सुतो मे इति समुत्पन्नस्तस्याप्यनुशयः१, हर्षविशेषादुल्लसितो गात्रेषु पुलकोझेदः, दापितं निवेदकदारकाय पारितोषिकं, समादिष्टो मज्जन्ममहोत्सवः। ततो दीयन्ते महादानानि, मुच्यन्ते बन्धनानि, पूज्यन्ते नगरदेवताः, क्रियन्ते हट्टद्वारशोभाः२, शोध्यन्ते राजमार्गाः, आहन्यन्ते आनन्दभेर्यः, आगच्छन्ति विशेषोज्ज्वलनेपथ्या राजकुले नागरकलोकाः, विधीयन्ते तदुपचाराः, प्रयुज्यन्ते समाचाराः, आस्फाल्यन्ते तूर्यसंघाताः, गीयन्ते धवलमङ्गलानि, नृत्यन्ति ललनालोकाः सह कञ्चुकिवामनकुब्जादिभिर्नरेन्द्रवृन्देनेति / ततश्चैवं वृत्ते जन्ममहानन्दे अतिक्रान्ते मासे तिरोधाय संसारिजीव इत्यभिधानं प्रतिष्ठितं मे नन्दिवर्द्धन इति नाम / जातो ममाप्यहमनयोः पुत्र इत्यभिमानः, ततो जनयन्नानन्दं जननीजनकयोः पञ्चभिर्धात्रीभिर्लालितः संपन्नोऽहं त्रिवार्षिकः। मम चासंव्यवहारनगरादारभ्य सकलं कालं द्विविधः परिकरोऽनुवर्तते / तद्यथा-अन्तरङ्गो बहिरगश्च / तत्रान्तरङ्गपरिकरमध्येऽस्ति ममाविवेकिता नाम ब्राह्मणजातीया धात्री / साऽपि प्रस्ता मज्जन्मदिने, जातो दारकः, प्रतिष्ठितं तस्य नाम वैश्वानर इति / स चादित एवारभ्यानभिव्यक्तरूपतयाऽऽसीदेव, केवलमधुनाऽभिव्यक्तरूपः संपन्नः। ततो मयाऽसौ सह धारयन् वैरकलहाभिधानौ विषमविस्तीर्णी चरणौ, दधानः परिस्थूलकठिनहस्वास्याभिधाने जले, समुदहमनुशयानुपशमनामानौ विषमप्रतिष्ठितावूरू, बिभ्राणः पैशुन्यसंज्ञकमेकपाश्र्धीनतं कटितट, दर्शयन् परमर्मोद्घट्टननामकं वक्र 1 प्रमोदः 2 मार्ग०प्र०
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy