________________ नगरान्तरे / मयाऽभिहितम्-यदाज्ञापयति देवी, ततो दर्शितस्तया सुन्दराकारः पुरुषः, अभिहितश्चाई यथाऽऽर्यपुत्र ! तुष्टया मयाऽयमधुना भवतः सहायो निरूपितः पुण्योदयो नाम पुरुषः, तदनेन, सह भवता गन्तव्यं, मयाऽभिहितम्-यदाज्ञापयति देवी। पुण्योदयः _अत्रान्तरे जीर्णा में पूर्वदत्ता गुटिका, ततः प्रयुक्ताऽन्या गुटिका भवितव्यतया, अभिहितं च तया, यथाऽऽर्यपुत्र ! तत्र गतस्यायं पुण्योदयस्ते प्रच्छन्नरूपः सहोदरः सहचरश्च भविष्यतीति / संकेतो एवं च वदति संसारिजीवे भव्यपुरुषः प्रज्ञाविशालायाः कर्णाभ्यर्णे स्थित्वेदमाह-यथाम्ब ! द्बोधः कोऽयं पुरुषः, किं वाऽनेन कथयितुमारब्धं ? कानि चामूनि असंव्यवहारादीनि नगराणि ? का चेयं गुटिका ? यैकैकवासके प्रयुक्ता सती नानाविधरूपाणि कारयति विविधसुखदुःखादिकार्याणि दर्शयति, कथं वा पुरुषस्येयन्तं कालमेकत्रावस्थितिः, कथं चासंभावनीयानि मनुष्यस्य सतः कृमि· पिपीलिकादीनि रूपाणि जायेरन् , तदिदं सकलमपूर्वाऽऽलजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते, तत्कथयाम्बिके ! कोऽस्य भावार्थ इति ? प्रज्ञाविशालयोक्तम्-वत्स ! यदस्येदानीन्तनं विशेषरूपमुपलभ्यते तन्नानेन कथितं, किं तर्हि ? सामान्यरूपेण संसारिजीवनामायं * पुरुषः, अतस्तदेवानेनात्माभिधानमाख्यातमनेन चात्मचरितं सर्वमिदं घटमानकमेव निवेदयितुं प्रक्रान्तं, तथाहि-असांव्यवहारिकजीवराशिरत्रासंव्यवहारनगरम् / एकेन्द्रियजातयः पश्चापि पृथिव्यतेजोवायुवनस्पतिरूपास्तेषां स्थानं एकाक्षनिवास, विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणानां स्थानं विकलाक्षनिवास, पञ्चेन्द्रियतिरश्चां निलयः पञ्चाक्षपशुसंस्थानम् / एकजन्मप्रायोग्यं कर्मप्रकृतिजालमेकभववेद्या गुटिकेत्युच्यते, तदुदयेन भवन्त्येव नानाविधरूपाणि, संपद्यन्ते एव विविधसुखदुःखानि कार्याणि, अजरामरश्चायं पुरुषः, ततो युक्तमेवास्यानन्तमपि कालमवस्थानं संसारिजीवस्य चात्र भद्र ! भवन्त्येव कृमिपिपीलिकादिरूपाणि, किमत्राश्चर्यम् ? अथवा मुग्धबुद्धिरद्यापि वत्सो न जानीते यदस्य स्वरूपम् / वत्स ! न संभवत्येव भुवनोदरे तत्संविधानकं यदस्य संसारिजीवस्य संबन्धिनि चरिते नावतरति, तद्वत्स ! निवेदयतु तावदेषः सर्व यथावृत्तं, पश्चात्तवाहमस्य भावार्थ निराकुला कथयिष्यामि, भव्यपुरुषेणोक्त-यथाज्ञापयत्यम्बेति___ उत्पत्तिस्तावदस्यां भवति नियमतोवर्यमानुष्यभूमौ, भव्यस्य प्राणभाजः समयपरिणतेः कर्मणश्च प्रभावात्। एतच्चाख्यातमा प्रथममनु ततस्तस्य बोधार्थमित्थं, प्रक्रान्तोऽयं समस्तः कथयितुमतुली जीवसंसारचारः॥१॥ सच सदागमवाक्यमपेक्ष्य भो! जडजनाय च तेन निवेद्यते ।बुधजनेन विचारपरायणस्तदनु भव्यजनः प्रतिबुध्यते प्रस्तावेऽत्र निवेदितं तदतुलं संसारविस्फूर्जितं, धन्यानामिदमाकलय्य विरतिः संसारतो जायते / येषां त्वेष भवो विमूढमनसां भोः! सुन्दरो भासते, ते नूनं पशवो न सन्ति मनुजाः कार्येण मन्यामहे // 2 // इत्युपमितभवप्रपञ्चायां कथायां संसारिजीवचरिते तिर्यग्गतिवक्तव्यतावर्णनो नाम द्वितीयः प्रस्तावः // 2 //