________________ 82 योगविंशिका गाथा-१ एते च त्रयोऽपि विघ्नजया आशयरूपाः समुदिताः प्रवृत्तिहेतवोऽन्यतरवैकल्येऽपि तदसिद्धेरित्यवधेयम् / / उक्तं च - विचिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधिं नावाप्नोतेि / यश्चावाप्नोति स गृहस्थो वा स्याद्यतिति दर्शयितुमाह - सिताः पुत्रकलत्रादि-भिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, एके च लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनु-गच्छन्ति - आचार्योक्तं प्रतिपद्यन्ते, तथा असिता वा गृहवा(पा)सविमुक्ता वा एके विचिकित्सादिरहिता आचार्य-मार्गमनुगच्छन्ति / तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्ग-प्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह - आचार्योक्तं सम्यक्त्वमनुगच्छद्धिर्विर-ताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन् / अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ?, असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यतेत्यर्थः, यदिवा सितासितैराचार्योक्त-मनुगच्छद्भिः - अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननु-गच्छन् - अनवधारयन् कथं न निर्विद्येत ?, न निर्वेदं तपःसंयमयोर्गच्छेत् निर्विण्णश्चेदमपि भावयेत्, यथा - नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्विण्णस्याचार्याः समाधिमाहुः / यथा - भोः साधो ! मा विपादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यक्त्वमभ्युपगतं, तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावा-दिति भावः / / किं चायं विरतिपरिणामो द्वादशकपाय-क्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽ-वाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमाने-ऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितं, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह - तमेव सझं नीसंकं जं जिणेहिं पवेइयं (सू. 162) वृ० - यत्र क्वचित् स्वसमयपरसमयज्ञाचार्याभावात् . सूक्ष्मव्यवहितातीन्द्रियपदार्थेषुभयसिद्धदृष्टान्तसम्यग्हेत्वभावाञ्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत् यथा - तदेवैकं सत्यम् - अवितथं, निशङ्कमिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का, निर्गता शङ्का यस्मिन् प्रवेदने तन्निशङ्क, यत् किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितं, कैः? जिनैः तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति / किं यतेरपि विचिकित्सा स्याद्येनेदमभिधीयते ?, संसारान्तर्वत्तिनो मोहोदयात्किं ? यन्न स्यादिति, तथा चागमः - “अत्थि णं भंते ! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति ?, हंता अत्थि, कहन्नं समणावि निग्गंथा कंखामोहणिजं कम्मं वेयंति ?, गोअमा ! तेसु तेसु नाणन्तरेसु चरित्तंतरेसु संकिया कंखिया विइगिच्छासमावन्ना भेयसमावन्ना कलुससमावन्ना, एवं खलु गोयमा ! समणावि निग्गंथा कंखामोहणिजं कम्मं वेदंति, तत्थालंबणं 'तमेव सञ्चं णीसंकं जं जिणेहिं पवेइयं',