________________ योगविंशिका गाथा-१ NNNNNNNNNNNNNNNN 12“विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः / / मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः / / " [षो० 3-9] इति / से गुणं भंते ! एवं मणं धारेमाणे आणाए आराहए भवति ?, हंता गोअमा ! एवं मणं धारेमाणे आणाए आराहए भवति,” किं चान्यत् - “वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् / यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् / / 1 / / " इत्यादि / / - आचाराङ्गसूत्र - लोकसारअध्ययन - उद्देशक - 5, शीलाङ्काचार्यवृत्तिश्च / / 12] A - वृ० य० विघ्नजयत्रिविधः खलु विज्ञेय इति विघ्नस्य धर्मान्तरायस्य जयः पराभवो निराकरणं स त्रिविधस्तिस्रो विधा अस्येति त्रिविधस्त्रिभेदः खलुशब्दो वाक्यालङ्कारे त्रैविध्यमेवाह / हीनमध्यमोत्कृष्टः हीनमध्यमाभ्यां सहित उत्कृष्टः एको हीनो विघ्नजयो अपरो मध्यमोऽपरस्तूत्कृष्ट इति / त्रैविध्यमेव निदर्शनेन साधर्म्यगर्भमाह / मार्ग इह कण्टकज्वरमोहजयसम इति / मार्गे प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविघ्नजयसमो मोहविघ्नजयसमः / इदमत्र तात्पर्यं, यथा नाम कस्यचित्पुरुषस्य प्रयोजनवशान्मार्गप्रवृत्तस्य कण्टकाकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति तद्रहिते तु पथि प्रवृत्तस्य गमनं निराकुलं सञ्जायते / एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः, कण्टकाश्चेह सर्व एव प्रतिकूलाः शीतोष्णादयो धर्मस्थानविघ्नहेतवस्तैरभिद्रुतस्य धार्थिनोऽपि निराकुलप्रवृत्त्यसिद्धेः / आशयभेदश्चायं बाह्यकण्टकविघ्नजयेनो-पलक्ष्यते / तथा तस्यैव ज्वरवेदनाभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि कर्तुमशक्क्रु-वतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नस्तज्जयस्तु विशिष्टगमनप्रवृत्तिहेतुर्निराकुलशरीरत्वेन परिदृश्यते, इहापि ज्वरकल्पाः शारीरा एव रोगाः परिगृह्यन्ते तदभिभूतस्य विशिष्टधर्मस्थानाराधनाक्षमत्वात् / ज्वरकल्प-शरीरदुःखविघ्नजयस्तु सम्यग्धर्मस्थानाराधनाय प्रभवति / तस्यैवाध्वनि जिगमिषोः पुरुषस्य दिग्मोहकल्पो मोहविघ्नस्तेनाभिभूतस्य पुनः पुनः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः कथञ्चित् प्रादुर्भवति। मोहविघ्न-जयस्तु स्वयमेव मार्गसम्यक्परिज्ञानात्परैश्चोच्यमानमार्गश्रद्धानान्मन्दोत्साहतापरित्यागेन गमनप्रवृत्तिहेतु-र्भवति / इहापि दिग्मोहगमनविघ्नकल्पो मिथ्यात्वादिजनितो मनोविभ्रमः परिगृह्यते / तज्जयस्तु मिथ्यात्वादि-दोषनिराकरणद्वारेण / मनोविभ्रमापसारकत्वेन प्रस्तुतधर्ममार्गेऽनवरतप्रयाणकप्रवृत्त्या गमनाय सम्पद्यते / एवं कण्टकज्चरमोहविघ्नजयसमः त्रिविधो विघ्नजय उक्तः / स एव विशिष्यते - प्रवृत्तिफल: प्रवृत्तिर्धर्मस्थानविषया फलमस्याशयविशेषस्य विघ्नजयसज्ञितस्येति प्रवृत्तिफल: / / 9 / / उ० विघ्नजयं लक्षयति - विघ्नेत्यादि / विघ्नस्य धर्मान्तरायस्य जयः खलु त्रिविधो विज्ञेयः प्रतियोगिभेदाद्धीनमध्यमाभ्यां सहित उत्कृष्ट एको हीनो विघ्नजयोऽपरो मध्यमोऽन्यस्तूत्कृष्ट इति त्रैविध्यमेव निदर्शनगर्भविशेषणेन समर्थयति मार्गे प्रवृत्तस्य पुंस इह जगति ये कण्टकज्वरमोहाः कण्टकपादवेधज्वरोत्पत्तिदिग्मोहोत्पादा विघ्ना अस्खलिताविह्वलनियतदिक्प्रवृत्तिप्रतिबन्धकास्तजयाश्च विशिष्टप्रवृत्तिहेतवस्तत्समोऽयं धर्मस्थानेपि कण्टकानां शीतोष्णादीनां ज्वरकल्पानां शारीररोगाणां दिग्मोहकल्पस्य च मिथ्यात्वस्य जयः परिषहतितिक्षयारोग्यहेतुविहिताहारादिप्रवृत्तिमनोविभ्रमापनायकसम्यक्त्वभावनया च जनितो यथोत्तरमधि