________________ योगविंशिका गाथाroommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmit अवन्ध्यं न कदाचिन्निष्फलं एतत् धर्मस्थानमहिंसादि, एतस्मिन् विनियोगे सति, अन्वयसम्पत्या अविच्छेदभावेन, तत् विनियोगसाध्यं धर्मस्थानं, सुन्दरम् / इतिः भिन्नक्रमः समाप्त्यर्थश्च, यावत्परमित्येवं योगः, यावत् परं प्रकृष्टं धर्मस्थानं, समाप्यत इत्यर्थः / इदमत्र हृदयम् - धर्मस्तावद्रागादिमलविगमेन पुष्टिशुद्धिमञ्चित्तमेव / पुष्टिश्च पुण्योपचयः, शुद्धिश्च घातिकर्मणां पापानां क्षयेण या काचिन्निर्मलता, तदुभयं च प्रणिधानादिलक्षणेन भावेनानुबन्धवंद् भवति, तदनुबन्धाञ्च शुद्धिप्रकर्षः सम्भवति, निरनुबन्धं च तदशुद्धिफलमेवेति न तद्धर्मलक्षणम् / सञ्जाते अन्वयसम्पत्त्याऽविच्छेदसम्पत्त्या हेतुभूतया सुन्दरमेतत्पूर्वोक्तं धर्मस्थानमितिशब्दो भिन्नक्रमः, परमित्यनेन सम्वन्धनीयो यावत्परमिति तद्धर्मस्थानं परं प्रकृष्टं . यावत्सम्पन्नमनेन विनियोगस्याऽनेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तिहेतुत्वमावेदयति / इदमत्र हृदयं - अहिंसादिलक्षणधर्मस्थानावाप्तौ सत्यां स्वपरयोरुपका-रायाविच्छेदेन तस्यैव धर्मस्थानस्य वस्तुनो विनियोगः सम्यक्कृतो भवति / यदि परस्मिन्नपि तत्सम्पद्यते विशेषेण नियोगो नियोजनमध्यारोपणमितिकृत्वा / आशयभेदत्वाञ्च विनियोगस्यावन्ध्यत्वप्रतिपादनप्रक्रियया स्वरूपोपकार-हेतुत्वं दर्शयति सूत्रकारः / / 11 / / ___उ० - विनियोगं लक्षयति - सिद्धेश्चेत्यादि / सिद्धेश्चोत्तरकालभाविकार्य विनियोगो नामाशयभेदो विज्ञेयः, एतद्विनियोगाख्यं सिद्धयुत्तरकार्यमवन्ध्यं न कदाचिनिष्फलमेतस्मिन् सति सञ्जातेऽन्वयसम्पत्त्या भङ्गेऽपि सुवर्णघटन्यायेन सर्वथा फलानपगमाद्विनियोजितधर्मापगमेऽपि भूयो झटिति तत्संस्कारोबोधसम्भवादनेकजन्मान्तरसन्तानक्रमेणाविच्छेदसम्पत्त्या हेतुभूतया इतिहेतोस्तत्सिद्ध्युत्तरकाएँ, परं शैलेशीलक्षणं सर्वोत्कृष्टधर्मस्थानं यावत्सुन्दरं परोपकारगर्भक्रियाशक्त्या तीर्थकरविभूतिपर्यन्तसुन्दरविपाकार्थकं अयं विनियोगफलोपदेशः लक्षणं तु स्वात्मतुल्यपरफलकर्तृत्वमित्यवसेयम् / / 11 / / . - षोडशक - 3, वृत्तिः / / ___B - तुला - अन्यस्य योजनं धर्मे, विनियोगस्तदुत्तरम् / कार्यमन्वयसम्पत्त्या, तदवन्ध्यफलं मतम् / / 15 / / वृ० - अन्यस्येति / अन्यस्य स्वव्यतिरिक्तस्य योजनं धर्मेऽहिंसादौ विनियोगः / तदुत्तरं सिद्ध्युत्तरं कार्यं / तदन्वयसम्पत्त्याऽविच्छेदसिद्ध्या अवन्ध्यफलमव्यभिचारिफलं मतं / स्वपरोपकारबुद्धिलक्षणस्यानेकजन्मान्तरसन्ततोद्बोधेन प्रकृष्टधर्मस्थानावाप्तिहेतुत्वात् / / 15 / / - द्वा. द्वा., 10 - योगलक्षणद्वात्रिंशिका संवृत्तिः / / 2/16] - न प्रणिधानाद्याशयसंविद्वयतिरेकतोऽनुबन्धि तत् / भिन्नग्रन्थेनिर्मलबोधवतः स्यादियं च परा / / 5 / / वृ० य० प्रणिधानाद्याशयसंविद्वयेतिरेकत इति / प्रणिधानादयश्च ते आशयाश्च वक्ष्यमाणाः पञ्चाध्यवसायस्थानविशेषास्तेषां संवित्संवित्तिः संवेदनमनुभवस्तस्या व्यतिरेकोऽभावस्तस्मात्तदाशयसंविद्वयतिरेकेणैतद् द्वयं पुष्टिशुद्धिरूपं नानुबन्धि भवति / तस्मादेतद्वयमनुबन्धिकर्तुकामेन प्रणिधानादिषु यतितव्यं / इयं च कस्येत्याह - भिन्नग्रन्थेरपूर्वकरणबलेन कृतग्रन्थिभेदस्य तत्प्रभावादेव निर्मलबोधवतो विमलबोधसम्पन्नस्य स्याद्भवेदियं च प्रस्तुता प्रणिधानाद्याशयसंवित्परा प्रधाना / / 5 / /