________________ योगविंशिका गाथा-१ 85 NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN व्यसनपतितदुःखापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याहिंसादेः प्राप्तिः सिद्धिः, उक्तं च - 14“सिद्धिस्तत्तद्धर्म-स्थानावाप्तिरिह तात्त्विकी ज्ञेया / अधिके विनयादियुता, हीने च दयादिगुणसारा / / " [पो० 3-10] इति / . स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि सम्पादकत्वं विनियोगः / अयं चानेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तेरवन्ध्यो हेतुः उक्तं च - 15"सिद्धेश्चोत्तरकायँ, विनियोगोऽवन्ध्यमेतदेतस्मिन् / सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् / / " [षो० 3-11] पहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याऽहिंसादेः अतिचाररहिता प्राप्तिः सिद्धिः - इत्यन्वयः कार्यः / -सम्पा० / / 14] A - वृ० य० सिद्धिर्नामाशयभेदः सा च स्वरूपतः कीदृशी / तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया तस्य तस्य विवक्षितस्य धर्मस्थानस्याहिंसादेरवाप्तिः प्राप्तिः सिद्धिरुच्यते / सा च तात्त्विकीदं च विशेषणं तत्तद्वर्मस्थानावाप्तेरतात्विकपरिहारार्थं, नह्यतात्त्विकी सा सिद्धिर्भवितुमर्हति / सा च सिद्धिरधिके पुरुषविशेषे सूत्रार्थोभयवेदिन्यभ्यस्तभावनामार्गे तीर्थकल्पे गुरौ विनयादियुता विनयवैयावृत्त्यबहुमानादिसमन्विता / हीने च स्वप्रतिपत्रधर्मस्थानापेक्षया हीनगुणे निर्गुणे वा सामान्येनैव प्राणिगणे दयादिगुणसारा दयादानव्यसनपतितदुःखापहारादिगुणप्रधाना / अधिकगुणहीनग्रहणान्मध्यमोपकारफलवत्यपि सा सिद्धिरित्युक्तं भवति / / 10 / / उ० सिद्धिं लक्षति - सिद्धिरित्यादि / सिद्धिश्चतुर्थाशयरूपेहाशयविचारे तस्य तस्याभिप्रेतधर्मस्थानस्याहिंसादेरवाप्तिस्तात्त्विकी स्वानुषङ्गेन नित्यवैराणामपि वैरादिविनाशकत्वेन पारमार्थिकी ज्ञेया / सा च सिद्धिरधिके पुरुषविशेषे सूत्रार्थोभयनिष्णाते तीर्थकल्पे गुरौ विनयादिना युताऽऽदिना वैयावृत्त्यवहुमानादिग्रहः / हीने च स्वापेक्षया हीनगुणे निर्गुणे वा दयादिगुणेन दयादानदुःखोद्धाराद्यभिलाषेण सारा प्रधाना / उपलक्षणान्मध्यमोपकारफलवतीत्यप्यवसेयम / / 10 / / - षोडशक-३, वृत्तिः / / B - तुला - सिद्धिस्तात्त्विकधर्माप्तिः साक्षादनुभवात्मिका। कृपोपकारविनयान्विता हीनादिषु क्रमात् / / 14 / / वृ० - सिद्धिरिति / सिद्धिः तात्त्विकस्याभ्यासशुद्धस्य न त्वाभ्यासिकमात्रस्य धर्मस्याहिंसादेराप्तिरुपलब्धिः / साक्षादनुपचारेण अनुभवात्मिका आत्मन आत्मना संवित्तिरूपा ज्ञानदर्शनचारित्रैकमूर्तिका / हीनादिषु क्रमात् कृपोकारविनयान्विता, हीने कृपान्विता, मध्यमे उपकारान्विता, अधिके च विनययुक्ता / / 14 / / - द्वा. द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः / / 15 A - वृ० य० - सिद्धेश्चोत्तरकार्यं विनियोगः सिद्धेरुतरकालभावि कार्यं / विनियोगो नामाशयभेदो विज्ञेय इति सम्बन्धनीयं / अवन्ध्यं सफलं, न कदाचिनिष्फलमेतद्धर्मस्थानमहिंसादि एतस्मिन्विनियोगे सति