________________ योगविंशिका गाथा-१ 1 अतिचाररहिताऽधिकगुणे गुर्वादौ विनयवैयावृत्त्यबहुमानाद्यन्विता हीनगुणे निर्गुणे वा दयादान कस्त्रिविधोऽपि समुदितः प्रवृत्तिरधिकृतधर्मस्थानविषया फलं यस्य स तथाऽल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेरित्यवसेयम् / / 9 / / - षोडशक - 3, वृत्तिः / / . B- तुला - बाह्यान्तर्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः / कण्टकज्वरमोहानां जयैर्विघ्नजयः समः / / 13 / / वृ० - बाह्येति / बाह्यव्याधयः शीतोष्णादयः अन्तर्व्याधयश्च ज्वरादयः मिथ्यात्वं भगवद्वचनाश्रद्धानं, तेषां जयस्तत्कृतवैक्लव्यनिराकरणं तद्वयङ्ग्याशयात्मकः / कण्टकज्चरमोहानां जयैः समो विघ्नजयः / इत्थं च हीनमध्यमोत्कृष्टत्वेनास्य त्रिविधत्वं प्रागुक्तं व्यक्तीकृतं / तथाहि-कस्यचित्पुंसः कण्टकाकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुः, तदहिते तु पथि प्रवृत्तस्य निराकुलं गमनं सञ्जायते, एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः / तथा तस्यैव ज्वरवेदनाभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि तत्कर्तुमशनुवतः कण्टकविघ्नादप्यधिको ज्वरविघ्नः, तज्जयस्तु निराकुलप्रवृत्तिहेतुः, एवं ज्वरविघ्नजयसमो द्वितीयो विघ्नजयः। तस्यैव चाध्वनि जिगमिषोर्दिङमोहकल्पो मोहविघ्नः तेनाभिभूतस्य प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः कथञ्चित्प्रादुर्भवति, तज्जयस्तु स्वरसतो मार्गगमनप्रवृत्तिहेतुः, एवमिह मोहविघ्नजयसमस्तृतीयो विघ्नजयः इति फलैकोन्नेयाः खल्वेते / / 13 / / - द्वा.द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः / / C- अपायमाहुः कर्मैव, निरपायाः पुरातनम् / पापाशयकरं चित्रं, निरूपक्रमसञ्ज्ञकम् / / 373 / / अव. अपायमेवाधिकृत्य परमतसंवादमाह / कण्टकज्वरमोहैस्तु, समो विघ्नः प्रकीर्तितः / मोक्षमार्गप्रवृत्ताना-मत एवापरैरपि / / 374 / / वृ. कण्टकज्वरमोहैस्तु कण्टकेन ज्वरेण मोहेन च पुनः / समस्तुल्यः विघ्नः प्रत्यूहो जघन्यमध्यमोत्कृष्टभेदभिन्नः / प्रकीर्तितो निरूपितः / मोक्षमार्गप्रवृत्तानां सम्यग्दर्शनाद्याराधनावाहितात्मनाम् / अत एव योगनिरनुबन्धत्वादेव हेतोः / अपरैरपि योगिभिर्न केवलमस्माभिरित्यपि शब्दार्थः / यथा हि केषाञ्चित्पथिकानां क्वचित्पाटलिपुत्रादौ गन्तुं प्रवृत्तानां कण्टकज्वरदिग्मोहैरभिभूतानां यथाक्रमं स्तोकबहुबहुतरकालं गमनभङ्गहेतुर्विघ्नः सम्पद्यते, एवं योगिनामपि सिद्धिपथप्रस्थितानां तथाविधकर्मोदयात् त्रिप्रकारोऽन्तरायः समुपजायत इति / / 374 / / - योगबिन्दुः सवृत्तिः / / D - ननु सम्यग्दृशो भावाज्ञायां मार्गप्रवृत्त्युपपत्तौ सर्वेषां कालाऽवैषम्येन मुक्तिप्राप्तिप्रसङ्ग इत्यत आइ - पडिबंधो वि य एत्थं कंटकजरमोहसन्निभो भणिओ / तंते तविगमेणं मुक्खपुरे गमणमइरेणं / / 43 / / वृ. प्रतिबन्धोऽपि विसामग्रीकृतकालविलम्बरूपः, अत्र भावाज्ञायाम्, पाटलिपुरादौ प्रस्थितस्य पथिकस्यैवावश्यं वेद्यकर्मपाशात् कंटकज्वरमोहसन्निभो मेघकुमार-दहनसुराऽर्हद्दत्तानामिव सन्निहितदूरदूरतरावधिकत्वात् भणितः तन्त्रे - उपदेशपदादौ, देशसौराज्य-सुभिक्षत्वादिगुणपरिज्ञानवतः पथिकस्य कण्टकादित इव मोक्षविषयकाजरामरत्वादिगुणपरिज्ञानवतः सम्यग्दृशः सुखशीलत्व-मायोन्माद-शबलानुष्ठानादसदभ्यासवतो मृदुमध्यादिमात्रप्रतिबन्धोपपत्तेः / तद्विगमेन-उक्तप्रतिबन्धविगमेन, मोक्षपुरे अचिरेण-अविलम्बेन गमनं सम्पद्यते, असति प्रतिबन्धे भावाज्ञाया मुक्तिप्रापकस्वभावत्वात् / / 43 / / - उप. रह. सवृत्तिः / / |13| - अधिकगुणे गुर्वादौ विनयवैयावृत्यबहुमानाद्यन्विता हीनगुणे निर्गुणे वा दयादान व्यसनपतितःखा